मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — उपशमप्रकरणम् — सर्गः ८१

3
योगवासिष्ठम् · उपशमप्रकरणम् · 81

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

एवं विचार्य बुद्ध्वान्तः पुनरित्थं विचार्यते ।

तत्त्वविद्भिर्महाबाहो ज्ञेय आत्मा महात्मभिः

॥१॥

आत्मैवेदं जगदिति सत्यं चित्तेन मार्जितम् ।

उत्थितं स्यात्कुतश्चित्तमहो चित्तमवस्तु यत्

॥२॥

अविद्यत्वादचित्तत्वान्मायात्वाच्चासदेव हि ।

ध्रुवं नास्त्येव वा चित्तं भ्रमादन्यत्खवृक्षवत्

॥३॥

सिद्धः स्थाणुपरिस्पन्दो नौगतस्य यथा शिशोः ।

अबुद्धस्य न बुद्धस्य तथा चित्तमसन्मयम्

॥४॥

मौर्ख्यमोहभ्रमे शान्ते चित्तं नोपलभामहे ।

चक्रारोहभ्रमस्यान्ते पर्वतस्पन्दनं यथा

॥५॥

एवं हि चित्तं नास्त्येव ब्रह्मैवास्ति तथात्मकम् ।

पदार्थभावनाश्चित्तात्तेनासत्या मयोज्झिताः

॥६॥

जातोऽस्मि शान्तसंदेहः स्थितोऽस्मि विगतज्वरः ।

तथा तिष्ठामि तिष्ठामि तथैव विगतैषणम्

॥७॥

चित्ताभावे परिक्षीणा बाल्यतृष्णादयो गुणाः ।

आलोकोपरमे चित्रा वर्णाख्या इव संविदः

॥८॥

मृतं चित्तं गता तृष्णा प्रक्षीणो मोहपञ्जरः ।

निरहंकारता जाता जाग्रत्यस्मिन्प्रबुद्धवान्

॥९॥

एकमेव जगच्छान्तं नानात्वं न सदित्यपि ।

किमन्यद्विमृशाम्यन्तः कथयैवालमेतया

॥१०॥

निराभासमनाद्यन्तं पदं पावनमागतः ।

सौम्यः सर्वगतः सूक्ष्मः स्थित आत्मास्मि शाश्वतः

॥११॥

यदस्ति यच्च नास्तीह चित्ताद्यात्माद्यवस्तु च ।

तत्खादच्छतरं शान्तमनन्ताग्राह्यमाततम्

॥१२॥

चित्तं भवतु मा वान्तर्म्रियतां स्थितिमेतु वा ।

को विचारणयार्थो में चिरं साम्योदितात्मनः

॥१३॥

विचाराकारको मौर्ख्यादहमासं मितस्थितिः ।

विचारेणामिताकारः क्व नामाहं विचारकः

॥१४॥

मृतेऽपि मनसीयं में विकल्पश्रीर्निरर्थिका ।

मनोवेतालवृत्त्यर्थं किमर्थमुपजायते

॥१५॥

तामिमां प्रजहाम्यन्तः संकल्पकलनामिति ।

निर्णीयोमिति शान्तात्मा तिष्ठाम्यात्मनि मौनवत्

॥१६॥

अश्नन्गच्छन्स्वपंस्तिष्ठन्निति राघव चेतसा ।

सर्वत्र प्रज्ञया तज्ज्ञः प्रत्यहं प्रविचारयेत्

॥१७॥

प्रविचार्य स्वसंस्थेन स्वस्थेन स्वेन चेतसा ।

तिष्ठन्ति विगतोद्वेगं सन्तः प्रकृतकर्मसु

॥१८॥

विगतमानमदा मुदिताशयाः

शरदुपोढशशांकसमत्विषः ।

प्रकृतसंव्यवहारविहारिण-

स्त्विह सुखं विहरन्ति महाधियः

॥१९॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे चित्तासत्ताप्रतिपादनं नामैकाशीतितमः सर्गः ।।८१।।