मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — उपशमप्रकरणम् — सर्गः ५६

3
योगवासिष्ठम् · उपशमप्रकरणम् · 56

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

क्रमेणानेन विहरन्विचार्यात्मानमात्मना ।

विश्रान्तिमेहि वितते पदे पद्मदलेक्षण

॥१॥

शास्त्रार्थगुरुचेतोभिस्तावत्तावद्विचार्यते ।

सर्वदृश्यक्षयाभ्यासाद्यावदासाद्यते पदम्

॥२॥

वैराग्याभ्यासशास्त्रार्थप्रज्ञागुरुमयक्रमैः ।

पदमासाद्यते पुण्यं प्रज्ञयैवैकयाथवा

॥३॥

संप्रबोधवती तीक्ष्णा कलङ्करहिता मतिः ।

सर्वसामग्र्यहीनापि पदं प्राप्नोति शाश्वतम्

॥४॥

श्रीराम उवाच ।

भगवन्भूतभव्येश कश्चिज्जातसमाधिकः ।

प्रबुद्ध इव विश्रान्तो व्यवहारपरोऽपि सन्

॥५॥

कश्चिदेकान्तमाश्रित्य समाधिनियतः स्थितः ।

तयोस्तु कतरः श्रेयानिति मे भगवन्वद

॥६॥

श्रीवसिष्ठ उवाच ।

इमं गुणसमाहारमनात्मत्वेन पश्यतः ।

अन्तःशीतलता यासौ समाधिरिति कथ्यते

॥७॥

दृश्यैर्मनसि संबन्ध इति निश्चित्य शीतलः ।

कश्चित्संव्यवहारस्थः कश्चिद्ध्याने व्यवस्थितः

॥८॥

द्वावेतौ राम सुखितावन्तश्चेत्परिशीतलौ ।

अन्तःशीतलता या स्यात्तदनन्ततपःफलम्

॥९॥

समाधिस्थानकस्थस्य चेतश्चेद्वृत्तिचञ्चलम् ।

तत्तस्य तत्समाधानं सममुन्मत्तताण्डवैः

॥१०॥

उन्मत्तताण्डवस्थस्य चेतश्चेत्क्षीणवासनम् ।

तदस्योन्मत्तवृत्तं तत्समं बुद्धसमाधिना

॥११॥

व्यवहारी प्रबुद्धो यः प्रबुद्धो यो वने स्थितः ।

द्वावेतौ सुसमौ नूनमसंदेहं पदं गतौ

॥१२॥

अकर्तृ कुर्वदप्येतच्चेतः प्रतनुवासनम् ।

दूरं गतमना जन्तुः कथासंश्रवणे यथा

॥१३॥

अकुर्वदपि कर्तेव चेतः प्रघनवासनम् ।

निस्पन्दाङ्गमपि स्वप्ने श्वभ्रपातस्थिताविव

॥१४॥

चेतसो यदकर्तृत्वं तत्समाधानमुत्तमम् ।

तं विद्धि केवलीभावं सा शुभा निर्वृतिः परा

॥१५॥

चेतश्चलाचलत्वेन परम कारणं स्मृतम् ।

ध्यानाध्यानदृशोस्तेन तदेवानङ्कुरं कुरु

॥१६॥

अवासनं स्थिरं प्रोक्तं मनोध्यानं तदेव तु ।

स एव केवलीभावः शान्ततैव च सा सदा

॥१७॥

तनुवासनमत्युच्चैः पदायोद्यतमुच्यते ।

अवासनं मनो कर्तृपदं तस्मादवाप्यते

॥१८॥

घनवासनमेतत्तु चेतः कर्तृत्वभाजनम् ।

सर्वदुःखप्रदं तस्माद्वासनां तनुतां नयेत्

॥१९॥

प्रशान्तजगदास्थोऽन्तर्वीतशोकभयैषणः ।

स्वस्थो भवति येनात्मा स समाधिरिति स्मृतः

॥२०॥

चेतसा संपरित्यज्य सर्वभावात्मभावनाम् ।

यथा तिष्ठसि तिष्ठ त्वं तथा शैले गृहेऽथवा

॥२१॥

गृहमेव गृहस्थानां सुसमाहितचेतसाम् ।

शान्ताहंकृतिदोषाणां विजनावनभूमयः

॥२२॥

अरण्यसदने तुल्ये समाहितमनोदृशाम् ।

भवतामिह भूतानां भूतानां महतामिव

॥२३॥

शान्तचित्तमहाभ्रस्य जनज्वालोज्ज्वलान्यपि ।

नगराण्यपि शून्यानि वनान्यवनिपात्मज

॥२४॥

वृत्तिमच्चित्तमत्तस्य विजनानि वनान्यपि ।

नगराणि महालोकपूर्णानि परवीरहन्

॥२५॥

व्युत्थितं चित्तमभ्येति भ्रमस्यान्तः सुषुप्तताम् ।

निर्वाणमेति निर्वाणं यथेच्छसि तथा कुरु

॥२६॥

सर्वभावपदातीतं सर्वभावात्मकं च वा ।

यः पश्यति सदात्मानं स समाहित उच्यते

॥२७॥

ईहितानीहिते क्षीणे यस्यान्तर्वितताकृतेः ।

सर्वे भावाः समा यस्य स समाहित उच्यते

॥२८॥

सदात्मना सदेवेदं जगत्पश्यति नो मनः ।

यथा स्वप्ने तथैवास्मिञ्जाग्रत्यपि जनेश्वर

॥२९॥

यथा विपणिकालोका विहरन्तोऽप्यसत्समाः ।

असंबन्धात्तथा ज्ञस्य ग्रामोपि विपिनोपमः

॥३०॥

अन्तर्मुखमना नित्यं सुप्तो बुद्धो व्रजन्नपि ।

पुरं जनपदं ग्राममरण्यमिव पश्यति

॥३१॥

सर्वमाकाशतामेति नित्यमन्तर्मुखस्थितेः ।

सर्वथानुपयोग्यत्वाद्भूताकुलमिदं जगत्

॥३२॥

अन्तःशीतलतायां तु लब्धायां शीतलं जगत् ।

विज्वराणामिव नृणां भवत्याजीवितस्थितेः

॥३३॥

अन्तस्तृष्णोपतप्तानां दावदाहमयं जगत् ।

भवत्यखिलजन्तूनां यदन्तस्तद्वहिः स्थितम्

॥३४॥

द्यौः क्षमा वायुराकाशं पर्वताः सरितो दिशः ।

अन्तःकरणतत्त्वस्य भागा बहिरिव स्थिताः

॥३५॥

वटधाना वट इव यदन्तःस्थं सदात्मनः ।

तद्बहिर्भासते भास्वद्विकासे पुष्पगन्धवत्

॥३६॥

न बहिष्ठं न चान्तःस्थं क्वचित्किंचन विद्यते ।

यद्यथा कचितं चित्त्वात्तत्तथा तत्त्वमुत्थितम्

॥३७॥

आत्मतत्त्वान्तरं भाति बहिष्ट्वेन जगत्तया ।

कर्पूरमिव गन्धेन संकोचे प्रविकासि च

॥३८॥

आत्मैव स्फुरति स्फारं जगत्त्वेनाप्यहंतया ।

बाह्यत्वेनान्तरत्वेन स च नासन्न सन्विभुः

॥३९॥

बहिष्ठेनान्तरं बाह्यमन्तःस्थेनान्तरस्थितम् ।

यथाविदितमात्मायं स्वचित्तमनुपश्यति

॥४०॥

सबाह्याभ्यन्तरं शान्तमात्मनो भेदितं जगत् ।

अहन्त्वादिस्थिते भेदे भूरिभङ्गभयं तु तत्

॥४१॥

द्यौः क्षमा वायुराकाशं पर्वताः सरितो दिशः ।

कल्पादिरेव ज्वलितं सर्वमाधिहतात्मनः

॥४२॥

यस्त्वात्मरतिरेवान्तः कुर्वन्कर्मेन्द्रियैः क्रियाः ।

न वशो हर्षशोकाभ्यां स समाहित उच्यते

॥४३॥

यः सर्वगतमात्मानं पश्यन्समुपशान्तधीः ।

न शोचति ध्यायति वा स समाहित उच्यते

॥४४॥

स पूर्वापरपर्यन्तां यः पश्यञ्जागतीं गतिम् ।

दृष्टिष्वेतासु हसति स समाहित उच्यते

॥४५॥

समे परेऽपि नाहंता न जगज्जन्मनो मयि ।

वीचिवृन्देष्विवातप्ता नाकाशे फलधातवः

॥४६॥

यस्यान्तरस्थिताहन्त्वं न विभागादि नो मनः ।

न चेतनाचेतनत्वे सोऽस्ति नास्तीतरो जनः

॥४७॥

व्योमस्वच्छो बहिष्ठेहां सम्यगाचरतीह यः ।

हर्षामर्षविकारेषु काष्ठलोष्टसमः शमः

॥४८॥

आत्मवत्सर्वभूतानि परद्रव्याणि लोष्टवत् ।

स्वभावादेव न भयाद्यः पश्यति स पश्यति

॥४९॥

अर्थोऽतनुस्तनुर्वापि नासद्रूपेण चेत्यते ।

सद्रूपो नानुभूतोऽज्ञे न ज्ञेनैव न तत्तया

॥५०॥

ईदृशाशयसंपन्नो महासत्त्वपदं गतः ।

तिष्ठतूदेतु वा यातु मृतिमेतु न तत्स्थितिम्

॥५१॥

वसतूत्तमभोगाढ्ये स्वगृहे वा जनाकुले ।

सर्वभोगोज्झिताभोगे सुमहत्यथवा वने

॥५२॥

उद्दाममन्मथं पानतत्परो वापि नृत्यतु ।

सर्वसङ्गपरित्यागी सममायातु वा गिरौ

॥५३॥

चन्दनागुरुकर्पूरैर्वपुर्वा परिलिम्पतु ।

ज्वालाजटिलविस्तारे निपतत्वथवाऽनले

॥५४॥

पापं करोतु सुमहद्बहुलं पुण्यमेव च ।

अद्य वा मृतिमायातु कल्पान्तनिचयेन वा

॥५५॥

नासौ किंचिन्न तत्किंचित्कृतं तेन महात्मना ।

नासौ कलङ्कमाप्नोति हेम पङ्कगतं यथा

॥५६॥

संवित्पुरुषशब्दार्थैः स कलङ्कैः कलंक्यते ।

अहंत्वंवासनारूपैः शुक्तिकारजतोपमैः

॥५७॥

समस्तवस्तुप्रशमात्सम्यग्ज्ञानाद्यथास्थितेः ।

स्वभावस्योपशान्तोन्तःकलङ्कोऽसत्तया स्वतः

॥५८॥

अहंत्ववासनानर्थप्रसूतेः संविदात्मनः ।

पुरुषस्य विचित्राणि सुखदुःखानि जन्मनि

॥५९॥

रज्ज्वां सर्पभ्रमे शान्तेऽहिर्नेति निर्वृतिर्यथा ।

अहंत्वभावसंशान्तौ तथान्तः समता मता

॥६०॥

यत्करोति यदश्नाति यद्ददाति जुहोति वा ।

न तज्ज्ञस्य न तत्र ज्ञो मा करोतु करोतु वा

॥६१॥

कर्मणास्ति न तस्यार्थो नार्थस्तस्यास्त्यकर्मणा ।

यथास्वभावावगमात्स आत्मन्येव संस्थितः

॥६२॥

इच्छास्ततः समुद्यन्ति न मञ्जर्य इवोपलात् ।

याश्चोद्यन्ति च ताः सर्वाः स एवाप्स्विव वीचयः ।।

सकलमिदमसावसौ च सर्वं

जगदखिलं न विभागितात्र काचित् ।

परमपुरुषपावनैकरूपी

स सदिति तत्सदकिंचिदेव नासौ

॥६४॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे ध्यानविचारो नाम षट्पञ्चाशः सर्गः ।। ५६ ।।