मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — उत्तरार्धम् — सर्गः ४०

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — उत्तरार्धम् · 40

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

रूपालोकमनस्कारबुद्ध्यादीन्द्रियवेदनम् ।

स्वरूपं विदुरम्लानमस्वभावस्य वस्तुनः

॥१॥

अस्वभावतनुत्वेन स्वभावस्थितिरातता ।

यदोदेति तदा सर्गो भ्रमाभः प्रतिभासते

॥२॥

यदा स्वभावविश्रान्तिः स्थितिमेति शमात्मिका ।

जगद्दृश्यं तदा स्वप्नः सुषुप्त इव शाम्यति

॥३॥

भोगा भवमहारोगा बन्धवो दृढबन्धनम् ।

अनर्थायार्थसंपत्तिरात्मनात्मनि शाम्यताम्

॥४॥

।

अस्वभावात्मता सर्गः स्वभावैकात्मता शिवः ।

भूयतां परमव्योम्ना शाम्यतां मेह ताम्यताम्

॥५॥

नात्मानमवगच्छामि न दृश्यं च जगद्भ्रमम् ।

ब्रह्म शान्तं प्रविष्टोऽस्मि ब्रह्मैवास्मि निरामयः

॥६॥

त्वमेव पश्यसि त्वन्त्वं सत्त्वं शब्दार्थजृम्भितम् ।

पश्यामि शान्तमेवाहं केवलं परमं नभः

॥७॥

ब्रह्मण्येव पराकाशे रूपालोकमनोमयाः ।

विभ्रमास्तव संजातकल्पाः स्पन्दा इवानिले

॥८॥

ब्रह्मात्मा वेत्ति नो सर्गं सर्गात्मा ब्रह्म वेत्ति नो ।

सुषुप्तो वेत्ति नो स्वप्नं स्वप्नस्थो न सुषुप्तकम्

॥९॥

प्रबुद्धो ब्रह्मजगतोर्जाग्रत्स्वप्नदृशोरिव ।

रूपं जानाति भारूपं जीवन्मुक्तः प्रशान्तधीः

॥१०॥

यथाभूतमिदं सर्वं परिजानाति बोधवान् ।

संशाम्यति च शुद्धात्मा शरदीव पयोधरः

॥११॥

स्मृतिस्थः कल्पनस्थो वा यथाख्यातश्च संगरः ।

सदसद्भ्रान्ततामात्रस्तथाहंत्वजगद्भ्रमः

॥१२॥

आत्मन्यपि नास्ति हि या

द्रष्टा यस्या न विद्यते कश्चित् ।

न च शून्यं नाशून्यं

भ्रान्तिरियं भासते सेति

॥१३॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० निर्वाणप्रकरणे उ० वसिष्ठगीतासु आत्मविश्रान्तिकथनं नाम चत्वारिंशः सर्गः ।।४०।।