मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — उपशमप्रकरणम् — सर्गः ९३

3
योगवासिष्ठम् · उपशमप्रकरणम् · 93

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

मनागपि विचारेण चेतसः स्वस्य निग्रहः ।

मनागपि कृतो येन तेनाप्तं जन्मनः फलम्

॥१॥

विचारकणिका यैषा हृदि स्फुरति पेलवा ।

एषैवाभ्यासयोगेन प्रयाति शतशाखताम्

॥२॥

किंचित्प्रौढविचारं तु नरं वैराग्यपूर्वकम् ।

संश्रयन्ति गुणाः शुद्धाः सरः पूर्णमिवाण्डजः

॥३॥

सम्यग्विचारिणं प्राज्ञं यथाभूतावलोकिनम् ।

आसादयन्त्यपि स्फारा नाविद्याविभवा भृशम्

॥४॥

किं कुर्वन्तीह विषया मानस्यो वृत्तयस्तथा ।

आधयो व्याधयो वापि सम्यग्दर्शनसन्मतेः

॥५॥

क्व भ्रमत्पवनापूरास्तडित्पटलपाटलाः ।

पुष्करावर्तजलदा गृहीता बालमुष्टिभिः

॥६॥

क्व नभोमध्यसंस्थेन्दुर्मुग्धैर्मणिसमुद्गकैः ।

मुग्धयाऽङ्गनया बद्धो मुग्धेन्दीवरशङ्कया

॥७॥

क्व कटप्रोच्चलद्भृङ्गमण्डलोत्पलशेखराः ।

मुग्धस्त्रीश्वासमधुरैर्मशकैर्मथिता गजाः

॥८॥

क्वेभमुक्ताफलोल्लासलसत्सन्नखपञ्जराः ।

सिंहाः समरसंरब्धा हरिणैः प्रविमर्दिताः

॥९॥

क्व विषोल्लासनिर्यासदग्धोन्नतवनद्रुमाः ।

क्षुधिताजगराः क्षुब्धैर्निगीर्णा बालदर्दुरैः

॥१०॥

क्व प्राप्तभूतिको धीरो ज्ञातज्ञेयो विवेकवान् ।

आक्रान्तः किल विक्रान्तोविषयेन्द्रियदस्युभिः

॥११॥

विचारधियमप्रौढां हरन्ति विषयारयः ।

प्रचण्डपवनामृद्वीं कृत्तवृन्तां लतामिव

॥१२॥

न विवेकलवं प्रौढं भंक्तुं शक्ता दुराशयाः ।

कल्पक्षोभमहाधीरं शैलं मन्दानिला इव

॥१३॥

अगृहीतमहापीठं विचारकुसुमद्रुमम् ।

चिन्तावात्याविधुन्वन्ति नास्थिरस्थितिसुस्थितम्

॥१४॥

गच्छतस्तिष्ठतो वापि जाग्रतः स्वपतोऽपि वा ।

न विचारमयं चेतो यस्यासौ मृत उच्यते

॥१५॥

किमिदं स्याज्जगत्किं स्याद्देहमित्यनिशं शनैः ।

विचारयाध्यात्मदृशा स्वयं वा सज्जनैः सह

॥१६॥

अन्धकारहरेणाशु विचारेण परं पदम् ।

दृश्यते विमलं वस्तु प्रदीपेनेव भास्वता

॥१७॥

ज्ञानेन सर्वदुःखानां विनाश उपजायते ।

कृतालोकविलासेन तमसामिव भानुना

॥१८॥

ज्ञाने प्रकटतां याते ज्ञेयं व्ययमुदेत्यलम् ।

रवावभ्युदिते भूमावालोक इव निर्मलः

॥१९॥

येन शास्त्रविचारेण ब्रह्मतत्त्वं प्रबुद्ध्यते ।

तद्भानमुच्यते ज्ञेयादभिन्नमिव संस्थितम्

॥२०॥

विचारोत्थात्मविज्ञानं ज्ञानमंग विदुर्बुधाः ।

ज्ञेयं तस्यान्तरेवास्ति माधुर्यं पयसो यथा

॥२१॥

सम्यग्ज्ञानसमालोकः पुमान्ज्ञेयमयः स्वयम्

भवत्यापीतमैरेयः सदा मदमयो यथा

॥२२॥

समं स्वरूपममलं ज्ञेयं ब्रह्म परं विदुः ।

ज्ञानाभिगममात्रेण तत्स्वयं संप्रसीदति

॥२३॥

ज्ञानवानुदितानन्दो न क्वचित्परिमज्जति ।

जीवन्मुक्तो गतासङ्गः सम्राडात्मेव तिष्ठति

॥२४॥

ज्ञानवान्हृद्यशब्देषु वीणावंशरवादिषु ।

कामिन्याः कान्तगीतेषु संभोगमलिनेषु च

॥२५॥

वसन्तमदमत्तानां षट्पदानां स्वनेषु च ।

प्रावृट्प्रसरपुष्पेषु जलदस्तनितेषु च

॥२६॥

उत्ताण्डवशिखण्डेषु केकाकलरवेषु च ।।

रणिताम्भोदखण्डेषु सारसक्वणितेषु च

॥२७॥

कर्तर्यादिकरान्तेषु गम्भीरमुरजेषु च ।

ततावनद्धसुषिरचित्रवाद्यस्वनेषु च

॥२८॥

केषुचिन्न निबध्नाति रूक्षेषु मधुरेषु च ।

रणितेषु रतिं राम पद्मेष्विव निशाकरः

॥२९॥

ज्ञानवान्बालकदलीस्तम्भपल्लवपालिषु ।

सुरगन्धर्वकन्याङ्गलतानन्दनकेलिषु

॥३०॥

केषु क्वचिन्न बध्नाति स्वायत्तेष्वप्यसक्तधीः ।

राम स्पर्शरतिं धीरो हंसो मरुमहीष्विव

॥३१॥

ज्ञानवान्पिण्डखर्जूरकदम्बपनसादिषु ।

मृद्वीकौर्वारुकाक्षोटबिम्बजम्बीरजातिषु

॥३२॥

मदिरामधुमैरेयमाध्वीकासवभूमिषु ।

दधिक्षीरघृतामिक्षानवनीतौदनादिषु

॥३३॥

षड्रसेषु विचित्रेषु लेह्यपेयविलासिषु ।

फलेष्वन्येषु मूलेषु शाकेष्वप्यामिषेषु च

॥३४॥

केषुचिन्नानुबध्नाति तृप्तमूर्तिरसक्तधीः ।

आस्वादनरतिर्विप्रः स्वशरीरलवेष्विव

॥३५॥

ज्ञानवान्यमचन्द्रेन्द्ररुद्रार्कानिलसद्मसु ।

मेरुमन्दरकैलाससह्यदर्दुरसानुषु

॥३६॥

कौशेयदलजालेषु चन्द्रबिम्बकलादिषु ।

कल्पपादपकुञ्जेषु देहशोभाविलासिषु

॥३७॥

रत्नकाञ्चनकुड्येषु मुक्तामणिमयेषु च ।

तिलोत्तमोर्वशीरम्भामेनकाङ्गलतासु च

॥३८॥

केषुचिद्दर्शनं श्रीमान्नाभिवाञ्छत्यसक्तधीः ।

परिपूर्णमना मानी मौनी शत्रुषु चाचलः

॥३९॥

ज्ञानवान्कुन्दमन्दारकह्लारकमलादिषु ।

कुमुदोत्पलपुन्नागकेतक्यगुरुजातिषु

॥४०॥

कदम्बचूतजम्ब्वाम्रकिंशुकाशोकशाखिषु ।

जपातिमुक्तसौवीरबिम्बपाटलजातिषु

॥४१॥

चन्दनागुरुकर्पूरलाक्षामृगमदेषु च ।

काश्मीरजलवङ्गैलाकङ्कोलतगरादिषु

॥४२॥

केषुचिन्न निबध्नाति सौगन्ध्यरतिमेकधीः ।

समबुद्धिरविक्षोभो मद्यामोदेष्विव द्विजः

॥४३॥

अब्धौ गुडगुडारावे प्रतिश्रुत्खस्वने गिरौ ।

निनादे च मृगेन्द्राणां न क्षुभ्यति मनागपि

॥४४॥

द्विषद्भेरीनिनादेन पटहारणितेन च ।

कटुकोदण्डघोषेण न विभेति मनागपि

॥४५॥

मत्तवारणबृंहासु वेतालकलनासु च ।

पिशाचरक्षःक्ष्वेडासु मनागपि न कम्पते

॥४६॥

अशनिस्वनघोषेण नगस्फोटरवेण च ।

ऐरावणनिनादेन सम्यग्ध्यानी न कम्पते

॥४७॥

वहत्क्रकचकाषेण सितासिदलनेन च ।

शराशनिनिपातेन कम्पते न स्वरूपतः

॥४८॥

नानन्दमेत्युपवने न खेदमुपगच्छति ।

न खेदमेति मरुषु नानन्दमुपगच्छति

॥४९॥

पूताङ्गारसमाकल्पसैकतेष्वपि धन्वसु ।

पुष्पप्रकरसंछन्नमृदुशाद्वलभूमिषु

॥५०॥

क्षुरधारासु तीक्ष्णासु शय्यासु च नवोत्पलैः ।

उन्नताचलदेशेषु कूपकोशतलेषु च

॥५१॥

शिलास्वर्कांशुरूक्षासु मृद्वीषु ललनासु च ।

संपत्स्वापत्सु चोग्रासु रमणेषूत्सवेषु च

॥५२॥

विहरन्नपि नोद्वेगी नानन्दमुपगच्छति ।

अन्तर्मुक्तमना नित्यं कर्मकर्तेव तिष्ठति

॥५३॥

अयःसंकुचिताङ्गासु नरकारण्यभूमिषु ।

परस्परेरितानन्तकुन्ततोमरवृष्टिषु

॥५४॥

न बिभेति न वादत्ते वैवश्यं न च दीनताम् ।

समः स्वस्थमना मौनी धीरस्तिष्ठति शैलवत्

॥५५॥

अपवित्रमपथ्यं च विषसिक्तं मलाद्यपि ।

भुक्त्वा जरयति क्षिप्रं क्लिन्नं नष्टं च मृष्टवत्

॥५६॥

बिम्बप्रतिविषाकल्कक्षीरेक्षुसलिलान्धसाम् ।

असक्तबुद्धिस्तत्त्वज्ञो भवत्यास्वादने समः

॥५७॥

मैरेयमदिराक्षीररक्तमेदोरसासवैः ।

रूक्षास्थितृणकेशान्तैर्न हृष्यति न कुप्यति

॥५८॥

जीवितस्यापि हर्तारं दातारं चैकरूपया ।

दृशा प्रसादमाधुर्यशालिन्या परिपश्यति

॥५९॥

स्थिरास्थिरशरीरेषु रम्यारम्येषु वस्तुषु ।

न हृष्यति ग्लायति वा सदा समतयेद्धया

॥६०॥

मुक्तास्थत्वादनास्थेयरूपत्वाज्जगतः स्थितौ ।

नूनं विदितवेद्यत्वान्नीरागत्वात्स्वचेतसः

॥६१॥

न कस्यचिन्नो कदाचिदक्षस्य विषयस्थितौ ।

ददाति प्रसरं साधुराधिप्रोज्झितया धिया

॥६२॥

अतत्त्वज्ञमविश्रान्तमलब्धात्मानमस्थितम् ।

निगिरन्तीन्द्रियाण्याशु हरिणा इव पल्लवम्

॥६३॥

उह्यमानं भवाम्भोधौ वासनावीचिवेल्लितम् ।

निगिरन्तीन्द्रियग्राहा महाक्रन्दपरायणम्

॥६४॥

विचारिणं भव्यपदं विश्रान्तधियमात्मनि ।

न हरन्ति विकल्पौघा जलौघा इव पर्वतम्

॥६५॥

सर्वसंकल्पसीमान्ते विश्रान्ता ये परे पदे ।

तेषां लब्धस्वरूपाणां मेरुरेव तृणायते

॥६६॥

जगज्जरत्तृणलवो विषं चामृतमेव च ।

क्षणः कल्पसहस्रं च सममाततचेतसाम्

॥६७॥

संविन्मात्रं जगदिति मत्वा मुदितबुद्धयः ।

संविन्मयत्वादन्तस्थजगत्का विहरन्त्यमी

॥६८॥

संविन्मात्रपरिस्पन्दे जागते वस्तुपञ्जरे ।

किं हेयं किमुपादेयमिह तत्त्वविदां मतम्

॥६९॥

संविदेवेदमखिलं भ्रान्तिमन्यां त्यजानघ ।

संविन्मयवपुः स्फारं किं जहाति किमीहते

॥७०॥

यदेतज्जायते भूमेर्भविष्यत्पल्लवाङ्कुरम् ।

तत्संविदेव प्रथते तथा तत्त्वाङ्कुरस्थितम्

॥७१॥

आदावन्ते च यन्नास्ति वर्तमानेऽपि तस्य च ।

कंचित्काललवं दृष्टा सत्तासौ संविदो भ्रमः

॥७२॥

इति मत्वा धियं त्यक्त्वा भावाभावानुपातिनीम् ।

निःसङ्गसंविद्भारूपो भव भावान्तमागतः

॥७३॥

कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि ।

कर्म कुर्वन्नकुर्वन्वा निःसङ्गः सन्न लिप्यते

॥७४॥

गतसङ्गेन मनसा कुर्वन्नपि न लिप्यते ।

सुखदुःखैर्महाबाहो मनोरथदशास्विव

॥७५॥

गतसङ्गां मतिं कुर्वन्कुर्वन्नप्यङ्गयष्टिभिः ।

न लिप्यते सुखैर्दुःखैर्मनोरथदशास्विव

॥७६॥

गतसङ्गमना दृष्ट्या पश्यन्नपि न पश्यति ।

एतदन्यस्थचित्तत्वाद्वालेनाप्यनुभूयते

॥७७॥

गतसङ्गमना जन्तुः पश्यन्नेव न पश्यति ।

न श्रृणोत्यपि श्रृण्वंश्च न स्पृशत्यपि च स्पृशन्

॥७८॥

न जिघ्रत्यपि संजिघ्रन्नुन्मिषन्निमिषन्नपि ।

पदार्थे च पतत्येव बलात्पतति नाप्ययम्

॥७९॥

देशान्तरस्थचेतोभिरेतदात्मगृहस्थितैः ।

अप्रौढमतिभिः साधु मूर्खैरप्यनुभूयते

॥८०॥

सङ्गः कारणमर्थानां सङ्गः संसारकारणम् ।

सङ्गः कारणमाशानां सङ्गः कारणमापदाम्

॥८१॥

सङ्गत्यागं विदुर्मोक्षं सङ्गत्यागादजन्मता ।

सङ्गं त्यज त्वं भावानां जीवन्मुक्तो भवानघ

॥८२॥

श्रीराम उवाच ।

सर्वसंशयनीहारशरन्मारुत हे मुने ।

सङ्गः किमुच्यते ब्रूहि समासेन मम प्रभो

॥८३॥

श्रीवसिष्ठ उवाच ।

भावाभावे पदार्थानां हर्षामर्षविकारदा ।

मलिना वासना यैषा सा सङ्ग इति कथ्यते

॥८४॥

जीवन्मुक्तशरीराणामपुनर्जन्मकारिणी ।

मुक्ता हर्षविषादाभ्यां शुद्धा भवति वासना

॥८५॥

तामसङ्गाभिधां विद्धि यावद्देहं च भाविनी ।

तया यत्क्रियते कर्म न तद्बन्धाय वै पुनः

॥१॥

अजीवन्मुक्तरूपाणां दीनानां मूढचेतसाम् ।

युक्ता हर्षविषादाभ्यां बन्धनी वासना भवेत्

॥८७॥

सैवोक्ता सङ्गशब्देन पुनर्जननकारिणी ।

तया यत्क्रियते कर्म तद्बन्धायैव केवलम्

॥८८॥

एवं रूपं परित्यज्य सङ्गं स्वात्मविकारदम् ।

यदि तिष्ठसि निर्व्यग्रः कुर्वन्नपि न लिप्यसे

॥८९॥

हर्षामर्षविषादाभ्यां यदि गच्छसि नान्यताम् ।

वीतरागभयक्रोधस्तदसङ्गोऽसि राघव

॥९०॥

दुःखैर्न ग्लानिमायासि यदि हृष्यसि नो सुखैः ।

आशावैवश्यमुत्सृज्य तदसङ्गोऽसि राघव

॥९१॥

विहरन्व्यवहारेषु सुखदुःखदशासु च ।

न विमुञ्चसि सत्साम्यं तदसङ्गोऽसि राघव

॥९२॥

संवेद्यो यदि चैवात्मा वेदिते लक्ष्यते समः ।

यथाप्राप्तानुवर्ती च तदसङ्गोऽसि राघव

॥९३॥

असङ्गतामनायासाज्जीवन्मुक्तस्थितिं स्थिराम् ।

अवलम्ब्य समः स्वस्थो वीतरागो भवानघ

॥९४॥

जीवन्मुक्तमतिर्मौनी निगृहीतेन्द्रियग्रहः ।

अमानमदमात्सर्यमार्यस्तिष्ठति विज्वरम्

॥९५॥

सदा समग्रेऽपि हि वस्तुजाले

समाशयोऽप्यन्तरदीनसत्त्वः ।

व्यापारमात्रात्सहजात्क्रमस्थान्न

किंचिदप्यन्यदसौ करोति

॥९६॥

यदेव किंचित्प्रकृतं क्रमस्थं

कर्तव्यमात्मीयमसौ तदेव ।

संसर्गसंबन्धविहीनयैव

कुर्वन्न खेदं रमते धियान्तः

॥९७॥

अथापदं प्राप्य सुसंपदं वा

महामतिः स्वप्रकृतं स्वभावम् ।

जहाति नो मन्दरवेल्लितोऽपि

शौक्ल्यं यथा क्षीरमयाम्बुराशिः

॥९८॥

संप्राप्य साम्राज्यमथापदं वा

सरीसृपत्वं सुरनाथतां वा ।

तिष्ठत्यखेदोदयमस्तहर्षं

क्षयोदयेष्विन्दुरिवैकरूपः

॥९९॥

निरस्तसंरम्भमपास्तभेदं

प्रशान्तनानाफलवल्गुवेषम् ।

विचारयात्मानमदीनसत्त्वो

यथा भवस्युत्तमकार्यनिष्ठः

॥१००॥

तयोदितप्रसरविलासशुद्धया

गतज्वरं पदमवलम्बयामलम् ।

धियेद्धया पुनरिह जन्मबन्धनै-

र्न बध्यसे समधिगतात्मदृश्यया

॥१०१॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये देवदूतोक्ते द्वात्रिंशत्साहस्त्रयां संहितायां मोक्षोपायेषु उपशमप्रकरणे समदर्शनं नाम त्रिनवतितमः सर्गः ।। ९३ ।। ।। समाप्तमिदं उपशमप्रकरणम् ।।