मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — उत्तरार्धम् — सर्गः २९

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — उत्तरार्धम् · 29

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

नित्यमन्तर्मुखस्तिष्ठ वीतरागो विवासनः ।

चिन्मात्रममलं शान्तं कर्म सर्वत्र भावयन्

॥१॥

आकाशविशदः प्राज्ञश्चिन्मात्रैकघनस्थितिः ।

समः सौम्यः समानन्दः स ब्रह्माऽऽबृंहिताशयः

॥२॥

शोकेष्वापत्सु घोरेषु संकटेष्ववटेषु च ।

यथाप्राप्तेषु सर्वेषु खर्वेषून्नतिमत्सु च

॥३॥

यथाक्रमं यथादेशं कुरु दुःखमदुःखितः ।

वाष्पक्रन्दादिपर्यन्तं द्वन्द्वयुक्तसुखानि च

॥४॥

समागमेषु कान्तानामुत्सवेषूदयेषु च ।

आनन्दं भज सौम्यात्मा वासनाक्रान्तमूढवत्

॥५॥

भूतानि मृत्युकार्येषु संग्रामादिषु निर्दह ।

दावानलस्तृणानीव वासनाक्रान्तमूढवत्

॥६॥

क्रमागतेष्वखिन्नोऽर्थं बकवच्चिन्तयार्जय ।

अर्थोपार्जनकार्येषु वासनाक्रान्तमूढवत्

॥७॥

बलाद्विदलयाशेषानरीनरिनिषूदन ।

वातो रिक्तानिवाम्भोदान् वासनाक्रान्तमूढवत्

॥८॥

जनेषु करुणार्हेषु धैर्यं कुरु महात्मसु ।

आत्माराममना मौनी वासनाक्रान्तमूढवत्

॥९॥

मुदितो भव हर्षेषु दुःखेषु भव दुःखितः ।

करुणां कुरु दीनेषु भव वीरेषु वीर्यवान्

॥१०॥

अन्तर्मुखः सदानन्दः स्वात्मारामतयान्वितः ।

यः करोति शमोदारस्तत्र कर्तासि नानघ

॥११॥

आत्मभावनया साधो नित्यमन्तर्मुखस्थितेः ।

वज्रधारापि ते राम पतिता याति कुण्ठताम्

॥१२॥

संकल्पकलनोन्मुक्ते स्वसंविन्मात्रकोटरे ।

यस्तिष्ठत्यात्मनि स्वैरमात्मारामो महेश्वरः

॥१३॥

न तं भिन्दन्ति शस्त्राणि न दहन्ति हुताशनाः ।

न क्लेदयन्ति वारीणि शोषयन्ति न मारुताः

॥१४॥

सुस्तम्भमजमालिङ्ग्य स्वात्मानमजरामरम् ।

तिष्ठावष्टभ्य धीरात्मा सुस्तम्भमिव मन्दिरम्

॥१५॥

जगद्वृक्षपदार्थौघपुष्पामोदश्रियं पूराम् ।

संविदं संविदः स्वस्थामास्वान्तर्मुखमच्युतम्

॥१६॥

अन्तर्मुखतया नित्यं कार्यमाहरतां बहिः ।

जीवतामपि नोदेति वासना दृषदामिव

॥१७॥

पुनः प्रसरणोन्मुक्तमन्तःसुप्तं मनः कुरु ।

कुर्वन्सर्वाणि कर्माणि कूर्माङ्गवदवृत्तिमान्

॥१८॥

अन्तर्वृत्तिविहीनेन बहिर्वृत्तिमतेव च ।

सुप्तप्रबुद्धप्रायेण कार्यमाचर चेतसा

॥१९॥

बालमूकादिविज्ञानवदन्तस्त्यक्तवासनम् ।

भवतः कुर्वतः कार्यं खवच्चित्तं न लिप्यते

॥२०॥

वृत्तित्यागविलीनेन किंचित्प्रसरता बहिः ।

अन्तरत्यन्तसुप्तेन चेतसा तिष्ठ विज्वरः

॥२१॥

असंकल्पकलङ्कायां ज्ञानाच्चित्तक्षयोदये ।

शुद्धायां संविदि स्थित्वा कुरु मा कुरु वानघ

॥२२॥

सुषुप्तसमया वृत्त्या जाग्रद्व्यवहरन्व्रजन् ।

गृहाण मा किंचिदपि मा वा किंचित्परित्यज

॥२३॥

जाग्रत्यपि सुषुप्तश्चेज्जागर्षि च सुषुप्तके ।

जाग्रत्सषुप्तयोरैक्यात्तदस्त्यसि निरामयः

॥२४॥

एवमाद्यन्तरहितमभ्यासेन शनैःशनैः ।

पदमासादयाद्वन्द्वमतीतं सर्ववस्तुतः

॥२५॥

न च द्वैतं न चैवैक्यं जगदित्येव निश्चयी ।

परमामेहि विश्रान्तिमाकाशविशदाशयः

॥२६॥

श्रीराम उवाच ।

यद्येवं मुनिशार्दूल तदहंप्रत्ययात्मकः ।

भवानेवेह किं तावद्वसिष्ठाख्यः स्थितो वद

॥२७॥

श्रीवाल्मीकिरुवाच ।

राघवे गदति त्वेवं वसिष्ठो वदतां वरः ।

तूष्णीमेव मुहूर्तार्धमतिष्ठत्स्पष्टचेष्टितः

॥२८॥

तस्मिंस्तूष्णीं स्थिते किं स्यादिति सभ्ये महाजने ।

पतिते संशयाम्भोधौ रामः पुनरुवाच ह

॥२९॥

किमर्थं भगवंस्तूष्णीं भवानहमिव स्थितः ।

न सोऽस्ति जगतां न्यायः सतां यो नोत्तरक्षमः

॥३०॥

श्रीवसिष्ठ उवाच ।

न मे वक्तुमशक्तत्वाद्युक्तिक्षय उपस्थितः ।

किंतु प्रश्नस्य कोट्यास्य तूष्णीमेवानघोत्तरम्

॥३१॥

द्विविधो भवति प्रष्टा तत्त्वज्ञोऽज्ञोऽथवापि च ।

अज्ञस्याज्ञतया देयो ज्ञस्य तु ज्ञतयोत्तरः

॥३२॥

एतावन्तमभूत्कालं भवानज्ञाततत्पदः ।

भाजनं सविकल्पानामुत्तराणां महामते

॥३३॥

तत्त्वज्ञस्त्वधुना जातो विश्रान्तः परमे पदे ।

योग्यो न सविकल्पानामुत्तराणामसि स्फुटम्

॥३४॥

यावान्कश्चित्किलोल्लेखो वाङ्मयो वदतां वर ।

सूक्ष्मार्थः परमार्थो वा बहुरल्पतरोऽपि वा

॥३५॥

प्रतियोगिव्यवच्छेदसंख्यातीतादिविभ्रमैः ।

स च सर्वोऽन्वितः साधो भा इव त्रसरेणुभिः

॥३६॥

उत्तरं सकलङ्कं च तज्ज्ञो नार्हति सुन्दर ।

नाकलङ्का च वागस्ति त्वं च तज्ज्ञतरः स्थितः

॥३७॥

यथाभूतं च वक्तव्यं ज्ञस्यान्तेवासिनो मया ।

यथाभूतं विदुः काष्ठमौनमन्तविवर्जितम्

॥३८॥

अविचारात्ससंकल्पं मौनमाहुः परं पदम् ।

तदेव तव तज्ज्ञस्य दत्तः सुन्दर उत्तरः

॥३९॥

यन्मयो हि भवत्यङ्ग पुरुषो वक्ति तादृशम् ।

ज्ञेयमात्रमयश्चाहं वागतीते पदे स्थितः

॥४०॥

वागतीतपदस्थो हि कथं गृह्णाति वाङ्मलम् ।

अवाच्यं वच्मि नो तेन वाग्धि संकल्पनाङ्किता

॥४१॥

श्रीराम उवाच ।

वाचि ये ये प्रवर्तन्ते ताननादृत्य दोषकान् ।

प्रतियोगिव्यवच्छेदिपूर्वकान्वद को भवान्

॥४२॥

श्रीवसिष्ठ उवाच ।

एवं स्थिते राघव हे यथाभूतमिदं श्रृणु ।

कस्त्वं कोऽहं जगद्वा किमिति तत्त्वविदां वर

॥४३॥

अहं तावदयं तात चिदाकाशो निरामयः ।

चेत्यसंवेद्यरहितः सर्वसंकल्पनातिगः

॥४४॥

स्वच्छं चिदाकाशमहं भवानाकाशमेव च ।

जगच्चाकाशमखिलं सर्वमाकाशमात्रकम्

॥४५॥

शुद्धज्ञानैकरूपात्मा शुद्धज्ञानमयात्मनि ।

अन्यसंविद्दृशोन्मुक्तः स्वान्यद्वक्तुं न वेद्म्यहम्

॥४६॥

स्वपक्षोद्भावनपरा अहंतात्मैकवर्धनम् ।

मोक्षार्थमप्युद्यमिनो नयन्ति शतशाखताम्

॥४७॥

जीवतोऽप्युपशान्तस्य व्यवहारवतोऽपि च ।

शववद्यदवस्थानं तदाहुः परमं पदम्

॥४८॥

अबहिःसाधनं शान्तमनन्तःसाधनं समम् ।

न सुखं नासुखं नाहं नान्यदित्यादि तं शिवम्

॥४९॥

मुक्तताया अहंतेयमभावो भावनं क्व च ।

तयैवान्विष्यते सेति जात्यन्धश्चित्रमीक्षते

॥५०॥

स्पन्दनेऽस्पन्दने चैव यत्पाषाणवदासितम् ।

अजडस्यैव तद्विद्धि निर्वाणमजरं पदम्

॥५१॥

तच्च नान्यो विजानाति स्वयमेवानुभूयते ।

लोकैषणाविरक्तेन ज्ञेन ज्ञत्वमिवात्मनि

॥५२॥

तत्राहंता न च त्वत्ता नानहंता न चान्यता ।

केवलं केवलीभावो निर्वाणममलं शिवम्

॥५३॥

चेत्योन्मुखत्वमेवाहुश्चेतनस्यास्य चेतनम् ।

एष एव च संसारो बन्धः क्लेशाय भूयसे

॥५४॥

चेतनस्याचेतनत्वमचेत्योन्मुखतात्मकम् ।

मोक्षं विद्धि परं शान्तं पदमव्ययमेव च

॥५५॥

दिक्कालाद्यनवच्छिन्ने शान्ते शान्तात्मनि स्थिते ।

चेत्यं न संभवत्येव कः किं चेतयते कथम्

॥५६॥

संकल्पः स्वप्नदृश्येऽन्तः संविन्मात्रात्मतां विना ।

यथान्यवद्भवेद्भूपास्तथैवास्मिन्बहिर्गते

॥५७॥

मनोबुद्ध्यादयश्चैते संविन्मात्रानुरूपिणः ।

मनोबुद्ध्यादिशब्दार्थभावितास्तु जडात्मकाः

॥५८॥

संविन्मात्रे समे स्वच्छे सबाह्याभ्यन्तरे तते ।

अभिन्ने भेदबुद्धिर्वा किमनर्थाय जृम्भते

॥५९॥

संविन्मात्रस्य शुद्धस्य शून्यस्य च किमन्तरम् ।

यच्चान्तरं तद्विबुधा विदन्त्येति न वाग्गतिम्

॥६०॥

सदसद्रूप आभासो यथा किमपि लक्ष्यते ।

तमसीक्षितयत्नेन ब्रह्मणीदं तथा जगत्

॥६१॥

अयमाकाशमेवाहं यदि शाम्याम्यवासनम् ।

वासनां तु न बध्नासि स्थित एवासि चिन्नभः

॥६२॥

इति निश्चयवानन्तस्तज्ज्ञोऽज्ञ इव संज्ञया ।

चिद्वपुर्विद्यमानोऽपि शाम्यत्यसदिव स्वयम्

॥६३॥

जीवानां ज्ञप्तिगुप्तेन ज्वलन्नज्ञानवायुना ।

अविद्याग्निः प्रबुद्धानां पुनस्तेनैव शाम्यति

॥६४॥

अजडानां यदज्ञानं स्थाणूनामिव शाम्यताम् ।

तमाहुर्मोक्षमक्षुब्धमासितं पदमक्षयम्

॥६५॥

ज्ञत्वेन ज्ञत्वमासाद्य मुनिर्भवति मानवः ।

अज्ञत्वादज्ञतामेत्य प्रयाति पशुवृक्षताम्

॥६६॥

अहं ब्रह्म जगच्चेदमित्यविद्यामयो भ्रमः ।

असत्यः प्रेक्षया ध्वान्तं दीपेनेव न लभ्यते

॥६७॥

समग्रकरणग्रामोऽप्यसंकल्पो विवेदनः ।

न किंचिदप्यनुभवत्यन्तर्बाह्ये च शान्तधीः

॥६८॥

सुषुप्तत्व इव स्वप्नः समाधौ प्रविलीयते। ।

दृश्यं सर्वं ज्ञबोधेऽन्तः पुनः स्वात्मैव लक्ष्यते

॥६९॥

नीलत्वं च यथा व्योम्नि तथा पृथ्व्यादिता शिवे ।

भ्रान्तिमात्रादृते नान्यद्यथा व्योम तथा शिवः

॥७०॥

वासनाभिरुपेतोऽपि समस्ताभिरवासनः ।

भवत्यसावसत्सर्वमिदमित्येव यस्य धीः

॥७१॥

संकल्पेष्वद्भुतं भव्य स्वप्नमायेन्द्रजालकम् ।

यद्वत्संसृतयस्तद्बदृष्टेऽप्यास्था किमत्र वै

॥७२॥

न दुःखमस्ति न सुखं न पुण्यं न च पातकम् । ।

न किंचित्कस्यचिन्नष्टं कर्तुर्भोक्तुरसंभवात्

॥७३॥

सर्वं शून्यं निरालम्बं ममताप्रत्ययोऽप्ययम् ।

द्विचन्द्रस्वप्नपुरवद्यस्यासौ सोऽपि नास्ति नः

॥७४॥

केवलो व्यवहारस्थः काष्ठमौनगतोऽथ वा ।

काष्ठपाषाणवत्तिष्ठन्ब्रह्मतामधिगच्छति

॥७५॥

शान्तत्वे चित्तत्वे नानानानात्मनीह शिवे ।

अवयविनोऽवयवित्वे त्विह युक्तिर्विद्यते नान्या

॥७६॥

अर्थागतस्वभावस्य च नैव च संभवादमले ।

एतस्मिन्सर्वगते ब्रह्मणि नास्ति स्वभावोक्तिः

॥७७॥

न च नास्तिकोपलम्भात्संवित्तेरस्तिता च नैवाजे ।

ग्राह्यग्राहकदृष्टेरसंभवादस्ति किंचिदपि

॥७८॥

शमममलमहार्यमार्यजुष्टं

शिवमजमक्षयमासितं समं यत् ।

तदवितथपदं तदास्व शान्तं

पिब लल भुङ्क्ष्व भवानयं हि नास्ति

॥७९॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे उत्तरार्धे भावनाप्रतिपादनं नामैकोनत्रिंशः सर्गः ।। २९ ।।