मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — उपशमप्रकरणम् — सर्गः ५२

3
योगवासिष्ठम् · उपशमप्रकरणम् · 52

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

स तां विवेश धर्मात्मा गन्धमादनकन्दराम् ।

चित्रभ्रमणसंप्राप्तामलिः पद्मकुटीमिव

॥१॥

समाधानोन्मुखतया प्रविशन्स व्यराजत ।

सर्गव्यापारविरतावात्मपुर्यामिवाब्जजः

॥२॥

चकारासनमम्लानैः पत्रैरन्तस्वगुच्छकम् ।

मृदुमेघविधिर्वृन्दमम्भोदमिव तत्र सः

॥३॥

स तत्प्रस्तारयामास पृष्ठे चारु मृगाजिनम् ।

नीलरत्नतटे मेरुस्तारासारमिवाम्बरम्

॥४॥

स तत्रोपाविशद्वृत्तीश्चेतसस्तनुतां नयन् ।

अन्तःशुद्धवपुः श्रृङ्गे वृष्य मूक इवाम्बुदः

॥५॥

बुद्धवत्सुदृढं बद्धपद्मासन उदङ्मुखः ।

पार्ष्णिभ्यां वृषणौ धृत्वा चकार ब्राह्ममञ्जलिम्

॥६॥

वासनाभ्यः समाहृत्य मनोमृगमुपप्लुतम् ।

निर्विकल्पसमाध्यर्थं चकारेमां विचारणाम्

॥७॥

अयि मूर्ख मनः कोऽर्थस्तव संसारवृत्तिभिः ।

धीमन्तो न निषेवन्ते पर्यन्ते दुःखदां क्रियाम्

॥८॥

अनुधावति यो भोगांस्त्यक्त्वा शमरसायनम् ।

संत्यज्य मन्दारवनं स याति विषजङ्गलम्

॥९॥

यदि यासि महीरन्ध्रं ब्रह्मलोकमथापि वा ।

तन्न निर्वाणमायासि विनोपशमनामृतम्

॥१०॥

आशाशतावपूर्णत्वे त्वमेवं सर्वदुःखदम् ।

त्यज्य याहि परं श्रेयः परमेकान्तसुन्दरम्

॥११॥

इमा विचित्राः कलना भावाभावमयात्मिकाः ।

दुःखायैव तवोग्राय न सुखाय कदाचन

॥१२॥

शब्दादिकाभिरेताभिः किं मूर्ख हतवृत्तिभिः ।

भ्रमस्यविरतं व्यर्थं मेघे मण्डूकिका यथा

॥१३॥

मनोमण्डूकिके व्यर्थमियन्तं कालमन्धया ।

भ्रमन्त्या भुवनं क्षिप्रं किं समासादितं त्वया

॥१४॥

यस्मात्किंचिदवाप्नोषि यस्मिन्वहसि निर्वृतिम् ।

तस्मिंश्चेतः शमे मूर्ख नानुबध्नासि किं पदम्

॥१५॥

आगत्य श्रोत्रतां मूर्ख व्यर्थोत्थानोपबृंहिताम् ।

धिया शब्दानुसारिण्या मृगवन्मा क्षयं व्रज

॥१६॥

त्वक्तामागत्य दुःखाय स्पर्शोन्मुखतया धिया ।

मूर्ख मा बद्धतामेहि गजीलुब्धगजेन्द्रवत्

॥१७॥

रसनाभावमागत्य गर्द्धेनान्ध दुरन्धसाम् ।

मा नाशमेहि बडिशपिण्डीलम्पटमत्स्यवत्

॥१८॥

चाक्षुषीं वृत्तिमाश्रित्य प्रभारूपचयोन्मुखीम् ।

मा गच्छ दग्धतां मुग्ध कान्तिलुब्धपतङ्गवत्

॥१९॥

घ्राणमार्गमुपाश्रित्य शरीराम्भोजकोटरे ।

गन्धोन्मुखतया बन्धं मा त्वं संश्रय भृङ्गवत्

॥२०॥

कुरङ्गालिपतङ्गेभमीनास्त्वेकैकशो हताः ।

सर्वैर्युक्तैरनर्थैस्तु व्याप्तस्याज्ञ कुतः सुखम्

॥२१॥

हे चित्त वासनाजालं बन्धाय भवतोहितम् ।

स्वात्मनः सहजः फेनस्ततः कुकृमिणा यथा

॥२२॥

शरदभ्रवदागत्य शुद्धिं त्यक्तभवामयाम् ।

यदि शाम्यसि निर्मूलं तदनन्तो जयस्तव

॥२३॥

क्षयोदयदशाधात्रीं पर्यन्तपरितापिनीम् ।

जानन्नपि जगत्सृष्टिं न त्यक्ष्यसि विनंक्ष्यसि

॥२४॥

करोम्यथ किमर्थं वा तवैतदनुशासनम् ।

विचारणवतः पुंसश्चित्तमस्ति हि नानघ

॥२५॥

यावदज्ञानघनता तावत्प्रघनचित्तता ।

यावत्प्रावृड्जलदता तावन्नीहारभूरिता

॥२६॥

यावदज्ञानतनुता तावच्चित्तस्य तानवम् ।

प्रावृट्परिक्षयो यावत्तावन्नीहारसंक्षयः

॥२७॥

यावत्तानवमायातं शुद्धं चित्तं विचारतः ।

तावत्तत्क्षीणमेवाहं मन्ये शारदमेघवत्

॥२८॥

अनुशासनमेतद्यदसतो नश्यतोऽथ वा ।

क्रियते तन्नभोवारिपवनाहननैः समम्

॥२९॥

तस्मात्संक्षीयमाणत्वात्त्यजामि त्वामसन्मयम् ।

मौर्ख्यं परममेवाहुः परित्याज्यानुशासनम्

॥३०॥

निर्विकल्पोऽस्मि चिद्दीपो निरहंकारवासनः ।

त्वयाहंकारबीजेन न संबद्धोऽस्म्यसन्मय

॥३१॥

अयं सोऽहमिति व्यर्थं दुर्दृष्टिरवलम्बिता ।

त्वया मूढविनाशाय शङ्काविषविषूचिका

॥३२॥

अनन्तस्यात्मतत्त्वस्य तन्वीति मनसि स्थितिः ।

न संभवति बिल्वान्तर्वासितादन्तिनोर्यथा

॥३३॥

महाश्वभ्रीव गम्भीरा दुःखदा वासनाश्रिता ।

त्वयैषा बत चित्तेति नैनामनुसराम्यहम्

॥३४॥

कः किलायं मुधा मोहो बालस्येवाविचारिणः ।

अयं सोऽहमिति भ्रान्तिस्त्वहंतापरिकल्पिता

॥३५॥

पादाङ्गुष्ठाच्छिरो यावत्कणशः प्रविचारितम् ।

न लब्धोऽसावहं नाम कः स्यादहमिति स्थितः

॥३६॥

भरिताशेषदिक्कुञ्जं यत्स्यामेकं जगत्त्रये ।

संवेदनमसंवेद्यं सर्वत्रविगतात्मकम्

॥३७॥

दृश्यते यस्य नेयत्ता न नाम परिकल्पना ।

नैकता नान्यतैवेह न महत्ता न चाणुता

॥३८॥

वेद तत्त्वां स्वसंवेद्यमाततं दुःखकारणम् ।

विवेकजेन बोधेन तदिदं हन्यसे मया

॥३९॥

इदं मांसमिदं रक्तमिमान्यस्थीनि देहके ।

इमे ते श्वासमरुतः कोऽसावहमिति स्थितः

॥४०॥

स्पन्दो हि वातशक्तीनामवबोधो महाचितः ।

जरा मृतिश्च कायेऽस्मिन्कोऽसावहमिति स्थितः

॥४१॥

मांसमन्यदसृक्चान्यदस्थीन्यन्यानि चित्त हे ।

बोधोऽन्यः स्पन्दनं चान्यत्कोसावहमिति स्थितः

॥४२॥

इदं घ्राणमियं जिह्वा त्वगियं श्रवणे इमे ।

इदं चक्षुरसौ स्पर्शः कोऽसावहमिति स्थितः

॥४३॥

यथाभूततया नाहं मनो न त्वं न वासना ।

आत्मा शुद्धचिदाभासः केवलोऽयं विजृम्भते

॥४४॥

अहमेवेह सर्वत्र नाहं किंचिदपीह वा ।

इत्येव सन्मयी दृष्टिर्नेतरो विद्यते क्रमः

॥४५॥

चिरमज्ञानधूर्तेन पोथितोऽस्मि त्वहंतया ।

वृकेण दृप्तेनाटव्यां लब्धेन पशुपोतकः

॥४६॥

दिष्ट्येदानीं परिज्ञातो मयैवाज्ञानतस्करः ।

पुनर्न संश्रयाम्येनं स्वरूपार्थापहारिणम्

॥४७॥

निर्दुःखो दुःखयोग्यस्य नाहं तस्य न चैष मे ।

कश्चिद्भवति शैलस्य तत्स्थ एव यथाम्बुदः

॥४८॥

भूत्वा त्वहमिदं वच्मि वेद्मि तिष्ठामि यामि च ।

आत्मावलोकनेनाहमनहंकारतां गतः

॥४९॥

नूनमेवाहमेवैते मन्ये ज्ञाश्चक्षुरादयः ।

यान्तु तिष्ठन्तु वा देहे ममैते तु न किंचन

॥५०॥

कष्टं कोऽयमहं नाम कथं केनोपकल्पितः ।

जगद्बालकवेतालस्तालोत्तालातुलाकृतिः

॥५१॥

एतावन्तं चिरं कालं व्यर्थमालुठितोऽवटे ।

अहमत्र तृणोन्मुक्ते दुरद्रौ हरिणो यथा

॥५२॥

स्वार्थमालोकने चक्षुर्यदितून्मुखतां गतम् ।

तदहं नाम कोसौ स्याद्योऽस्मिन्दुःखे न मोहितः

॥५३॥

स्पर्शनाय निजे तत्त्वे यदि जाता त्वगुन्मुखी ।

तत्कोयं स्यादहं नाम कुपिशाच इवोदितः

॥५४॥

रसेष्वभिनिषण्णेऽस्मिन्स्वक्रमे रसनेन्द्रिये ।

अहं मृष्टभुगित्येष कुतस्त्यः कुत्सितो भ्रमः

॥५५॥

शब्दशक्तिं गते श्रोत्रे वराके स्वार्थपीडिते ।

तदहंकारदुःखस्य निर्बीजस्य क आगमः

॥५६॥

आत्मभरित्वेन निजे घ्राणे स्वं गन्धमागते ।

अहं घ्रातेति यो माता तं चौरं नैव वेद्म्यहम्

॥५७॥

मृगतृष्णाक्रमेणैषा भावना व्यर्थभाविनी ।

भावस्तस्यामसत्यायां यः सोऽयमिति संभ्रमः

॥५८॥

वासनाहीनमप्येतच्चक्षुरादीन्द्रियैः स्वतः ।

प्रवर्तते बहिः स्वार्थे वासना नात्र कारणम्

॥५९॥

वासनारहितं कर्म क्रियते ननु चित्त हे ।

केवलं नानुभूयन्ते सुखदुःखदृशोऽग्रगाः

॥६०॥

तस्मान्मूर्खाणीन्द्रियाणि त्यक्त्वान्तर्वासनां निजाम् ।

कुरुध्वं कर्म हे सर्वं न दुःखं समवाप्स्यथ

॥६१॥

भवद्भिरेव दुःखाय वासनावासिता मुधा ।

बालैः पङ्कक्रीडनकं विनाशेनेव खिन्नता

॥६२॥

वासनाद्या दृशः सर्वा व्यतिरिक्तास्तु नात्मनः ।

जलादिव तरङ्गाद्या ज्ञस्यैवान्यस्य नानघ

॥६३॥

तृष्णयैव विनष्टाः स्थ व्यर्थमिन्द्रियबालकाः ।

कोशकारकुकृमयस्तन्तुनेव स्वयंभुवा

॥६४॥

तृष्णयैवेह लुठथ जरामरणसंकटे ।

भ्रमदृष्ट्येव शिखरिपथिकाः श्वभ्रभूमिषु

॥६५॥

वासनैवेह भवतां हेतुरेकत्र बन्धने ।

रज्जुः शून्याशयप्रोता मुक्तानामातता यथा

॥६६॥

कल्पनामात्रकलिता सत्यैषा हि न वस्तुतः ।

असंकल्पनमात्रेण दात्रेणेव विलूयते

॥६७॥

एषा हि भवतामेव विमोहाय क्षयाय च ।

वातलेखेव दीपानां स्फुरतामपि तेजसाम्

॥६८॥

हे चित्त सर्वेन्द्रियकोश तस्मा-

त्सर्वेन्द्रियैरैक्यमुपेत्य नूनम् ।

आलोक्य चात्मानमसत्स्वरूपं

निर्वाणमेवामलबोधमास्स्व

॥६९॥

विषयविषविषूचिकामनन्तां

निपुणमहंस्थितिवासनामपास्य ।

अभिमतपरिहारमन्त्रयुक्त्या

भव विभवो भगवान्भियामभूमिः

॥७०॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० उपशमप्रकरणे उद्दालकविचारो नाम द्विपञ्चाशः सर्गः ।। ५२ ।।