मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — उत्तरार्धम् — सर्गः ८६

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — उत्तरार्धम् · 86

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

श्रृणु राम कथं तत्र महाकाशे तथा स्थितः ।

देहे भ्रान्तिं तु तां त्यक्त्वा स रुद्रोऽप्युपशाम्यति

॥१॥

स रुद्रस्तौ जगत्खण्डौ तदा चित्र इवार्पिताः ।

निस्पन्दा एव तत्रासन्प्रेक्षमाणे स्थिते मयि

॥२॥

ततो मुहूर्तमात्रेण स रुद्रस्तौ नभोन्तरे ।

खण्डौ विलोकयामास दृशार्केणेव रोदसी

॥३॥

ततो निमेषमात्रेण घोणाश्वासेन खण्डकौ ।

तौ समानीय चिक्षेप पातालान्तरिवानने

॥४॥

अतिष्ठदेक एवासावेकं खे खमिवाखिले ।

भुक्तब्रह्माण्डखण्डोग्रमण्डमण्डकमण्डलः

॥५॥

ततो मुहूर्तमात्रेण लघुः सोऽभ्रमिवाभवत् ।

ततोऽभवद्यष्टिसमस्ततः प्रादेशमात्रकः

॥६॥

ततः काचकणाकारो मया दृष्टः स तादृशः ।

ततः सोऽणूभवन्दृष्टो मया स्वाद्दिव्यदृष्टिना

॥७॥

परमाणुरथो भूत्वा ततस्त्वन्तर्द्धिमाययौ ।

इत्यसौ शममायातः शरदम्बुदखण्डवत्

॥८॥

तादृशोऽपि महारम्भः पुरः पश्यत एव मे ।

इति सावरणे तेन ते ब्रह्माण्डकवाटके

॥९॥

विनिगीर्णे क्षुधार्तेन हरिणेनेव पर्णके ।

अथाभून्निर्मलं व्योम शान्तं ब्रह्मैव केवलम्

॥१०॥

अनादिमध्यपर्यन्तं संविदाकाशमात्रकम् ।

इत्यहं दृष्टवांस्तत्र कल्पान्तमुरुविभ्रमम्

॥११॥

दर्पणप्रतिबिम्बाभं शिलाशकलकोटरे ।

अथ तामङ्गनां स्मृत्वा तां शिलां तच्च विभ्रमम्

॥१२॥

राजद्वारगतो ग्राम्य इवाहं विस्मयं गतः ।

तामालोकितवान्भूयः कलूधौतशिलामहम्

॥१३॥

यावत्सर्वत्र सन्त्यत्र सर्गाः काल्या इवाङ्गके ।

बुद्धिनेत्रेण दृश्यन्ते दिव्याक्ष्णा वा न ते यथा

॥१४॥

सर्वत्र सर्वदा सर्वं यदस्त्येव तदा तथा ।

दूरवत्प्रेक्ष्यते मांसदृशा यद्येव सा शिला

॥१५॥

दृश्यते तच्छिलैवैका न तु सर्गादि किंचन ।

सावस्थिता शिलैवैकरूपा निविडमण्डला

॥१६॥

कलधौतमयी स्फारा संध्याजलदसुन्दरी ।

ततोऽहं विस्मयाविष्टः प्रविचारितवान्पुनः

॥१७॥

शिलायामपरं भागं तथैव परया दृशा ।

यावत्तमपि पश्यामि जगदारम्भमन्थरम्

॥१८॥

तथैव सुषिराकार इव नानार्थसुन्दरम् ।

पुनरन्यं तथैवाहं प्रदेशं परिदृष्टवान्

॥१९॥

सर्गसंरम्भवलितं यावत्तमपि तादृशम् ।

यं यं प्रदेशं पश्यामि शिलायास्तत्र तत्र वै

॥२०॥

जगत्पश्यामि विमलमादर्श इव बिम्बितम् ।

मयातिकौतुकेनाथ सर्वास्तस्य गिरेः शिलाः

॥२१॥

अन्विष्टा भूतिभागाश्च तृणगुल्मादयस्तथा ।

यावत्सर्वत्र तत्तादृग्जगदस्ति यथास्थितम्

॥२२॥

बुद्ध्यैव दृश्यते नाक्ष्णा परया विविधाकृति ।

क्वचित्प्रथमसर्गात्म जायमानप्रजापति

॥२३॥

कल्प्यमानर्क्षचन्द्रार्कदिनरात्र्यृतुवत्सरम् ।

क्वचित्क्वचिन्महीपीठसंपन्नजनमण्डलम्

॥२४॥

क्वचित्किंचिदखातोग्रचतुःसागरखातकम् ।

कचित्किंचिदसंजातसुरसंजातदानवम्

॥२५॥

क्वचित्किंचित्कृतयुगाचारसज्जनभूतकम् ।

क्वचित्किंचित्कलियुगाचारदुर्जनभूतकम्

॥२६॥

क्वचित्किंचित्पुरव्यूहदैत्यसंगरदुस्तरम्

॥२७॥

क्वचित्किंचिन्महाशैलजालनिर्विवरावनि ।

क्वचित्किंचिदसंपन्नसर्गमेकाम्बुजोद्भवम्

॥२८॥

क्वचित्किंचिज्जरामृत्यून्मुक्तभूतलमानवम् ।

क्वचित्किंचिदसंजातचन्द्रशून्यशिरःशिवम्

॥२९॥

अनिर्मथितदुग्धाब्धिमृत्युमत्सुरपूरितम् ।

असंजातामृताश्वेभवैद्यगोकमलाविषम्

॥३०॥

शुक्रामरमहाविद्यानाशनोत्कसुरव्रजम् ।

क्वचित्किंचिच्च गर्भाङ्गकर्तनोत्कसुरेश्वरम्

॥३१॥

अपरिम्लानधर्मत्वात्स्वप्रकाशाखिलव्रजम् ।

क्वचित्किंचिच्च पूर्वान्यसंनिवेशक्रमस्थिति

॥३२॥

अपूर्ववेदशास्त्रार्थसमाचारविचारणम् ।

क्वचित्किंचिन्न कल्पान्तसंक्षोभमिव संस्थितम्

॥३३॥

क्वचित्किंचिच्च दैत्यौघविलुण्ठितसुरालयम् ।

क्वचित्किंचित्सुरोद्यानगायद्गन्धर्वकिन्नरम्

॥३४॥

,

क्वचित्किंचित्समारब्धगीर्वाणासुरसौहृदम् ।

भूतभव्यभविष्यत्स्थजगदाडम्बरं मया

॥३५॥

तदानुभूतं वपुषि महाविश्वगणात्मनि ।

एकत्र कल्पविक्षुब्धपुष्करावर्तमन्थरम्

॥३६॥

एकत्र सौम्यसकलभूतसंततिसंस्थितम् ।

एकत्र समनुक्षुब्धसुरासुरनरेश्वरम्

॥३७॥

एकत्रासंभवद्भानुनित्याभिन्नतमोघनम् ।

एकत्रासंभवद्ध्वान्त कान्तं ज्वालोदरोपमम्

॥३८॥

एकत्र नलिनीनालनिलीनमधुकैटभम् ।

एकत्र पद्ममञ्जूषासुप्तबालनवाब्जजम्

॥३९॥

एकत्रैकार्णवोदग्रवृक्षविश्रान्तमाधवम् ।

एकत्र कल्परजनीनिःशून्यतिमिराकुलम्

॥४०॥

शिलाजठरनिस्पन्दं व्योमैव वितताकृति ।

सुषुप्तजठराकारमप्रज्ञातमलक्षणम्

॥४१॥

अप्रतर्क्यमविज्ञेयं सुषुप्तमिव सर्वतः ।

एकत्र पक्षविक्षुब्धशैलकाकाकुलाम्बरम्

॥४२॥

एकत्र वज्रनिष्पेषद्रवद्भूधरभासुरम् ।

एकत्रोद्वृत्तमत्ताब्धिह्रियमाणधराचलम्

॥४३॥

एकत्र पुरवृत्रान्धवलिसंगरसंकुलम् ।

एकत्र मत्तपातालगजकम्पिवसुन्धरम्

॥४४॥

एकत्र शेषशिरसः कल्पान्तलुठितावनि ।

क्वचिदल्पेन रामेण हतरावणराक्षसम्

॥४५॥

रक्षसा रावणेनैव क्वचिद्विहतराघवम् ।

भूस्थपादेन देवाद्रिशिरस्थशिरसा परम्

॥४६॥

पश्याम्यम्बरमाक्रान्तं क्वचिद्वै कालनेमिना ।

क्वचिच्चापसुरैर्नित्यं दानवैरेव पालितम्

॥४७॥

क्वचिच्च भ्रष्टदनुजैरमरैरेव पालितम् ।

जिष्णुयुक्तेन गुप्तेन विष्णुपाण्डवकौरवैः

॥४८॥

क्वचिद्भारतयुद्धेन निहताक्षौहिणीगणम् ।

श्रीराम उवाच ।

किमहं भगवन्पूर्वमभवं कथयेति मे

॥४९॥

अभवं चेदनेनैव संनिवेशेन तत्कथम् ।

श्रीवसिष्ठ उवाच ।

सर्व एव विवर्तन्ते राम भावाः पुनःपुनः

॥५०॥

पूर्यमाणा यथा माषाः क्रमेणान्येन तेन वा ।

सर्वक्रमसमाः केचित्तयैवान्येन वा मिथः

॥५१॥

स्फुरन्त्यर्थसमा भावाः केचिदब्धितरङ्गवत् ।

पुनस्त्वं पुनरेवाहं पुनः पुनरिमे जनाः

॥५२॥

न कदाचन नैवान्ये संभवन्त्यखिलं परे ।

त एवान्येऽथवाम्भोधौ तरङ्गा इव निर्णयः

॥५३॥

यद्वन्न जायते तद्वद्भूतानां भ्रमतां भवेत् ।

आयान्ति यान्त्यनन्तानि भूतानीह भवद्भ्रमैः

॥५४॥

तान्येवान्यानि चान्यानि समानि विषमाणि च ।

आवृत्तिमन्ति तान्येव तथैवान्यानि चाभितः

॥५५॥

विद्धि सीकरजालानि भूतानि जगदम्बुधेः ।

वित्तबन्धुवयःकर्मविद्याविज्ञानचेष्टितैः

॥५६॥

तैरेव केचिज्जायन्ते भूयोभूयः शरीरिणः ।

अर्धैस्तैः सदृशाः केचित्केचित्पादेन तैः समाः

॥५७॥

तज्जीवास्तैर्विसदृशा भवन्त्यन्यशरीरिणः ।

सर्वैरेभिः समाः केचित्कालेनैव विलक्षणाः ।

कालेन सदृशाः केचिदनेन च विलक्षणाः

॥५८॥

कालेनाकुलचेष्टयान्य इव ते गच्छन्त्यधोर्ध्वं पुन- देहालेखनखेदितान्यगणितान्यन्यानि चान्यान्यलम् भूताम्बूनि वहन्ति संसृतिमये तान्यम्बुधौ चञ्चले चक्रावृत्तिमयानि संकलयितुं शक्नोति कस्तान्यलम्

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाण० उ० पाषा० जगदन्यायत्ववर्णनं नाम षडशीतितमः सर्गः ।। ८६ ।।