मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — स्थितिप्रकरणम् — सर्गः ७

3
योगवासिष्ठम् · स्थितिप्रकरणम् · 7

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

इति शुक्रः पुरं प्राप्य वैबुधं स्वेन तेजसा ।

विसस्मार निजं भावं प्राक्तनं व्यसनं विना

॥१॥

मुहूर्तमिव विश्रम्य तस्य पार्श्वे शचीपतेः ।

स्वर्गं विहर्तुमुत्तस्थौ स्वर्गाभिपरिमोदितः

॥२॥

स्वःश्रियं स समालोक्य लोललोचनवाञ्छिताम् ।

स्त्रैणं द्रष्टुं जगामासौ नलिनीमिव सारसः

॥३॥

तत्र तां मृगशावाक्षीं कान्तामध्यगतामसौ ।

ददर्श विपिनान्तस्थां भृगुश्चूतलतामिव

॥४॥

सापि तं भार्गवं राम दृष्ट्वा परवशाभवत् ।

तामालोक्य लसल्लोलविलासवलिताकृतिम्

॥५॥

आसीद्विलीयमानाङ्गो ज्योत्स्नामिन्दुमणिर्यथा ।

विलीयमानसर्वाङ्गस्तामवैक्षत कामिनीम्

॥६॥

चन्द्रकान्त इव ज्योत्स्नां शीतलां खे विलासिनीम् ।

तेनावलोकिता सापि तत्परायणतां गता

॥७॥

निशान्ते चक्रवाकेन कान्तेव परिकूजिता ।

रसाद्विकसिता नूनमन्योन्यमनुरक्तयोः

॥८॥

प्रातरर्कनलिन्योर्या शोभा सैव तयोरभूत् ।

संकल्पितार्थदायित्वाद्देशस्याभूच्च तेन सा

॥९॥

सर्वाङ्गं विवशीकृत्य कामायैव समर्पिता ।

पेतुः स्मरशरास्तस्या मृदुष्वङ्गेषु भूरिशः

॥१०॥

पलाशेष्विव पद्मिन्या धारा इव पयोमुचः ।

सा बभूवस्मरोद्भूता लोलालिवलयाकुला

॥११॥

मन्दवाताभिनुन्नाया मञ्जर्याः सहधर्मिणी ।

नीलनीरजनेत्रान्तां हंससारसगामिनीम्

॥१२॥

मदनः क्षोभयामास गजः कमलिनीमिव ।

अथ तां तादृशीं दृष्ट्वा शुक्रः संकल्पितार्थभाक्

॥१३॥

तमः संकल्पयामास संहार इव भूतभुक् ।

त्रिविष्टपस्य देशोऽसौ बभूव तिमिराकुलः

॥१४॥

भूलोकस्यान्धतमसा लोकालोकतटो यथा ।

लज्जान्धकारतीक्ष्णांशौ तस्मिंस्तिमिरमण्डले

॥१५॥

प्रतिष्ठामागते तस्य मिथुनस्येव मण्डले ।

तेषु सर्वेषु भूतेषु गतेष्वभिमतां दिशम्

॥१६॥

तस्मात्प्रदेशाद्भूलोके दिनान्ते विहगेष्विव ।

सा दीर्घचञ्चलापाङ्गी प्रवृद्धमदनव्यथा

॥१७॥

आजगाम भृगोः पुत्रं मयूरी वारिदं यथा ।

धवलागारमध्यस्थे पर्यङ्के परिकल्पिते

॥१८॥

विवेश भार्गवस्तत्र क्षीरोद इव माधवः ।

सा कराववलम्ब्यास्य विवेशावनतानना

॥१९॥

रराज च सुरेभस्य हृदि लग्नेव पद्मिनी ।

उवाच चेदं मधुरं रसस्नेहाक्तया गिरा

॥२०॥

वचो मधुरमानन्दविलासवलिताक्षरम् ।

पश्यामलेन्दुवदनमण्डलीकृतकार्मुकः

॥२१॥

अबलामनुबध्नाति मामेष किल नाङ्गकः ।

पाहि मामबलां नाथ दीनां त्वच्छरणामिह

॥२२॥

कृपणाश्वासनं साधो विद्धि सच्चरितव्रतम् ।

स्नेहदृष्टिमजानद्भिर्मूढैरेव महामते

॥२३॥

प्रणया अवगण्यन्ते न रसज्ञैः कदाचन ।

अशङ्कितोपसंपन्नः प्रणयोऽन्योन्यरक्तयोः

॥२४॥

अधःकरोति निष्यन्दं चन्द्रमाह्लादनं प्रिय ।

न तथा सुखयत्येषा चेतस्त्रिभुवनेशिता

॥२५॥

यथा परस्परानन्दः स्नेहः प्रथमरक्तयोः ।

त्वत्पादस्पर्शनेनेयं समाश्वस्तास्मि मानद

॥२६॥

चन्द्रपादपरामृष्टा यथा निशि कुमुद्वती ।

संस्पर्शामृतपानेन तव जीवामि सुन्दर

॥२७॥

चन्द्रांशुरसपानेन चकोरी चपला यथा ।

मामिमां चरणालीनां भ्रमरीं करपल्लवैः

॥२८॥

आलिङ्ग्यामृतसंपूर्णे स्वपद्महृदये कुरु ।

इत्युक्त्वा पुष्पमृद्वङ्गी सा तस्य पतितोरसि ।

व्याघूर्णितालिनयना सुतरोरिव मञ्जरी

॥२९॥

तौ दम्पती तत्र विलासकान्ती

विवेशतुस्तासु वनस्थलीषु ।

किञ्जल्कगौरानिलघूर्णितासु

रक्तौ द्विरेफाविव पद्मिनीषु

॥३०॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० मो० स्थितिप्रकरणे भार्गवोपाख्याने नवसंगमो नाम सप्तमः सर्गः ।। ७ ।।