मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — उपशमप्रकरणम् — सर्गः ३५

3
योगवासिष्ठम् · उपशमप्रकरणम् · 35

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

प्रह्लाद उवाच ।

ओमित्येकोचिताकारो विकारपरिवर्जितः ।

आत्मैवायमिदं सर्वं यत्किंचिज्जगतीगतम्

॥१॥

मेदोस्थिमांसमज्जासृगतीतोऽप्येष चेतनः ।

अन्तरस्थो हि सूर्यादीन्प्रकाशयति दीपकः

॥२॥

उष्णीकरोति दहनं रसयत्यमृतं रसम् ।

इन्द्रियानुभवान्भुङ्कते भोगानिवमहीपतिः

॥३॥

तिष्ठन्नपि हि नासीनो गच्छन्नपि न गच्छति ।

शान्तोऽपि व्यवहारस्थः कुर्वन्नपि न लिप्यते

॥४॥

पूर्वमद्य तथेदानीमिहामुत्रोभयत्र च ।

विहितोऽविहितोऽप्येष समः सर्वासु वृत्तिषु

॥५॥

उद्भवत्यभयो भावं भुवनानि ततस्ततः ।

ब्रह्मादितृणपर्यन्तं जगदावर्तयन्स्थितः

॥६॥

नित्यस्पन्दमयो नित्यमपि देवात्सदागतेः ।

स्थाणोरप्यक्रियो नित्यमाकाशादप्यलेपकः

॥७॥

मनांसि क्षोभयत्येष पल्लवानीव मारुतः ।

वाहयत्यक्षपङ्कतिं स्वामश्वालीमिव सारथिः

॥८॥

अतिदुर्विधवद्देहगेहे कर्मरतः सदा ।

सम्राडिवात्मनि स्वस्थः संस्थितो भोगभुग्विभुः

॥९॥

एष एव सदाऽन्विष्यः स्तुत्यो ध्यातव्य एव तु ।

जरामरणसंमोहादनेनोत्तीर्य गम्यते

॥१०॥

सुलभश्चायमत्यन्तं सुजेयश्चाप्तबन्धुवत् ।

शरीरपद्मकुहरे सर्वेषामेव षट्पदः

॥११॥

अनाक्रुष्टोऽप्यनाहूतः स्वदेहादेव लभ्यते ।

मनागेवोपहूतोऽपि क्षणाद्भवति सन्मुखः

॥१२॥

नास्य संसेव्यमानस्य सर्वसंपत्तिशालिनः ।

धनानामीश्वरस्येव स्मयो गर्वो यथा भवेत्

॥१३॥

आमोद इव पुष्पेषु तैलं तिलकणेष्विव ।

रसजातिष्विवास्वादो देवो देहेषु संस्थितः

॥१४॥

अविचारवशादेष हृदयस्थोऽपि चेतनः ।

न ज्ञायते चिरादृष्टो दृष्टबन्धुरिवाग्रतः

॥१५॥

विचारणापरिज्ञात एतस्मिन्परमेश्वरे ।

अभ्युदेति परानन्दो लब्धे प्रियजने यथा

॥१६॥

अस्मिन्दृष्टे परे बन्धावुद्दामानन्ददायिनि ।

आयान्ति दृष्टयस्तास्ता याभिर्भङ्गो विलीयते

॥१७॥

त्रुट्यन्ते सर्वतः पाशाः क्षीयन्ते सर्वशत्रवः ।

न कृन्तन्ति मनांस्याशा गृहाणीव दुराखवः

॥१८॥

अस्मिन्दृष्टे जगद्दृष्टं श्रुतेऽस्मिन्सकलं श्रुतम् ।

स्पृष्टेचास्मिञ्जगत्स्पृष्टं स्थितेऽस्मिन्संस्थितं जगत्

॥१९॥

एष जागर्ति सुप्तानां प्रहरत्यविवेकिनाम् ।

हरत्यापदमार्तानां वितरत्यमहात्मनाम्

॥२०॥

विचरत्येष लोकेषु जीव एव जगत्स्थितौ ।

विलसत्येव भोगेषु प्रस्फुरत्येव वस्तुषु

॥२१॥

आत्मनात्मानमेवातः शान्तेनानुभवन्भवी ।

स्थितः सर्वेषु देहेषु तीक्ष्णत्वं मरिचेष्विव

॥२२॥

चेतनाकलनारूपी सबाह्याभ्यन्तराश्रितः ।

जगत्पदार्थसंभारे सत्तासामान्यमास्थितः

॥२३॥

एष शून्यत्वमाकाशे स्पन्द एष सदागतौ ।

प्रकाशश्चैव तेजस्तु पयस्स्वेष रसः परः

॥२४॥

काठिन्यमवनावेवमौष्ण्यमेव हुताशने ।

शैत्यमेष निशानाथे सत्ता चैष जगद्गणे

॥२५॥

मषीपिण्डे यथा कार्ष्ण्यं शैत्यं हिमकणे यथा ।

यथा पुष्पेषु सौगन्ध्यं देहे देहपतिस्तथा

॥२६॥

यथा सर्वगता सत्ता कालः सर्वगतो यथा ।

प्रभुशक्तिर्मही यस्य सर्वदेशगता यथा

॥२७॥

रूपालोकमनस्कारयुक्तं सत्त्वं तथात्मनः ।

नित्यः सोऽयं महादेवो देवानामेव बोधकः

॥२८॥

अहमेवास्मि मे नास्ति कलनापि किलेतरा ।

रेणुनेवाणुना व्योम्नि पद्मपत्रमिवाम्भसा

॥२९॥

संभ्रमेणेव पाषाणे संबन्धो मयि नेतरैः ।

सुखदुःखश्रियो देहे मा पतन्तु पतन्तु वा

॥३०॥

तुम्बकोपरि धाराश्च का नः क्षतिरुपस्थिता ।

दीपाङ्गातिगतो रज्वा नालोको बध्यते यथा

॥३१॥

तथा नायमहं बद्धः सर्वभावगणातिगः ।

संबन्धः कोऽस्तु नः कामैर्भावाभावैरथेन्द्रियैः

॥३२॥

केन संबध्यते व्योम केन संबाध्यते मनः ।

शरीरे शतधा याते खण्डना का शरीरिणः

॥३५॥

कुम्भे भग्ने क्षते क्षीणे कुम्भाकाशस्य का क्षतिः ।

पिशाचक इवादृश्यो मनो नामोदितं मुधा

॥३४॥

जडे तस्मिन्क्षते बोधात्का नः क्षतिरुपस्थिता ।

सुखदुःखमयी यस्य वासना तन्मनो मम

॥३५॥

अभवत्पूर्वमद्यैका संपन्नाऽतनुनिर्वृतिः ।

अन्यो भुङ्क्तेऽन्य आदत्तेऽप्यन्यस्यानर्थसंकटः

॥३६॥

अन्यः पश्यत्यहो मौर्ख्यं कस्येयं खलु चक्रिका ।

भुङ्क्ते प्रकृतिरादत्ते मनोदेहस्य संकटः

॥३७॥

दुष्टात्मा मौर्ख्यमस्तीह न किंचित्केवले क्षतिः ।

न मे भोगस्थितौ वाञ्छा न च भोगविवर्जने

॥३८॥

यदायाति तदायातु यत्प्रयाति प्रयातु तत् ।

सुखेषु मम नापेक्षा नोपेक्षा दुःखवृत्तिषु

॥३९॥

सुखदुःखान्युपायान्तु यान्तु वाप्यहमेषु कः ।

वासना विविधा देहे त्वस्तं चोदयमेव वा

॥४०॥

प्रयान्तु नाहमेतासु न चैता मम काश्चन ।

एतावन्तमहं कालमज्ञानरिपुणा हतः

॥४१॥

हृत्वा विवेकसर्वस्वमेकान्तमवपोथितम् ।

वैष्णवेन प्रसादेन स्वसमुत्थेन चारुणा

॥४२॥

इदानीं संपरिज्ञाय मयैष परिमोषितः ।

अहंकारपिशाचोऽयं शरीरतरुकोटरात्

॥४३॥

परावबोधमन्त्रेण मयेदानीमपाकृतः ।

निरहंकारयक्षोऽयं मच्छरीरमहाद्रुमः

॥४४॥

पुण्यतामलमायातः प्रफुल्ल इव राजते ।

प्रशान्तमोहदारिद्र्यो दुराशादोषसंक्षये

॥४५॥

विवेकधनसंभारान्स्थितोऽस्मि परमेश्वरः ।

ज्ञातं ज्ञातव्यमखिलं दृष्टा द्रष्टव्यदृष्टयः

॥४६॥

तत्प्राप्तमधुना येन नाप्राप्तमवशिष्यते ।

दिष्ट्या दूरोज्झितानर्थामपेतविषयोरगाम्

॥४७॥

संशान्तमोहनीहारां शान्ताशामृगतृष्णिकाम् ।

रजोरहितसर्वाशां शीतलोपशमद्रुमाम्

॥४८॥

प्राप्तोऽस्मि विततां भूमिमुन्नतां पारमार्थिकीम् ।

स्तुत्या प्रणत्या विज्ञप्त्या शमेन नियमेन च

॥४९॥

लब्धोऽयं भगवानात्मा दृष्टश्चाधिगतः स्फुटम् ।

अहंकारपदातीतश्चिरात्संस्मृतिमागतः

॥५०॥

स्वभावाद्भगवानात्मा विष्णोर्ब्रह्म सनातनम् ।

इन्द्रियोरगगर्तेषु मरणश्वभ्रभूमिषु

॥५१॥

तृष्णाकरञ्जकुञ्जेषु कामकोलाहलेषु च ।

वासनावनजालेषु जन्मकूपान्तरेषु च

॥५२॥

दुःखदावाग्निदाहेषु दुःखदावाग्निहारिषु ।

पातोत्पातदशालक्षैर्मज्जनोन्मज्जनभ्रमैः

॥५३॥

आविर्भावतिरोभावैराशापाशविचेष्टनैः ।

अहं चिरमहंकारद्विषा समवमोषितः

॥५४॥

निशायामल्पवीर्यात्मा पिशाचेनेव जङ्गले ।

स्वयमेव त्वथेदानीं क्रियाशक्त्या स्वयैव हि

॥५५॥

शौरिणा व्यपदेशेन विवेकश्रीर्विबोधिता ।

प्रबुद्धे भवतीशाने तमहंकारराक्षसम्

॥५६॥

न पश्यामि नभोदीपे ज्वलिते तिमिरं यथा ।

तस्याहंकारयक्षस्य मनोविवरवासिनः

॥५७॥

दीपस्येव प्रशान्तस्य न वेद्मि गतिमीश्वरः ।

दृष्ट एव त्वयीशाने पलायनपरायणः

॥५८॥

संपन्नो मदहंकारश्चोरः सूर्योदये यथा ।

असदभ्युत्थिते तस्मिन्नहंकारे पिशाचवत्

॥५९॥

गते तिष्ठाम्यहं स्वस्थो निर्गोनस इव द्रुमः । ।

शाम्यामि परिनिर्वामि जगत्यस्मिन्प्रबोधवान्

॥६०॥

तस्करेणोज्झितोऽस्मीति निवृर्तोऽस्मि चिरोदयम् ।

शैत्यमभ्यागतोस्म्यन्तः शान्ताशामृगतृष्णिकः

॥६१॥

प्रावृडम्बुभरस्नातः शान्तदाव इवाचलः ।

प्रमार्जितेहमित्यस्मिन्पदे स्वार्थविचारतः

॥६२॥

को मोहः कानि दुःखानि काः कदाशाः क आधयः ।

नरकस्वर्गमोक्षादिभ्रमाः सत्यामहंकृतौ

॥६३॥

भित्तावेव प्रवर्तन्ते चित्रेहा न नभस्तले ।

अहंकारकलापित्ते चित्ते ज्ञानचमत्कृतिः ।

न राजतेंऽशुके म्लाने यथा कुङ्कुमरञ्जना

॥६४॥

निरहंकारजलदे तृष्णासारविवर्जिते ।

भाति चित्तशरद्व्योम्नि स्वच्छता कान्तिशालिनी

॥६५॥

निरहंकारपङ्काय संप्रसन्नान्तराय च ।

मह्यमानन्दसरसे तुभ्यमात्मन्नमो नमः

॥६६॥

शान्तेन्द्रियोग्रग्राहाय क्षीणचित्तौर्ववह्नये ।

आनन्दाम्बुधये तुभ्यं मह्यमात्मन्नमो नमः

॥६७॥

गताहंकारमेघाय शान्ताशादाववह्नये ।

मह्यमानन्दशैलाय विभ्रान्ताय नमो नमः

॥६८॥

प्रफुल्लानन्दपद्माय शान्तचिन्तामयोर्मवे ।

मह्यं सन्मानसायात्मंस्तुभ्यमन्तर्नमो नमः

॥६९॥

संविदाभासपक्षाय पद्मकोटरवासिने ।

सर्वमानसहंसाय स्वात्मनेऽन्तर्नमो नमः

॥७०॥

कलाकलितरूपाय निष्कलायामृतात्मने ।

सदोदिताय पूर्णात्मन् शशिने ते नमो नमः

॥७१॥

सदोदिताय शान्ताय महाहृद्ध्वान्तहारिणे ।

सर्वगायाप्यदृश्याय चित्सूर्याय नमो नमः

॥७२॥

अस्नेहस्नेहदीपाय वृत्तिनिष्क्रान्तवर्तिने ।

स्वभावाधारधीराय चिद्दीपाय नमो नमः

॥७३॥

मदनानलसंतप्ते शीतेन मनसा मनः ।

भग्नमन्तर्मया तप्तमयसेव बलादयः

॥७४॥

इन्द्रियेणेन्द्रियं छित्त्वा छित्त्वा च मनसा मनः ।

अहंकृतिमहंकृत्या छित्त्वा शेषो जयाम्यहम्

॥७५॥

भावेनाभावमाच्छिद्य हित्वा तृष्णामतृष्णया ।

निष्पिष्य प्रज्ञयाऽप्रज्ञां ज्ञोऽज्ञः सत्योसि ते नमः

॥७६॥

मनसा मनसि च्छिन्ने निरहंकारतां गते ।

भावेन गलिते भावे स्वच्छस्तिष्ठामि केवलः

॥७७॥

निर्भावं निरहंकारं निर्मनस्कमनीहितम् ।

केवलं स्पन्दशुद्धात्मन्येव तिष्ठति मे वपुः

॥७८॥

हेलानुकम्पितानन्तविश्वेशादतिशायिनी ।

परमोपशमोपेता जातेयं मम निर्वृतिः

॥७९॥

प्रशान्तमोहवेतालो गताहंकारराक्षसः ।

कदाशारूपिकोन्मुक्तो जातोऽस्मि विगतज्वरः

॥८०॥

तृष्णारज्जुगुणं छित्त्वा मच्छरीरकपञ्जरात् ।

न जाने क्व गतोड्डीय दुरहंकृतिपक्षिणी

॥८१॥

उद्धूलिते घनाज्ञानकुलाये कायपादपात् ।

न जाने गत उड्डीय क्वाहंभावविहंगमः

॥८२॥

दुराशादीर्घदौरात्म्यधूसरा भोगभस्मना ।

भयभोगिहिता दिष्ट्या भूयस्यो वासनाः क्षताः

॥८३॥

एतावन्तमहं कालं कोऽभूवं चित्रमीदृशम् ।

येनाहमेष मिथ्यैव दृढाहंकारतां गतः

॥८४॥

अद्याहमस्मि जातोऽयमहमद्य महामतिः ।

अहंकारमहाभ्रेण यत्कृष्णेनालमुज्झितः

॥८५॥

दृष्टोऽयमात्मा भगवांस्तथैवाधिगतो मया ।

आलब्धश्चानुभूतोऽङ्गं स्वानुभूतौ नियोजितः

॥८६॥

गतास्पदं गतमननं गतैषणं

तिरस्कृतं निपुणमहंकृतिभ्रमैः ।

निरीहितं व्यपगतरागरञ्जनं

विकौतुकं प्रशममिदं गतं मनः

॥८७॥

दुरुत्तराः समविषमा महापदः

सुदुःसहाः प्रभवनदीर्घदोषदाः ।

गताः क्षयं समधिगतो महेश्वर-

श्चिदद्वयोऽपगतमचित्त्वमन्तरे

॥८८॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे ब्रह्मात्मचिन्ता नाम पञ्चत्रिंशः सर्गः ।। ३५ ।।