मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — उपशमप्रकरणम् — सर्गः ९२

3
योगवासिष्ठम् · उपशमप्रकरणम् · 92

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीराम उवाच ।

एतानि तानि प्रोक्तानि त्वया बीजानि मानद ।

कतमस्य प्रयोगेण शीघ्रं तत्प्राप्यते पदम्

॥१॥

श्रीवसिष्ठ उवाच ।

एतेषां दुःखबीजानां प्रोक्तं यद्यन्मयोत्तरम् ।

तस्य तस्य प्रयोगेण शीघ्रमासाद्यते पदम्

॥२॥

सत्तासामान्यकोटिस्थे द्रागित्येव पदे यदि ।

पौरुषेण प्रयत्नेन बलात्संत्यज्य वासनाम्

॥३॥

स्थितिं बध्नासि तत्त्वज्ञ क्षणमप्यक्षयात्मिकाम् ।

क्षणेऽस्मिन्नेव तत्साधु पदमासादयस्यलम्

॥४॥

सत्तासामान्यरूपे वा करोषि स्थितिमङ्ग चेत् ।

तत्किंचिदधिकेनेह यत्नेनाप्नोषि तत्पदम्

॥५॥

संवित्तत्त्वे कृतध्यानो यदि तिष्ठसि चानघ ।

तद्यत्नेनाधिकेनोच्चैरासादयसि तत्पदम्

॥६॥

संवेद्ये केवले ध्यानं न संभवति राघव ।

सर्वत्र संभवादस्याः संवित्तेरेव सर्वदा

॥७॥

यच्चिन्तयसि यद्यासि यत्तिष्ठसि करोषि च ।

तत्र तत्र स्थिता संवित्संविदेव तदेव सा

॥८॥

वासनासंपरित्यागे यदि यत्नं करोषि च ।

तत्ते शिथिलतां यान्ति सर्वाधिव्याधयः क्षणात्

॥९॥

पूर्वेभ्यस्तु प्रयत्नेभ्यो विषमोऽयं हि संस्मृतः ।

दुःसाध्यो वासनात्यागः सुमेरून्मूलनादपि

॥१०॥

यावद्विलीनं न मनो न तावद्वासनाक्षयः ।

न क्षीणा वासना यावच्चित्तं तावन्न शाम्यति

॥११॥

यावन्न तत्त्वविज्ञानं तावच्चित्तशमः कुतः ।

यावन्न चित्तोपशमो न तावत्तत्त्ववेदनम्

॥१२॥

यावन्न वासनानाशस्तावत्तत्त्वागमः कुतः ।

यावन्न तत्त्वसंप्राप्तिर्न तावद्वासनाक्षयः

॥१३॥

तत्त्वज्ञानं मनोनाशो वासनाक्षय एव च ।

मिथः कारणतां गत्वादुःसाध्यानि स्थितान्यतः

॥१८॥

तस्माद्राघव यत्नेन पौरुषेण विवेकिना ।

भोगेच्छां दूरतस्त्यक्त्वा त्रयमेतत्समाश्रयेत्

॥१५॥

सर्वथा ते समं यावन्न स्वभ्यस्ता मुहुर्मुहुः ।

तावन्न पदसंप्राप्तिर्भवत्यपि समाशतैः

॥१६॥

वासनाक्षयविज्ञानमनोनाशा महामते ।

समकालं चिराभ्यस्ता भवन्ति फलदा मुने

॥१७॥

एकैकशो निषेव्यन्ते यद्येते चिरमप्यलम् ।

तन्न सिद्धिं प्रयच्छन्ति मन्त्राः संकीलिता इव

॥१८॥

चिरकालोपरचिता अप्येते सुधियापि च ।

एकशः परमभ्येतुं न शक्ताः सैनिका इव

॥१९॥

सममुद्योगमानीताः सन्त एते हि धीमता ।

संसाराब्धिं निकृन्तन्ति जलान्यद्रितटानिव

॥२०॥

वासनाक्षयविज्ञानमनोनाशाः प्रयत्नतः ।

समं सेव्यास्तव चिरं तेन तात न लिप्यसे

॥२१॥

त्रिभिरेतैश्चिराभ्यस्तैर्हृदयग्रन्थयो दृढाः ।

निःशेषमेव त्रुट्यन्ति विसच्छेदाद्गुणा इव

॥२२॥

जन्मान्तरशताभ्यस्ता राम संसारसंस्थितिः ।

सा चिराभ्यासयोगेन विना न क्षीयते क्वचित्

॥२३॥

गच्छन्शृण्वन्स्पृशञ्जिघ्रंस्तिष्ठञ्जाग्रत्स्वपंस्तथा ।

श्रेयसे परमायास्य त्रयस्याभ्यासवान्भव

॥२४॥

वासनासंपरित्यागसमं प्राणनिरोधनम् ।

विदुस्तत्त्वविदस्तस्मात्तदाप्येवं समाहरेत्

॥२५॥

वासनासंपरित्यागाच्चित्तं गच्छत्यचित्तताम् ।

प्राणस्पन्दनिरोधाच्च यथेच्छसि तथा कुरु

॥२६॥

प्राणायामचिराभ्यासैर्युक्त्या च गुरुदत्तया ।

आसनाशनयोगेन प्राणस्पन्दो निरुद्ध्यते

॥२७॥

यथाभूतार्थदर्शित्वाद्वासना न प्रवर्तते ।

आदावन्ते च वस्तूनामविसंवादि यत्स्थितम्

॥२८॥

रूपं तद्दर्शनं ज्ञानं क्षीयते तेन वासना ।

निःसङ्गव्यवहारित्वाद्भवभावनवर्जनात्

॥२९॥

शरीरनाशदर्शित्वाद्वासना न प्रवर्तते ।

वासनाविभवे नष्टे न चित्तं संप्रवर्तते

॥३०॥

संशान्ते पवनस्पन्दे यथा पांसुर्नभस्तले ।

यः प्राणपवनस्पन्दश्चित्तस्पन्दः स एव हि

॥३१॥

तस्माज्जगति जायन्ते पांसवोऽवकरादिव ।

प्राणस्पन्दजये यत्नः कर्तव्यो धीमतोच्चकैः

॥३२॥

उपविश्योपविश्यैकचित्तकेन मुहुर्मुहुः ।

अथवैनं क्रमं त्यक्त्वा चित्ताक्रमणमेव चेत्

॥३३॥

रोचते तत्तदाप्नोषि कालेन बहुना पदम् ।

न शक्यते मनो जेतुं विना युक्तिमनिन्दिताम्

॥३४॥

अङ्कुशेन विना मत्तं यथा दुष्टं मतङ्गजम् ।

अध्यात्मविद्याधिगमः साधुसङ्गम एव च

॥३५॥

वासनासंपरित्यागः प्राणस्पन्दनिरोधनम् ।

एतास्ता युक्तयः पुष्टाः सन्ति चित्तजये किल

॥३६॥

याभिस्तज्जीयते क्षिप्रं धाराभिरिव भूरजः ।

सतीषु युक्तिष्वेतासु हठान्नियमयन्ति ये

॥३७॥

चेतस्ते दीपमुत्सृज्य विनिघ्नन्ति तमोऽञ्जनैः ।

विमूढाः कर्तुमुद्युक्ता ये हठाच्चेतसो जयम्

॥३८॥

ते निबध्नन्ति नागेन्द्रमुन्मत्तं बिसतन्तुभिः ।

चित्तं चित्तस्य वाऽदूरं संस्थितं स्वशरीरकम्

॥३९॥

साधयन्ति समुत्सृज्य युक्तिं ये तान्हठान्विदुः ।

भयाद्भयमुपायान्ति क्लेशात्क्लेशं व्रजन्ति ते

॥४०॥

निर्धृतिं नाधिगच्छन्ति दुर्भगा इव जन्तवः ।

भ्रमन्ति गिरिकूटेषु फलपल्लवभोजनाः

॥४१॥

मुग्धमुग्धधियो भीता वराका हरिणा इव ।

मतिरालूनशीर्णाङ्गी तदीया पेलवाङ्गिका

॥४२॥

न क्वचिद्याति विश्वासं मृगी ग्रामगता यथा ।

कल्लोलकलितं चेतस्तेषां जल इवाऽहिते

॥४३॥

प्रोह्यते प्रपतद्दूरं तृणं गिरिनदीष्विव ।

कालं यज्ञतपोदानतीर्थदेवार्चनभ्रमैः

॥४४॥

चिरमाधिशतोपेताः क्षपयन्ति मृगा इव ।

आत्मतत्त्वं विधिवशात्कदाचित्केचिदेव ते

॥४५॥

दुःखदोषशतादग्धा विदन्ति न विदन्ति वा ।

आगमापायिनोऽनित्या नरकस्वर्गमानुषैः

॥४६॥

पातोत्पातकराकाराः क्षीयन्ते कन्दुका इव ।

इतो गच्छन्ति नरकं ततः स्वर्गमिहैव च

॥४७॥

आवृत्तिभिर्निवर्तन्ते सरसीव तरङ्गकाः ।

तस्माच्चैतां परित्यज्य दुर्दृष्टिं रघुनन्दन

॥४८॥

शुद्धां संविदमाश्रित्य वीतरागः स्थिरो भव ।

ज्ञानवानेव सुखवान्ज्ञानवानेव जीवति ।

ज्ञानवानेव बलवांस्तस्माज्ज्ञानमयो भव

॥४९॥

संवेद्यवर्जितमनुत्तममाद्यमेकं

संवित्पदं विकलनं कलयन्महात्मन् ।

हृद्येव तिष्ठ कलनारहितः क्रियां तु

कुर्वन्नकर्तृपदमेत्य शमोदितश्रीः

॥५०॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे संसृतिनिराकरणक्रमयोगोपदेशो नाम द्विनवतितमः सर्गः ९२