मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — उपशमप्रकरणम् — सर्गः ६०

3
योगवासिष्ठम् · उपशमप्रकरणम् · 60

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

इति हेमजटाधीशो लेभे पदमनुत्तमम् ।

विवेकाध्यवसायेन ब्राह्मण्यमिव गाधिजः

॥१॥

अनर्थाकारकार्यासु नासीच्चेष्टासु खेदवान् ।

भूयोभूयः प्रयुक्तासु दिनमालास्विवेश्वरः

॥२॥

ततःप्रभृति सोऽतिष्ठतसर्वदा विगतज्वरः ।

समासमे स्वके कार्ये जलौघाग्र इवाचलः

॥३॥

हर्षामर्षविनिर्मुक्तः प्रत्यहं कार्यमाहरन् ।

उदारगम्भीरवपुर्जहाराम्बुनिधेः श्रियम्

॥४॥

सुषुप्तपदधर्मिण्या चित्तवृत्त्या व्यराजत ।

निष्कम्पया प्रकाशिन्या दीपः स्वशिखयेव सः

॥५॥

न निर्घृणो दयावान्नो न द्वन्द्वी नाथ मत्सरी ।

न सुधीर्नासुधीर्नार्थी नानर्थी स बभूव ह

॥६॥

समदर्शनया नित्यं वृत्त्याऽचापलधीरया ।

अन्तःशीतलया रेजे परिपूर्णार्णवेन्दुवत्

॥७॥

सर्वं चित्तत्त्वकलनं जगदित्यवलोक्य सः ।

प्रशान्तसुखदुःखश्रीस्तस्य पूर्णा मतिर्बभौ

॥८॥

उल्लसन्विकसन्पूर्णस्तिष्ठन्गच्छन्विशन्स्वपन् ।

अभूत्समसमाधिस्थः प्रबुद्धश्चिल्लयं गतः

॥९॥

स कुर्वन्विगतासङ्गं राज्यं राजीवलोचनः ।

अतिष्ठदक्षताकारो भूरिवर्षशतान्यथ

॥१०॥

संनिवेशमिमं देहनामकं तदनु स्वयम् ।

स जहौ तेजसाक्रान्तो रूपं हिमकणो यथा

॥११॥

विवेश परमाद्यन्तकारणं कारणेश्वरम् ।

प्रज्ञया सरितां वारि परिपूर्णमिवाम्बुधिम्

॥१२॥

अधिगतविमलैकरूपतेजा

विजनदशां समुपेत्य शान्तशोकः ।

अलमभवदसौ परस्वरूपं

घटखमिवाम्बरसंयुतं महात्मा

॥१३॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे सुरघुवृत्तान्ते सुरघुनिर्वाणं नाम षष्टितमः सर्गः ।। ६० ।।