मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — स्थितिप्रकरणम् — सर्गः ३७

3
योगवासिष्ठम् · स्थितिप्रकरणम् · 37

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

इत्थं स्थिरतराकाराः संसारावलयोऽभितः ।

स्वभावाद्ब्रह्मणः सर्वाः पुनरायान्ति यान्ति च

॥१॥

स्वतः सर्वमिदं जातमन्योन्यं हेतुतां गतम् ।

अन्योन्यमभिनश्यत्तत्स्वत एव विलीयते

॥२॥

स्वतोऽस्पन्दोऽपि तु स्पन्दो यथाऽगाधजलोदरे ।

तथैवेयमसत्सच्च चिदेव परिदृश्यते

॥३॥

व्योमन्येव निराकारे निदाघात्सरितो यथा ।

लक्ष्यन्ते तद्वदेवेमाश्चित्तत्त्वे सृष्टिदृष्टयः

॥४॥

यथा मदवशादात्मा सोऽन्यवत्प्रतिभासते ।

तथैव चित्त्वाच्चिद्धातुः स एवाऽस इव स्थितः

॥५॥

न चेदं सदसन्नेदं तत्स्थातत्स्थतया चितः ।

नातिरिक्तातिरिक्ता च कटकादिषु हेमता

॥६॥

येन शब्दं रसं रूपं गन्धं जानासि राघव ।

सोऽयमात्मा परं ब्रह्म सर्वमापूर्य संस्थितः

॥७॥

नानैकत्वादतीतात्तु सर्वंगादमलात्मनः ।

द्वितीया कलना नास्ति काचिन्नेतरथा क्वचित्

॥८॥

राम भावनादन्यस्य भावाभावाः शुभाशुभाः ।

सृष्टयः परिकल्प्यन्तेऽनात्मन्येवाथवात्मनि

॥९॥

यस्मादात्मनो व्यतिरिक्ते वस्तुनि सिद्धे सति

तत्रेच्छा प्रवर्तते । यत्र स्वात्मनो व्यतिरिक्तं न किं-

चिदपि संभवति तत्रात्मा किमिव वाञ्छन्किमनु-

स्मरन्धावतु किमुपैतु

॥१०॥

अत इदमीहितमिदमनीहितमित्यात्मानं न स्पृ-

शन्ति विकल्पाः । अतो निरिच्छतायामात्मा न

किंचिदपि करोति कर्तृकरणकर्मणामेकत्वात्, न

क्वचित्तिष्ठत्याधाराधेययोरेकत्वात्, नच निरिच्छ-

स्यात्मनो नैष्कर्म्यमभिमतम्, द्वितीयायाः कल्प-

नाया अभावात्

॥११॥

नेतरा जानासि राम त्वमियं ब्रह्मसंस्थितिः ।

सर्वद्वन्द्वविनिर्मुक्तः कर्ता भव गतज्वरः

॥१२॥

अन्यच्च राघव पुनः

पुनः कृत्वा कृत्वा बहुविधमिदं कर्म तरसा

त्वया प्राप्यं किं तद्वद यदुचितं भूतकरणात् ।

अकर्तृत्वे वास्था भवतु तव चाप्यागमवतो

भव स्वस्थः स्वच्छः स्तिमित इव निर्वातजलधिः

॥१३॥

गत्वा सुदूरमपि यत्नवता जवेन

नासाद्यते तदिह येन सुपूर्णतैति ।

मत्वेति मा व्रज पदार्थगणान्धिया त्वं

न त्वं त्वमेव परमार्थतया चिदात्मा

॥१४॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० स्थितिप्रकरणे उपशमवर्णनं नाम सप्तत्रिंशः सर्गः ।। ३७ ।।