मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — उपशमप्रकरणम् — सर्गः ६३

3
योगवासिष्ठम् · उपशमप्रकरणम् · 63

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

परिघ उवाच ।

राजन्नूनं प्रबुद्धोऽसि प्राप्तवानसि तत्पदम् ।

संशीतलान्तःकरणः पूर्णेन्दुरिव राजसे

॥१॥

आनन्दमधुसंपूर्णो लक्ष्म्या च परया श्रितः ।

शीतलः स्निग्धमधुरो राजीवमिव राजसे

॥२॥

निर्मलो विततः पूर्णो गम्भीरः प्रकटाशयः ।

वेलानिलविलासेन मुक्तोऽब्धिरिव राजसे

॥३॥

स्वच्छ आनन्दसंपूर्णो नष्टाहंकारवारिदः ।

स्फुटो विस्तीर्णगम्भीरः शरत्खमिव राजसे

॥४॥

सर्वत्र लक्ष्यसे स्वस्थः सर्वत्र परितुष्यसि ।

सर्वत्र वीतरागोऽसि राजन्सर्वत्र राजसे

॥५॥

सारासारपरिच्छेदपारगस्त्वं महाधिया ।

जानासि सर्वमेवेदं यथास्थितमखण्डितम्

॥६॥

भावाभावपरिच्छेदतत्त्वज्ञमुदिताशयम् ।

गमागमदशालौल्यमुक्तं तव वपुः स्थितम्

॥७॥

वस्तुनाऽवस्तुनेवान्तरमृतेनेव सागरः ।

अपुनःप्रक्षयायेव परे तृप्तोऽसि सुन्दर

॥८॥

सुरघुरुवाच ।

न तदस्ति मुने वस्तु यत्रोपादेयतास्ति नः ।

यावत्किंचिदिदं दृश्यं तावदेतन्न किंचन

॥९॥

उपादेयस्य चाभावाद्धेयमप्यस्ति किं किल ।

प्रतियोगि व्यवच्छेद्यं विना हेयं किमुच्यते

॥१०॥

तुच्छत्वात्सर्वभावानामतुच्छत्वाच्च कालतः ।

चिरं मम परिक्षीणे तुच्छातुच्छे मनःस्थिती

॥११॥

देशकालवशादेव तुच्छस्यातुच्छतामिह ।

अतुच्छस्य तु तुच्छत्वं वर्ज्ये निन्दास्तुती बुधैः

॥१२॥

रागान्निन्दास्तुती लोके रागश्च परिवाञ्छितम् ।

वाञ्छिते च महोदारं वस्तु शोभनबुद्धिना

॥१३॥

त्रैलोक्ये च स्त्रियः शैलाः समुद्रवनराजयः ।

भूतानि वस्तुशून्यानि सारो नास्त्यत्र वस्तुतः

॥१४॥

मांसास्थिदारुमृद्रत्नमये जगति जर्जरे ।

वाञ्छनीयविहीनेऽस्मिञ्शून्ये किमिव वाञ्छ्यते

॥१५॥

वाञ्छायां विनिवृत्तायां संक्षयो द्वेषरागयोः ।

दिनलक्ष्म्यां व्यपेतायामालोकातपयोरिव

॥१६॥

अलमतिविततैर्वचःप्रपञ्चै-

रियमुचितेह सुखाय दृष्टिरेका ।

उपशमितरसं समं मनोऽन्त-

र्यदि मुदितं तदनुत्तमा प्रतिष्ठा

॥१७॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये देवदूतोक्ते मो. उपशमप्रकरणे सुरघुपरिघनिश्चयो नाम त्रिषष्टितमः सर्गः ।। ६३ ।।