मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — उत्तरार्धम् — सर्गः ५१

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — उत्तरार्धम् · 51

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीराम उवाच ।

कथं केवलजाग्रत्त्वमकारणमनर्थकम् ।

पराद्विकसति ब्रह्मन्गगनादिव पादपः

॥१॥

श्रीवसिष्ठ उवाच ।

अकारणं महाबुद्धे न कार्यमुपलभ्यते ।

तज्जाग्रतः केवलस्य न कश्चिदिह संभवः

॥२॥

तस्यातो संभवादन्ये जीवभेदाः सजीवकाः ।

सर्वे न संभवन्त्येव कारणाभावविक्षताः

॥३॥

नेह प्रजायते किंचिन्नेह किंचन नश्यति ।

उपदेश्योपदेशार्थं शब्दार्थकलनोदयः

॥४॥

श्रीराम उवाच ।

कः करोति शरीराणि मनोबुद्ध्यादिचेतनैः ।

को मोहयति भूतानि स्नेहरागादिबन्धनैः

॥५॥

श्रीवसिष्ठ उवाच ।

न कश्चिदेव कुरुते शरीराणि कदाचन ।

न मोहयति भूतानि कश्चिदेव कदाचन

॥६॥

अनाद्यन्तावभासात्मा बोध आत्मनि संस्थितः ।

नानापदार्थरूपेण कमूर्म्यादितया यथा

॥७॥

बाह्यं न विद्यते किंचिद्बोधः स्फुरति बाह्यवत् ।

उदेति बोधहृदयाद्बीजादिव वरद्रुमः

॥८॥

बोधस्यान्तरिदं विश्वं स्थितमेव रघूद्वह ।

स्तम्भस्यान्तर्यथा शालभञ्जिका प्रकटीकृता

॥९॥

सबाह्याभ्यन्तरात्मैकमनन्तं देशकालतः ।

बोधामोदप्रसरणं जगदेव प्रबुध्यताम्

॥१०॥

अयमेव परो लोको भाव्यतां वासनाक्षयः ।

शाम्यतां परलोकस्थं काः किलायान्ति वासनाः

॥११॥

देशकालक्रियालोकरूपचित्तात्मसत्पदम् ।

देशकालादिशब्दार्थरहितं न च शून्यकम्

॥१२॥

पदे पदविदामेव तस्मिन्बोधगतिर्भवेत् ।

द्रष्ट्रणां शान्तदृश्यानामेवान्येषां न राघव

॥१३॥

ये वै तरलगम्भीरमहंतागर्तमाश्रिताः ।

पश्यन्ति ते तमालोकं न कदाचन केचन

॥१४॥

चतुर्दशविधानन्तभूतजातसुघुंघुमा ।

जगद्दृष्टिरियं ज्ञस्य शरीरावयवोपमा

॥१५॥

कारणाभावतः सृष्टिर्नोदिता न च शाम्यति ।

यादृशं कारणं वा स्यात्तादृग्भवति कार्यकम्

॥१६॥

यदि स्यात्कारणे कार्यं स्थितं कारणतास्य का ।

कार्यमेवोपलम्भात्तदसद्द्वयमवेदनात्

॥१७॥

सौम्यस्यान्तर्यथाम्भोधेरूर्म्यावर्तादयः स्थिताः ।

ब्रह्मण्यसंभवक्षोभे जगच्चित्तादयस्तथा

॥१८॥

सर्वात्मैवामलं ब्रह्म पिण्ड एक इव स्थितम् ।

नानाभाण्डात्म हेमैव यथान्तःस्थितरूपकम्

॥१९॥

स्वप्नकाले स्वप्न एव जाग्रद्व्यग्रापरिग्रहात् ।

जाग्रत्काले जाग्रदेव स्वप्नः सत्यावबोधतः

॥२०॥

चित्तमात्रतया बुद्धं मृगतृष्णाम्बुवत्स्थितम् ।

जाग्रत्स्वप्नत्वमायाति विचारविकलीकृतम्

॥२१॥

सम्यग्ज्ञानेन भूतानि ज्ञस्य देहतया सह ।

पीठबन्धं विमुञ्चन्ति गतकाल इवाम्बुदाः

॥२२॥

यथा गलितुमारब्धो घनो गगनतामियात् ।

तथा सत्यावबोधेन शाम्येत्सात्मग्रहं जगत्

॥२३॥

शरदभ्रवदालूना मृगतृष्णाम्बुव्रत्तथा ।

पुनः संस्पृश्यमानैव बोधाद्गलति दृश्यता

॥२४॥

यथा दीप्तानले लीनं सुवर्णं घृतमिन्धनम् ।

एकतां याति विज्ञाने तथा भुवनचित्तदृक्

॥२५॥

बोधेन तनुतामेति पिण्डबन्धो जगत्त्रये ।

पिशाचबुद्धिः सदने बोधितस्य यथा शिशोः

॥२६॥

बोधस्यानन्तरूपस्य स्वयमेवात्मनात्मनि ।

जगच्चित्तादिता भाता पिण्डबन्धः किलात्र कः

॥२७॥

बोधाबोधनमेवेदं जगच्चित्तमिवोदितम् ।

तदेवास्तं गतं बोधात्पिण्डबन्धस्य कास्तिता

॥२८॥

जहाति पिण्डकाठिन्यं जाग्रत्स्वप्नावबोधतः ।

परां पेलवतामेति हेम द्रुतमिवाग्निना

॥२९॥

यथास्थितं बोध एव घनतामिव गच्छति ।

विनैव देशकालाभ्यां तौ विनिर्माय हेमवत्

॥३०॥

जाग्रत्येवं विचारेण स्वप्नाभे पेलवे स्थिते ।

क्षीयमाणे शरत्काल इवैति तनुतां रसः

॥३१॥

परां पेलवतां याता दृश्यलक्ष्म्यः स्थिता अपि ।

स्वप्ना इव परिज्ञाता न स्वदन्ते विवेकिनः

॥३२॥

क्व किल स्वात्मविश्रान्तिः क्वैतद्विषयवेदनम् ।

सुषुप्तजाग्रतोरैक्यं भ्रान्ताभ्रान्तात्मनोर्भवेत्

॥३३॥

चित्तमात्रे भ्रान्तिमात्रे स्वप्नमात्रात्मनि स्थिते ।

जगतीह पदार्थेभ्यः सत्यबुद्धिर्निवर्तते

॥३४॥

कस्य स्वदन्तेऽसत्यानि कथमेव महामते ।

मृगतृष्णाजलानीव दृश्यान्यपि पुरःस्थितैः

॥३५॥

सत्यबुद्धौ विलीनायां जगत्पश्यति शान्तधीः ।

जालद्वीपांशुजालाभमपिण्डात्माम्बरात्मकम्

॥३६॥

जाग्रतो वस्तुतः शून्यात्परिज्ञातान्निवर्तते ।

चित्तभ्रमात्मनो भ्रान्तिरूपास्वादनभावना

॥३७॥

यदवस्त्विति विज्ञातं तत्रोपादेयता कुतः ।

केन स्वप्नं परिज्ञाय स्वप्नहेमाभिगम्यते

॥३८॥

स्वप्नादिव परिज्ञाताद्रसो दृश्यान्निवर्तते ।

द्रष्ट्रदृश्यदशादोषग्रन्थिच्छेदः प्रवर्तते

॥३९॥

नीरसः शान्तमननो निर्वाणाहंकृतिः कृती ।

वीतरागो निरायासः शान्तस्तिष्ठति बुद्धधीः

॥४०॥

रसे नीरसतां याते वासना प्रविलीयते ।

शिखायां प्रविलीनायां प्रदीपस्यांशवो यथा

॥४१॥

बोधाद्दीपांशुजालाभमघनं व्योम दृश्यते ।

भ्रान्तिरूपं जगत्कृत्स्नं गन्धर्वनगरं यथा

॥४२॥

नैवात्मानं न चाकाशं न शून्यं न च वेदनम् ।

अत्यन्तपरिणामेन पश्यन्पश्यति तत्पदम्

॥४३॥

यत्र नात्मा न शून्यं च न जगत्कलना न च ।

न चित्तदृश्योदयधीः सर्वं चास्ति यथास्थितम्

॥४४॥

भूम्यादिताऽज्ञसंबुद्धा ज्ञानादस्तमुपागता ।

ज्ञस्य शून्यैव संपन्ना संस्थितापि न विद्यते

॥४५॥

भवत्येकसमाधानसौम्यात्मा व्योमनिर्मलः ।

तिष्ठत्यपगतासङ्गः स्थित एवाप्यसत्समः

॥४६॥

अस्तंगतमना मौनी निरोधपदवीं गतः ।

तीर्णः संसारजलधेः कर्मणामन्तमागतः

॥४७॥

तनुभुवनगगनगिरिगण-

करणपरं परममज्ञानम् ।

विगलति गलिते तस्मिन्

सकलमिदं विद्यमानमपि

॥४८॥

संशान्तान्तःकरणो

गलितविकल्पः स्वरूपसारमयः ।

परमशमामृततृप्त-

स्तिष्ठति विद्वान्निरावरणः

॥४९॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे०मोक्षोपायेषु निर्वाणप्रकरणे उ० विश्रान्तियोगोपदेशो नामैकपञ्चाशः सर्गः ।। ५१ ।।