मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — उपशमप्रकरणम् — सर्गः ८६

3
योगवासिष्ठम् · उपशमप्रकरणम् · 86

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

दिनान्ते स समाधातुं पुनरेव मनो मुनिः ।

विवेश कांचिद्विततां विज्ञातां विन्ध्यकन्दराम्

॥१॥

तदेवात्मानुसंधानमत्यजन्सममिन्द्रियैः ।

चेतसा कलयामास दृष्टलोकपरावरः

॥२॥

पूर्वमेवेन्द्रियगणो मया परिहृतः स्फुटम् ।

इदानीं चिन्तया नार्थः पुनर्विततया मम

॥३॥

अस्तिनास्तीतिकलनां भङ्क्त्वा मृद्वीं लतामिव ।

शेषं तु बद्धसंस्थानस्तिष्ठाम्यचलश्रृङ्गवत्

॥४॥

उदितोऽस्तं गत इव स्वस्तं गत इवोदितः ।

समः समरसाभासस्तिष्ठामि स्वच्छतां गतः

॥५॥

प्रबुद्धोऽपि सुषुप्तस्थः सुषुप्तस्थः प्रबुद्धवत् ।

तुर्यमालम्ब्य कायान्तस्तिष्ठामि स्तम्भितस्थितिः

॥६॥

स्थितः स्थाणुरिवैकान्ते स्वान्तान्ते सर्वतः स्थिते ।

सत्त्वसामान्यसाम्ये हि तिष्ठाम्यपगतामयः

॥७॥

इति संचिन्त्य स ध्याने पुनस्तस्थौ दिनानि षट् ।

ततः प्रबोधमापन्नः क्षणसुप्त इवाध्वगः

॥८॥

ततः सिद्धः स भगवान्वीतहव्यो महातपाः ।

विजहार चिरं कालं जीवन्मुक्ततया तदा

॥९॥

वस्तु नाभिननन्दासौ निनिन्द न कदाचन ।

न जगाम तथोद्वेगं न च हर्षमवाप सः

॥१०॥

गच्छतस्तिष्ठतश्चैव तस्यैवमभवद्धृदि ।

विनोदाय विचित्तस्य कथा स्वमनसा सह

॥१२॥

अव्ययेन्द्रियवर्गेश मनः शमवता त्वया ।

पश्यानन्दसुखं कीदृग्विधमासादितं ततम्

॥१२॥

एषैवाविरतं तस्मान्नीरागैव दशा त्वया ।

अवलम्ब्या परित्याज्यं चापलं चलतां वर

॥१३॥

भो भो इन्द्रियचौरा हे हताशा हतनामकाः ।

युष्माकं नायमात्मास्ति न भवन्तस्तथात्मनः

॥१४॥

व्रजतां वो विनाशांशमाशा वो विफलीकृताः ।

न समर्थाः समाक्रान्तौ भवन्तो भङ्गुराश्रयाः

॥१५॥

वयमात्मेति यैषा वो बभूव किल वासना ।

तत्त्वविस्मृतिजाता हि दृष्टरज्जुभुजङ्गवत्

॥१६॥

अनात्मन्यात्मता सैषा सैषा वस्तुन्यवस्तुता ।

अविचारेण वै जाता विचारेण क्षयं गता

॥१७॥

भवन्तोऽन्ये वयं चान्ये ब्रह्मान्यत्कर्तृतापरा ।

अन्यो भोक्तान्य आदत्ते को दोषः कस्य कीदृशः

॥१८॥

वनेभ्यो दारु संजातं रज्जवो वेणुचर्मणः ।

वासी चायःफलान्येव तक्षा ग्रासार्थमुद्यतः

॥१९॥

इत्थं यथेह सामग्र्या स्वशक्तिस्थपदार्थया ।

संपन्ना काकतालीया दृढा वरगृहाकृतिः

॥२०॥

संपन्नाः काकतालीयात्स्वशक्तिनियतेन्द्रियाः ।

तथैव कलिका लोलं केव कस्यात्र खण्डना

॥२१॥

विस्मृतिर्विस्मृता दूरं स्मृतिः स्फुटमनुस्मृता ।

सत्सज्जातमसच्चासत्क्षतं क्षीणं स्थितं स्थितम्

॥२२॥

एवंविधेन भगवान्विचारेण महातपाः ।

सोऽतिष्ठन्मुनिशार्दूलो बहून्वर्षगणानिह

॥२३॥

अपुनर्भवनायैव यत्र चिन्तान्तमागता ।

मूढता च सुदूरस्था तत्रासाववसत्सदा

॥२४॥

यथाभूतपदार्थौघदर्शनोत्थमनर्थकम् ।

ध्यानाश्वासनमालम्ब्य सोऽवसत्सुखगः सदा

॥२५॥

हेयादेयसमासङ्गत्यागादानदृशोः क्षये ।

वीतहव्यमुनेरासीदिच्छानिच्छातिगं मनः

॥२६॥

विदेहकेवलीभावे सीमन्ते जन्मकर्मणाम् ।

संसारसङ्गसंत्यागरसासवनवेच्छया

॥२७॥

विवेश स तथैवान्ते सह्याद्रौ हेमकन्दरम् ।

अपुनःसङ्गमायाशु जगज्जालमवेक्ष्य सः

॥२८॥

बद्धपद्मासनः स्थित्वा तत्रोवाचात्मनात्मनि ।

राग नीरागतां गच्छ द्वेष निर्द्वेषतां व्रज

॥२९॥

भवद्भ्यां सुचिरं कालमिह प्रक्रीडितं मया ।

भोगा नमोस्तु युष्मभ्यं जन्म कोटिशतान्यहम्

॥३०॥

भवद्भिर्लालितो लोके लालकैरिव बालकः ।

इमामपि परां पुण्यां निर्वाणपदवीमहम्

॥३१॥

येन विस्मारितस्तस्मै सुखायास्तु नमो नमः ।

त्वदुत्तप्तेन हे दुःख मयात्मान्विष्ट आदरात्

॥३२॥

तस्मात्त्वदुपदिष्टोऽयं मार्गो मम नमोऽस्तु ते ।

त्वत्प्रसादेन लब्धेयं शीतला पदवी मया

॥३३॥

दुःखनाम्ने दुःखतत्त्व सुखदात्मन्नमोस्तु ते ।

कल्याणमस्तु ते मित्र संसारासारजीवित

॥३४॥

देह स्थितिरियं यामो वयमात्मीयमास्पदम् ।

प्रयोजनानां जन्तूनामहो नु विषमा गतिः

॥३५॥

देहेनापि वियुज्येऽहं भूत्वा जन्मशतान्यपि ।

मित्रकाय मया यत्त्वं त्यज्यसे चिरबान्धवः

॥३६॥

त्वयैवात्मन्युपानीता सात्मज्ञानवशात्क्षतिः ।

अधिगम्यात्मविज्ञानमात्मनाशः कृतस्त्वया

॥३७॥

देह नान्येन भग्नोऽसि त्वयैवैतदुपासितम् ।

एकाकिन्यापि शुष्यन्त्या प्रशान्ते मयि दीनया

॥३८॥

त्वया दुःखं न कर्तव्यं मातस्तृष्णे व्रजाम्यहम् ।

क्षन्तव्याः काम भगवन्विपरीतापराधजाः

॥३९॥

दोषा उपशमैकान्तं व्रजाम्यादिश मङ्गलम् ।

चिराच्चिराय चेदानीमम्ब तृष्णे किलावयोः

॥४०॥

वियोगो योगदोषेण प्रणामोऽयं स पश्चिमः ।

नमः सुकृतदेवाय भवतेऽस्तु त्वया पुरा

॥४१॥

नरकेभ्यः समुत्तार्य स्वर्गेऽहमभियोजितः ।

कुकार्यक्षेत्ररूढाय नरकस्कन्धवाहिने

॥४२॥

शासनापुष्पभाराय नमो दुष्कृतशाखिने ।

येन सार्धं चिरं बह्व्यो भुक्ताः प्राकृतयोनयः

॥४३॥

अद्यप्रभृत्यदृश्याय तस्मै मोहात्मने नमः ।।

प्रध्वनद्वंशमधुरवचसे पत्रवाससे

॥४४॥

नमो गुहातपस्विन्यै वयस्यायै समाधिषु ।

संसाराध्वनि खिन्नस्य त्वं ममाश्वासकारणम्

॥४५॥

आसीर्वयस्या सुस्निग्धा सर्वलोभापहारिणी ।

सर्वसंकटखिन्नेन दोषेभ्यो द्रवता मया

॥४६॥

त्वमेका शोकनाशार्थमाश्रिता परमा सखी ।

संकटावटकुञ्जेषु हस्तालम्बनदायिने

॥४७॥

वार्धकैकान्तसुहृदे दण्डकाष्ठाय ते नमः ।

अस्थिपञ्जरमात्मीयं तथा रक्तान्त्रतन्तुकम्

॥४८॥

एतावन्मात्रसारैकं गृहीत्वा गच्छ देहक ।

पयःक्षोभप्रकारेभ्यः स्नानेभ्योऽपि नमोस्तु ते

॥४९॥

नमोस्तु व्यवहारेभ्यः संसृतिभ्यो नमोस्तु ते ।

एते भवन्तः सहजाः प्राक्तनाः सुहृदो मया

॥५०॥

क्रमेणाद्योत्कृताः प्राणाः स्वस्ति वोऽस्तु व्रजाम्यहम् ।

भवद्भिः सह चित्रासु मया बह्वीषु योनिषु

॥५१॥

विश्रान्तं गिरिकुञ्जेषु श्रान्तं लोकान्तरेषु च ।

क्रीडितं पुरपीठान्तरुषितं पर्वतेषु च

॥५२॥

स्थितं कार्यविलासेषु प्रस्थितं विविधाध्वसु ।

न तदस्ति जगत्कोशे भवद्भिः सह यन्मया

॥५३॥

न कृतं न हृतं यातं न दत्तं नावलम्बितम् ।

इदानीं स्वां दिशं यान्तु भवन्तो याम्यहं प्रियाः

॥५४॥

सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः ।

संयोगा विप्रयोगान्ताः सर्वे संसारवर्त्मनि

॥५५॥

अयं चाक्षुष आलोको विशत्वादित्यमण्डलम् ।।

विशन्तु वनपुष्पाणि सौगन्ध्यानन्दसंविदः

॥५६॥

प्राणानिलस्तथा स्पन्दं विशत्वद्य प्रभञ्जनम् ।

विशन्त्वाकाशकुहरं शब्दश्रवणशक्तयः

॥५७॥

इन्दुमण्डलमायान्तु रसनारसशक्तयः ।

निर्मन्दर इवाम्भोधिर्गतार्क इव वासरः

॥५८॥

शरदीव घनः स्वैरं प्राप्तः कल्पान्तसर्गवत् ।

ओंकारान्ते स्वमननं प्रशाम्याम्यात्मनात्मनि ।

दग्धेन्धन इवार्चिष्मान्निःस्नेह इव दीपकः

॥५९॥

व्यपगताखिलकार्यपरम्परः

सकलदृश्यदशातिगतस्थितिः ।

प्रणवशान्त्यनुसंसृतिशान्तधी-

र्विगतमोहमलोऽयमहं स्थितः

॥६०॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे इन्द्रियवर्गनिराकरणोपदेशो नाम षडशीतितमः सर्गः ।। ८६