मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — स्थितिप्रकरणम् — सर्गः ४९

3
योगवासिष्ठम् · स्थितिप्रकरणम् · 49

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

अथ काननमध्यस्थं चुम्बिताम्बुदमण्डलम् ।

मध्याह्नखिन्नसूर्याश्वसेवितस्कन्धमण्डलम्

॥१॥

वितानमिव दिक्कुक्षिदीर्घं विटपबाहुभिः ।

आलोकयन्तं ककुभो विकासिकुसुमेक्षणैः

॥२॥

वातावधूलितानल्पभ्रमद्भ्रमरकुन्तलम् ।

प्रमार्जयन्तमाशानां मुखं पल्लवपाणिभिः

॥३॥

कच्छैरुरुगुड्डच्छाच्छमञ्जरीपुञ्जकञ्जरैः ।

आस्यैरिव सताम्बूलैर्हसन्तं वनमालिकाः

॥४॥

लताविलसितोल्लासैः पुष्पकेसरधूलिभिः।

आबद्धमण्डलाभोगं पूर्णेन्दुमिव दीप्तिभिः

॥५॥

संकटं विटपावल्या कुञ्जकूजच्चकोरया ।

छन्नया सिद्धवीथ्येव जगदुच्चतया श्रितम्

॥६॥

स्कन्धपीठोपविष्टानां लम्बमानैः कलापिनाम् ।

कलापैः शोभितं व्योम सेन्द्रचापैरिवाम्बुदैः

॥७॥

मग्नोन्मग्नैः प्रतिस्कन्धमाश्रितैश्चमरैः सितैः ।

पूर्णं मुहुर्दृष्टनष्टैः संवत्सरमिवेन्दुभिः

॥८॥

कपिञ्जलकुलालापैः कलकोकिलकूजितैः ।

जीवंजीवविरावैश्च प्रगायन्तमिवोच्छ्रितैः

॥९॥

कादम्बककदम्बैश्च कुलायकृतकेलिभिः ।

स्वर्गकोटरविश्रान्तैः सिद्धैर्जगदिवावृतम्

॥१०॥

प्रवालचलहस्ताभिरलिनेत्राभिराश्रितम् ।

अप्सरोभिरिव स्वर्गं मञ्जरीभिरितस्ततः

॥११॥

सेन्द्रचापविलासेन कुमुदोत्कररेणुना ।

मञ्जरीपिञ्जराश्यामं विद्युत्वन्तमिवाम्बुदम्

॥१२॥

सहस्रभुजशाखाख्यं पूरिताकाशकोटरम् ।

विश्वरूपमिवोन्नृत्तं चन्द्रार्ककृतकुण्डलम्

॥१३॥

तले निषण्णनागेन्द्रं व्योम्नि तारागणाकुलम् ।

लतापुष्पमयं मध्ये खमण्डलमिवापरम्

॥१४॥

पितामहमिवाशेषशैलकाननशालिनम् ।

फलपल्लवपुष्पाणां कोशमेकमिवावनौ

॥१५॥

दधानं कलिकाजालं स्थगितं पुष्पधूलिभिः ।

कच्छेष्वर्ककरच्छन्नताराजालमिवाम्बरम्

॥१६॥

विलोलविहगैः स्कन्धैः कुलायकुलसंकुलैः ।

वलितं भूतलं लोके पूर्णैर्जनपदैरिव

॥१७॥

मञ्जरीसुपताकाढ्यं लतामण्डलमण्डितम् ।

पुष्पमङ्कोलधवलं पुष्पप्रकरपूरितम्

॥१८॥

कूजच्चकोरभ्रमरशुककोकिलसारिकम् ।

घनस्तबकसंछन्नकुहरोग्रगवाक्षकम्

॥१९॥

संचरत्पक्षिबहुलं जनमन्थरकोटरम् ।

सर्वासां वनदेवीनामन्तःपुरमिवोत्तमम्

॥२०॥

कूजद्भृङ्गतरङ्गौघैः पुष्पकेसरराजिभिः ।

राजमानं पतन्तीभिः सरिद्भिरिव पर्वतम्

॥२१॥

भ्रमद्भिः पुष्पपत्रौघैर्मन्दवातविलासिभिः ।

वर्धमानैर्वृतस्कन्धं शुभ्राभ्रैरिव भूधरम्

॥२२॥

मातङ्गकटघृष्टेन जानुस्तब्धेन पीठिना ।

आभोगिना बद्धपदं तरुणेव महाचलम्

॥२३॥

विचित्रवर्णपक्षाणां स्कन्धकोटरचारिणाम् ।

वृतं खगानां वृन्देन भूतानामिव शार्ङ्गिणम्

॥२४॥

स्तबकाङ्गुलिजालेन लोलेनाभिनयक्रियाम् ।

दिशन्तमिव वल्लीनां प्रवृत्तानां वनानिलैः

॥२५॥

कश्चिदेव निवासो मे नार्थिनामिति तुष्टितः ।

नृत्यन्तमिव बह्वाढ्यलतावलयवल्गनैः

॥२६॥

लताकान्तैककान्तत्वाच्छृङ्गाररसनिर्भरम्।

काकल्येव प्रगायन्तं मत्तालिनिजनिःस्वनैः

॥२७॥

आदरोन्मुक्तकुसुमं सिद्धानां व्योमचारिणाम् ।

स्वागतानीव कुर्वाणं कोकिलालिकुलारवैः

॥२८॥

लतापुष्पफलोल्लासं प्रान्तपञ्चमहीरुहाम् ।

विहसन्तमिवाच्छाभिः पुष्पकुड्मलदीप्तिभिः

॥२९॥

पारिजातमिवाजेतुमूर्ध्वगैः खगमण्डलैः ।

व्योमान्तराभिधावन्तमलमुद्धतकन्धरम्

॥३०॥

मध्यभागस्फुरत्तुङ्गैः स्तबकैर्घनपङ्क्तिभिः ।

सहस्राक्षत्वमतुलैर्जेतुमिन्द्रमिवोद्यतम्

॥३१॥

क्वचित्कुसुमगुच्छाच्छफणामणिगणावृतम्।

पातालादुत्थितं शेषमिव व्योमदिदृक्षया

॥३२॥

रजसोद्भूलिताकारं द्वितीयमिव शंकरम् ।

छायया फलशालिन्या समस्तजनशंकरम्

॥३३॥

निबिडदलनिवाहभिन्नकोशैः कुसुमलतानवमण्डपैरुपेतम् ।

पुरमिव गगने कदम्बवृक्षं खगकुलनागरसंकुलं ददर्श

॥३४॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० स्थितिप्रकरणे दाशूरो० दाशुरकदम्बवर्णनं नामैकोनपञ्चाशः सर्गः ।। ४९ ।।