मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — स्थितिप्रकरणम् — सर्गः ५३

3
योगवासिष्ठम् · स्थितिप्रकरणम् · 53

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

अथापृच्छत्सुतस्तत्र जम्बूद्वीपे महानिशि ।

कदम्बाग्रावचूडस्थं पितरं पावनाशयम्

॥१॥

पुत्र उवाच ।

कोऽसौ खोत्थ इति ख्यातो भूपस्तातोत्तमाकृतिः ।

कथितं च किमेतन्मे त्वयेति ब्रूहि तत्त्वतः

॥२॥

क्व भविष्यति निर्माणं वर्तमाने क्व गम्यता ।

उभयार्थविरुद्धत्वान्मन्मोहाय वचस्तव

॥३॥

दाशूर उवाच ।

शृणु पुत्र यथाभूतमेतत्ते कथयाम्यहम् ।

येन संसारचक्रस्य तत्त्वमस्यावबुध्यसे

॥४॥

असदप्युत्थितारम्भमवस्तुमयमाततम् ।

संसारसंस्थानमिदमेवमाकथितं मया

॥५॥

परमान्नभसो जातः संकल्पः खोत्थ उच्यते ।

जायते स्वयमेवासौ स्वयमेव विलीयते

॥६॥

तत्स्वरूपमिदं सर्वं जगदाभोगि विद्यते ।

जायते तत्र जाते तु तस्मिन्नष्टे विनश्यति

॥७॥

ब्रह्मविष्ण्विन्द्ररुद्राद्यास्तस्यैवावयवान्विदुः ।

विटपानिव वृक्षस्य शृङ्गाणीव महीभृतः

॥८॥

शून्ये व्योमनि तेनेदं निर्मितं त्रिजगत्पुरम् ।

प्रतिभासानुसंधानमात्रेणैत्य विरिञ्चिताम्

॥९॥

यत्रेमे विततालोका लोककोशाश्चतुर्दश ।

वनोपवनमालाश्च यत्रोद्यानपरम्पराः

॥१०॥

क्रीडाशिखरिणो यत्र सह्यमन्दरमेरवः ।

शीतोष्णदीप्ती चन्द्रार्कौ दीपौ यत्रानलाकृती

॥११॥

सूर्यांशुकचदालोलतरङ्गोत्तुङ्गमौक्तिकाः ।

वहन्ति सरितो यत्र सन्मुक्तावलयश्चलाः

॥१२॥

इक्षुक्षीरादिसलिला मणिरत्नबिसाङ्कुराः ।

और्वानलाम्बुजा यत्र वाप्यः सप्त महार्णवाः

॥१३॥

अध उर्व्यां तथोर्ध्वं खे पुण्यापुण्यधनश्रियः ।

नरामरकिराटानां यत्रान्तः क्रयविक्रयौ

॥१४॥

तस्मिन्नेव जगत्यस्मिन्पुरे संकल्पभूभृता ।

क्रीडार्थमात्मनश्चित्रा देहापवरकाः कृताः

॥१३॥

केचिद्गीर्वाणनामान ऊर्ध्व एव नियोजिताः ।

नरनागादयः केचिदध एव नियोजिताः

॥१६॥

वातयन्त्रप्रवाहेण चलन्तो मांसमृन्मयाः ।

सितास्थिदारवश्चित्रास्त्वग्लेपमसृणामलाः

॥१७॥

केचिच्चिरेण नश्यन्ति केचिच्छीघ्रविनाशिनः ।

केचित्केशोलपोल्लासरचिताच्छादनश्रियः

॥१८॥

कर्णाक्षिनासाप्रमुखैर्द्वारैर्नवभिरन्विताः ।

अनारतवहत्प्राणपवनेनोष्णशीतलाः

॥१९॥

कर्णनासास्यताल्वादिवातायनगणान्विताः ।

भुजाद्यङ्गप्रतोलीकाः पञ्चेन्द्रियकुदीपकाः

॥२०॥

मायया रचितास्तेषु संकल्पेन महामते ।

अहङ्कारमहायक्षाः परमालोकभीरवः

॥२१॥

देहापवरकेष्वन्तर्महाहङ्कारयक्षकैः ।

सह संक्रीडतेऽत्यर्थं स सदैवासदुत्थितैः

॥२२॥

यथा कुसूले मार्जारो भस्त्रायां भुजगो यथा ।

मुक्ताफलं यथा वेणावहङ्कारस्तथा तनौ

॥२३॥

क्षणमभ्युदयं यान्ति क्षणं शाम्यन्ति दीपवत् ।

देहगेहेषु संकल्पतरङ्गाः सागरेष्विव

॥२४॥

भविष्यन्नवनिर्माणं स व्याप्नोति तदा पुरम् ।

यदा संकल्पितं वस्तु क्षणादेव प्रपश्यति

॥२५॥

असंकल्पनमात्रेण स्वेनेवाशु विनश्यति ।

श्रेयसे परमायस्य नाशत्वेन तु संभवः

॥२६॥

स्वयं संकल्पनामात्रं जायते बालयक्षवत् ।

अनन्तायात्मदुःखाय नानन्दाय कदाचन

॥२७॥

इदं स्फारं जगद्दुःखं प्रतनोत्यात्मसत्तया ।

असत्तया नाशयति घनमान्ध्यं यथा तमः

॥२८॥

स्वयैव दुःखदायिन्या चेष्टया परिरोदिति ।

काष्ठावष्टब्धवृषणः कीलोत्पाटी कपिर्यथा

॥२९॥

संकल्पितानन्दलवस्तिष्ठत्युद्धरकन्धरम् ।

अकस्मात्प्रच्युतमधुबिन्दुभुक्करभो यथा

॥३०॥

क्षणं विरतिमायाति रतिमेति क्षणं स्वयम् ।

क्षणं विकारमायाति संकल्पेनैव बालवत्

॥३१॥

एनं सकलभावेभ्यः कृत्वा निर्मूलमादरात् ।

मतिरन्तःपदं याति यथा पुत्र तथा कुरु

॥३२॥

त्रयस्तस्या मतेर्देहा अधमोत्तममध्यमाः ।

तमःसत्त्वरजःसंज्ञाः कारणं जगतः स्थितेः

॥३३॥

तमोरूपो हि संकल्पो नित्यं प्राकृतचेष्टया ।

परां कृपणतामेत्य प्रयाति कृमिकीटताम्

॥३४॥

सत्त्वरूपो हि संकल्पो धर्मज्ञानपरायणः ।

अदूरकेवलीभावं स्वाराज्यमधितिष्ठति

॥३५॥

रजोरूपो हि संकल्पो लोकसंव्यवहारवान् ।

परितिष्ठति संसारे पुत्रदारानुरञ्जितः

॥३६॥

त्रिविधं तु परित्यज्य रूपमेतन्महामते ।

संकल्पः परमायाति पदमात्मपरिक्षये

॥३७॥

सर्वा दृष्टीः परित्यज्य नियम्य मनसा मनः ।

सबाह्याभ्यन्तरार्थस्य संकल्पस्य क्षयं कुरु

॥३८॥

यदि वर्षसहस्राणि तपश्चरसि दारुणम् ।

यदि वा विलयात्मानं शिलायां चूर्णयस्यलम्

॥३९॥

यदि वाग्निं प्रविशसि वडवाग्निमथापि वा ।

यदि वा पतसि श्वभ्रे खड्गधाराजवेतथा

॥४०॥

हरो यद्युपदेष्टा ते हरिः कमलजोऽपि वा ।

अत्यन्तकरुणाक्रान्तो लोकनाथोऽथवा यतिः

॥४१॥

पातालस्थस्य भूस्थस्य स्वर्गस्थस्यापि तत्तव ।

नान्यः कश्चिदुपायोऽस्ति संकल्पोपशमादृते

॥४२॥

अनाबाधेऽविकारे च सुखे परमपावने ।

संकल्पोपशमे यत्नं पौरुषेण परं कुरु

॥४३॥

संकल्पतन्तावखिला भावाः प्रोताः किलानघ ।

छिन्ने तन्तौ न जाने ते क्व यान्ति विशरारवः

॥४४॥

असत्सत्सदसत्सर्व संकल्पादेव नान्यतः ।

संकल्पं सदसच्चैवमिह सत्यं किमुच्यताम्

॥४५॥

संकल्प्यते यथा यद्यत्तत्तथा भवति क्षणात् ।

मा किंचिदपि तत्त्वज्ञ संकल्पय कदाचन

॥४६॥

निःसंकल्पो यथाप्राप्तव्यवहारपरो भव ।

चिदचेत्योन्मुखत्वं हि याति संकल्पसंक्षये

॥४७॥

उत्थाय सत्त्वरूपेण योन्या सत्यमयात्मकम् ।

न तज्जगदुःखमिदं व्यर्थं सदृशमात्मनः

॥४८॥

तेन दुःखाय महते किं मृतेन तवानघ ।

यददुःखाय तत्प्राज्ञाः संश्रयन्तीह नेतरत्

॥४९॥

अधिगतपरमार्थतामुपेत्य प्रसभमपास्य विकल्पजालमुच्चैः ।

अधिगमय पदं तदद्वितीयं विततसुखाय सुषुप्तचित्तवृत्तिः

॥५०॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० स्थिति० दाशूरो० संसारनगरविकल्पयोगविचारो नाम त्रिपञ्चाशः सर्गः५३