मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — उपशमप्रकरणम् — सर्गः २२

3
योगवासिष्ठम् · उपशमप्रकरणम् · 22

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

अथवा रघुवंशाख्यनभःपूर्णनिशाकर ।

बलिवद्बुद्धिभेदेन ज्ञानमासादयामलम्

॥१॥

श्रीराम उवाच ।

भगवन्सर्वधर्मज्ञ त्वत्प्रसादान्मया हृदि ।

प्राप्तं प्राप्तव्यमखिलं विश्रान्तं चामले पदे

॥२॥

शरदीवाम्बरादभ्रमदभ्रं मम चेतसः ।

विभो व्यपगतं सर्वं तृष्णाख्यं तन्महातमः

॥३॥

अमृतापूरितः स्वस्थः शीतलात्मा महाद्युतिः ।

तिष्ठाम्यानन्दवानन्तः सायं पूर्णं इवोडुराट्

॥४॥

अशेषसंशयाम्भोदशरत्समय किंत्वहम् ।

तृप्तिमेषां न गच्छामि वचसां वदतस्तव

॥५॥

बलेर्विज्ञानसंप्राप्तिं पुनर्मद्बोधवृद्धये ।

विभो कथय खिद्यन्ते सन्तो नावनतं प्रति

॥६॥

श्रीवसिष्ठ उवाच ।

श्रृणु राघव ते वक्ष्ये बलेर्वृत्तान्तमुत्तमम् ।

श्रुतेन येन तं तत्त्वबोधं प्राप्स्यसि शाश्वतम्

॥७॥

अस्त्यस्मिञ्जगतः कोशे कस्मिंश्चिद्दिङ्निकुञ्जके ।

पातालमिति विख्यातो लोको भूमेरधः स्थितः

॥८॥

क्षीरोदार्णवजाताभिर्दिरधाभिरमृतांशुभिः ।

क्वचिद्दानवकन्याभिर्भाति निर्विवरान्तरः

॥९॥

जिह्वागणोद्दामरवैर्विलोलरसनायुगैः ।

क्वचिद्भोगिभिरापूर्णः सहस्रशतमस्तकैः

॥१०॥

देहाद्रिवलिताशेषविश्वोद्धरणघस्मरैः ।

क्वचिद्दनुसुतैर्व्याप्तश्चलद्भिरिव मेरुभिः

॥११॥

कुम्भकूटाग्रविश्रान्तवसुधामण्डलोदरैः ।

क्वचिद्दिग्दन्तिभिर्दन्तद्रुमाद्रिभिरुपाश्रितः

॥१२॥

महाकटकटाशब्दत्रस्तभूतपरम्परैः ।

क्वचिद्दुर्गन्धभूताभैरधोनारकमण्डलैः

॥१३॥

आभूतलमभिप्रोतसप्तपातालमण्डलैः ।

क्वचिद्रत्नाकरैर्व्याप्तः पातालैर्विवरैरिव

॥१४॥

सुरासुरशिरःसुप्तपादाम्भोरुहपांसुना ।

क्वचिद्भगवता तेन कपिलेन पवित्रितः

॥१५॥

आसुरीसंभृतानन्तपूजनक्रीडनैषिणा ।

क्वचिद्भगवता तेन हाटकेशेन पालितः

॥१६॥

तस्मिन्नसुरदोस्तम्भधार्यमाणमहाभरे ।

बभूव दानवो राजा विरोचनसुतो बलिः

॥१७॥

साक्रन्देन समं सर्वैः सुरविद्याधरोरगैः ।

पादसंवाहनं यस्य सुरराजेन वाञ्छितम्

॥१८॥

कोशस्त्रैलोक्यरत्नानां पाता सर्वशरीरिणाम् ।

धर्ता भुवनधर्तृणां यस्य पालयिता हरिः

॥१९॥

ऐरावणस्य संशोषं यन्नाम्ना कटभित्तयः ।

केकयेवाहिहृन्नाड्यो जग्मुराजग्मुरार्तताम्

॥२०॥

प्रतापोग्रोष्मभिर्यस्य कल्पकाल इवाब्धयः ।

ययुः शोषोन्मुखाः सप्त सप्ततां कुपिताकृतेः

॥२१॥

यदध्वराग्र्यधूमाभ्रराजयो वलिताब्धयः ।

ब्रह्माण्डकोटरस्यास्य सदा कवचतां ययुः

॥२२॥

यस्य दृष्टिदृढाघातनुन्नाधारकुलाचलाः ।

विनमन्ति दिशः सर्वा लताः फलनता इव

॥२३॥

लीलाविजितनिःशेषभुवनाभोगभूषणः ।

दशकोटीः स वर्षाणि दैत्यो राज्यं चकार ह

॥२४॥

अथ गच्छत्स्वनल्पेषु युगेष्वावर्तवृत्तिषु ।

सुरासुरमहौघेषु प्रोत्पतत्सु पतत्सु च

॥२५॥

अजस्रमतिभुक्तेषु त्रैलोक्योदारवृत्तिषु ।

भोगेष्वभजदुद्वेगं बलिर्दानवनायकः

॥२६॥

मेरुश्रृङ्गशिखारत्नकृतवातायनस्थितः ।

एकदा चिन्तयामास स्वयं संसारसंस्थितिम्

॥२७॥

कियन्तमिदमक्षुण्णशक्तिनैव मयाधुना ।

साम्राज्यमिह कर्तव्यं विहर्तव्यं जगत्त्रये

॥२८॥

महता मम राष्ट्रेण त्रैलोक्याद्भुतकारिणा ।

किं वा भवति भुक्तेन भूरिभोगातिहारिणा

॥२९॥

आपातमात्रमधुरमावश्यकपरिक्षयम् ।

भोगोपभोगमात्रं मे किं नामेदं सुखावहम्

॥३०॥

पुनर्दिनैककलनाशर्वरीसंस्थितिः पुनः ।

पुनस्तान्येव कर्माणि लज्जायै नच तुष्टये

॥३१॥

पुनरालिङ्ग्यते कान्ता पुनरेव च भुज्यते ।

सेयं शिशुजनक्रीडा लज्जायै महतामिह

॥३२॥

तमेव भुक्तविरसं व्यापारौघं पुनःपुनः ।

दिवसे दिवसे कुर्वन्प्राज्ञः कस्मान्न लज्जते

॥३३॥

पुनर्दिनं पुना रात्रिः पुनः कार्यपरम्पराः ।

पुनःपुनरहं मन्ये प्राज्ञस्येयं विडम्बना

॥३४॥

ऊर्मितां पुनरासाद्य पुनरेति निरूर्मिताम् ।

यथा जलं तथैवायं तां तामेति क्रियां जनः

॥३५॥

उन्मत्तचेष्टिताकारा पुनःपुनरियं क्रिया ।

जनं हासयते प्राज्ञं बाललीलोपमा मुहुः

॥३६॥

कृतयाप्यनया नित्यं क्रियया कृतकार्यया ।

कोऽर्थः स्यात्तादृशो येन पुनः कर्म न विद्यते

॥३७॥

कियन्तमथवा कालमिदमाडम्वरं महत् ।

इहास्माभिरनुष्ठेयं किं तावत्समवाप्यते

॥३८॥

अनन्तेयं शिशुक्रीडा वस्तुशून्यैव वस्तुतः ।

आवृत्त्या क्रियते व्यर्थमनर्थप्रसरार्थिभिः

॥३९॥

फलमेकं महोदारं नेह पश्यामि किंचन ।

कार्यमस्तीतरत्प्राप्ते यस्मिन्नाम न किंचन

॥४०॥

भोगादृते किमन्यत्स्यात्तद्भव्यमविनाशि यत् ।

एवं संचिन्तयाम्याशु दध्यौ मत्वेत्यसौ बलिः

॥४१॥

अथाभ्युवाचासुरराडाः संस्मृतमिति क्षणात् ।

स्वात्मन्येव मनस्यर्थं सभ्रूभङ्गं विमर्शयन्

॥४२॥

पुरा किलेह भगवान्पृष्टोऽभूत्स विरोचनः ।

पिता मयात्मतत्त्वज्ञो दृष्टलोकपरावरः

॥४३॥

यथा सकलदुःखानां सुखानां च महामते ।

यत्र सर्वे भ्रमाः शान्ताः कोऽसौ सीमान्त उच्यते

॥४४॥

कोपशान्तो मनोमोहः क्वातीताः सकलैषणाः ।

विरामरहितं कुत्र तात विश्रमणं चिरम्

॥४५॥

किं प्राप्तेह समस्तेभ्यः प्राप्येऽस्मिंस्तृप्तिमान्पुमान् ।

किं दृष्ट्वा दर्शनं भूयो न तातोपकरोत्यलम्

॥४६॥

अत्यन्तबहवोऽप्येते भोगा हि न सुखावहाः ।

क्षोभयन्ति मनो मोहे पातयन्ति सतामपि

॥४७॥

तत्ताताविहतानन्दसुन्दरं किंचिदेव मे ।

तादृक्कथय यत्रस्थश्चिरं विश्रान्तिमेम्यहम्

॥४८॥

इत्याकर्ण्य पुरा निशाकरकरस्पर्धालुगुच्छस्खल- त्पुष्पापूरकृतावगुण्ठनपदस्योक्तं तले तेन मे । पित्रा स्वर्गहृतस्य सागरतरोः संरोपितस्याजिरे स्फाराकाररसायनासवसमं संमोहशान्त्यै वचः ।।

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे विरोचनस्मरणं नाम द्वाविंशः सर्गः ।। २२ ।। 5.23