मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — उपशमप्रकरणम् — सर्गः ६७

3
योगवासिष्ठम् · उपशमप्रकरणम् · 67

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

एवं तौ कुशलप्रश्नं कृतवन्तौ परस्परम् ।

कालेनासाद्य विमलं ज्ञानं मोक्षं ततो गतौ

॥१॥

ततो वच्मि महाबाहो यथा ज्ञानेतरा गतिः ।

नास्ति संसारतरणे पाशबन्धस्य चेतसः

॥२॥

इदं भव्यमतेर्दुःखमनन्तमपि पेलवम् ।

कुखगस्याऽतरोऽम्भोधिः सर्पारेर्गोष्पदायते

॥३॥

देहातीता महात्मानश्चिन्मात्रस्वात्मनि स्थिताः ।

दूराद्देहं समीक्षन्ते प्रेक्षको जनतामिव

॥४॥

देहे दुःखातिसंक्षुब्धे का नः क्षतिरुपस्थिता ।

रथे विधुरिते भग्ने सारथेः केव खण्डना

॥५॥

मनसि क्षुब्धतां याते चित्त्वस्याङ्ग किमागतम् ।

तरङ्गजलसंताने वैपरीत्यं किमम्बुधेः

॥६॥

केऽभवन्पयसां हंसाः पयसामुपलाश्च के ।

काः शिलाः किल दारूणां के भोगाः परमात्मनः

॥७॥

संबन्धः क इव श्रीमन् शैलापरसमुद्रयोः ।

अन्तरे गिरिसंबाधे कश्च चित्तत्त्वबन्धयोः

॥८॥

अप्युत्सङ्गोह्यमानानि पद्मानि सरिदम्भसाम् ।

कानि नाम भवन्तीह शरीराणि तथात्मनः

॥९॥

संघट्टात्काष्ठपयसोर्यथोत्तुङ्गाः कणादयः ।

देहात्मनोः समायोगात्तथैताश्चित्तवृत्तयः

॥१०॥

संबन्धाद्दारुपयसां प्रतिबिम्बानि दारुणः ।

यथा पयसि लक्ष्यन्ते शरीराणि तथात्मनि

॥११॥

यथा दर्पणवीच्यादौ प्रतिबिम्बानि वस्तुतः ।

नासत्यानि च सत्यानि शरीराणि तथात्मनः

॥१२॥

दारुवार्युपलास्फोटे दुःखिता न यथा क्वचित् ।

संयुक्तेषु वियुक्तेषु न तथा पञ्चसु क्षतिः

॥१३॥

दारुसंश्लेषितात्तोयात्कम्पशब्दादयो यथा ।

प्रजायन्ते तथैवास्माद्देहाच्चित्परिबोधितात्

॥१४॥

न शुद्धजडयोरेताः संविदश्चिच्छरीरयोः ।

एता ह्यज्ञानमात्रस्य तस्मिन्नष्टे चिदेव नः

॥१५॥

यथा न कस्यचिद्वारिदारुश्लेषेऽनुभूतयः ।

तथा न कस्यचिद्देहदेहिसङ्गेऽनुभूतयः

॥१६॥

अज्ञस्यायं यथा दृष्टः संसारः सत्यतां गतः ।

न ज्ञस्यायं यथाभूतः संसारः सत्यतां गतः

॥१७॥

अन्तःसङ्गविहीनास्तु यथा स्नेहा दृषज्जले ।

तथासक्तमनोवृत्तौ बाह्यभोगानुभूतयः

॥१८॥

अन्तःसङ्गेन रहितो यद्वत्सलिलकाष्ठयोः ।

संबन्धस्तद्वदेवान्तरसङ्गो देहदेहिनोः

॥१९॥

अन्तःसङ्गेन रहितः संबन्धो जलकाष्ठयोः ।

स देहदेहिनोश्चैवं प्रतिबिम्बाम्भसोस्तथा

॥२०॥

स्थिता सर्वत्र संवित्तिः शुद्धा संवेद्यवर्जिता ।

द्वित्वोपलाञ्छिता त्वन्या दुःसंवित्तिर्न विद्यते

॥२१॥

अदुःखमेति दुःखित्वमन्तःसंवेदना स्फुटम् ।

स्फारो भवति वेतालो वेतालत्वेन भावितः

॥२२॥

असंबन्धोऽपि संबन्धो भवत्यन्तर्विनिश्चयात् ।

स्वप्नाङ्गनासुरतवत्स्थाणुवेतालसङ्गवत्

॥२३॥

असत्प्रायो हि संबन्धो यथा सलिलकाष्ठयोः ।

तथैव मिथ्यासंबन्धः शरीरपरमात्मनोः

॥२४॥

अन्तःसङ्गं विना नाम्बु काष्ठपातैः प्रगृह्यते ।

आत्माऽङ्गसङ्गरहितो देहदुःखैर्न दह्यते

॥२५॥

देहभावनयैवात्मा देहदुःखवशे स्थितः ।

तत्त्यागेन ततो मुक्तो भवतीति विदुर्बुधाः

॥२६॥

अन्तःसङ्गविहीनत्वाद्दुःखवन्त्यङ्ग नो यथा ।

पत्राम्बुमलदारूणि श्लिष्टान्यपि परस्परम्

॥२७॥

अन्तःसङ्गेन रहिता यान्ति निर्दुःखतां पराम् ।

श्लिष्टान्यपि तथैवात्मदेहेन्द्रियमनांस्यलम्

॥२८॥

अन्तःसङ्गो हि संसारे सर्वेषां राम देहिनाम् ।

जरामरणमोहानां तरूणां बीजकारणम्

॥२९॥

अन्तःसंसङ्गवाञ्जन्तुर्मग्नः संसारसागरे ।

अन्तःसंसक्तिमुक्तस्तु तीर्णः संसारसागरात्

॥३०॥

अन्तःसंसङ्गवच्चित्तं शतशाखमिवोच्यते ।

अन्तःसंसङ्गरहितं विलीनं चित्तमुच्यते

॥३१॥

भग्नस्फटिकवद्विद्धि मनः सक्तमपावनम् ।

अभग्नस्फटिकाभासमसक्तं विद्धि मे मनः

॥३२॥

असक्तं निर्मलं चित्तं मुक्तं संसार्यपि स्फुटम् ।

सक्तं तु दीर्घतपसा युक्तमप्यतिबन्धवत्

॥३३॥

अन्तःसक्तं मनो बद्धं मुक्तं सक्तिविवर्जितम् ।

अन्तःसंसक्तिरेवैकं कारणं बन्धमोक्षयोः

॥३४॥

अन्तःसंसक्तिमुक्तस्य कुर्वतोऽपि न कर्तृता ।

गुणदोषवती तोये दारुवाहननौर्यथा

॥३५॥

अन्तःसंसक्तितो जन्तोरकर्तुरपि कर्तृता ।

सुखदुःखवति स्वप्ने संभ्रमोन्मुखता यथा

॥३६॥

चित्ते कर्तरि कर्तृत्वमदेहस्यापि विद्यते ।

स्वप्नादाविव विक्षुब्धसुखदुःखदृशोपमम्

॥३७॥

अकर्तरि मनस्यन्तरकर्तृत्वं स्फुटं भवेत् ।

शून्यचित्तो हि पुरुषः कुर्वन्नपि न चेतति

॥३८॥

चेतसा कृतमाप्नोषि चेतसा न कृतं तु न ।

न क्वचित्कारणे देहो न च चित्तेन कर्तृता

॥३९॥

असंसक्तमकर्तेव कुर्वदेव मनो विदुः ।

न कर्मफलभोक्तृत्वमसक्तं प्रतिपद्यते

॥४०॥

ब्रह्महत्याश्वमेधाभ्यामसंसक्तो न लिप्यते ।

दूरस्थकान्तासंलीनमनाः कार्यैरिवाग्रगैः

॥४१॥

अन्तःसंसक्तिनिर्मुक्तो जीवो मधुरवृत्तिमान् ।

बहिःकुर्वन्नकुर्वन्वा कर्ता भोक्ता न हि क्वचित्

॥४२॥

अन्तःसंसक्तिमुक्तं यन्मनः स्यात्तदकर्तृकम् ।

तद्विमुक्तं प्रशान्तं तत्तद्युक्तं तदलेपकम्

॥४३॥

तस्मात्सर्वपदार्थानां श्लिष्टानां निश्चितं बहिः ।

सर्वदुःखकरीं क्रूरामन्तःसक्तिं विवर्जयेत्

॥४४॥

विरहितमलमन्तःसङ्गदोषेण चेतः

शममुपगतमाद्यं व्योमवन्निर्मलाभम् ।

सकलमलविमुक्तेनात्मनैकत्वमेति

स्थिरमणिनिभमम्भोवारिणी वारिनीले

॥४५॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे अन्तःसंसङ्गविचारो नाम सप्तषष्टितमः सर्गः ।। ६७ ।।