मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — उत्पत्तिप्रकरणम् — सर्गः १

3
योगवासिष्ठम् · उत्पत्तिप्रकरणम् · 1

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

उत्पत्तिप्रकरणं तृतीयम्

प्रथमः सर्गः

॥१॥

वाग्भाभिर्ब्रह्मविद्ब्रह्म भाति स्वप्न इवात्मनि ।

यदिदंतत्स्वशब्दोत्थैर्यो यद्वेत्ति स वेत्ति तत्

॥१॥

न्यायेनानेन लोकेऽस्मिन्सर्गे ब्रह्माम्बरे सति ।

किमिदं कस्य कुत्रेति चोद्यमूचे निराकृतम्

॥२॥

अहं तावद्यथाज्ञानं यथावस्तु यथाक्रमम् ।

यथास्वभावं तत्सर्वं वच्मीदं श्रूयतां बुध

॥३॥

स्वप्नवत्पश्यति जगच्चिन्नभोदेहवित्स्वयम् ।

स्वप्नसंसारदृष्टान्त एवाहं त्वं समन्वितम्

॥४॥

मुमुक्षुव्यवहारोक्तिमयात्प्रकरणात्परम् ।

अथोत्पत्तिप्रकरणं मयेदं परिकथ्यते

॥५॥

बन्धोऽयं दृश्यसद्भावाद्दृश्याभावेन बन्धनम् ।

न संभवति दृश्यं तु यथेदं तच्छ्रणु क्रमात्

॥६॥

उत्पद्यते यो जगति स एव किल वर्धते ।

स एव मोक्षमाप्नोति स्वर्गं वा नरकं च वा

॥७॥

अतस्ते स्वावबोधार्थं तत्तावत्कथयाम्यहम् ।

उत्पत्तिः संसृतावेति पूर्वमेव हि यो यथा

॥८॥

इदं प्रकरणार्थं त्वं संक्षेपाच्छृणु राघव ।

ततः संकथयिष्यामि विस्तरं ते यथेप्सितम्

॥९॥

यदिदं दृश्यते सर्वं जगत्स्थावरजंगमम् ।

तत्सुषुप्ताविव स्वप्नः कल्पान्ते प्रविनश्यति

॥१०॥

ततः स्तिमितगम्भीरं न तेजो न तमस्ततम् ।

अनाख्यमनभिव्यक्तं सत्किंचिदवशिष्यते

॥११॥

ऋतमात्मा परं ब्रह्म सत्यमित्यादिका बुधैः ।

कल्पिता व्यवहारार्थं तस्य संज्ञा महात्मनः

॥१२॥

स तथाभूत एवात्मा स्वयमन्य इवोल्लसन् ।

जीवतामुपयातीव भाविनाम्ना कदर्थिताम्

॥१३॥

ततः स जीवशब्दार्थकलनाकुलतां गतः ।

मनो भवति भूतात्मा मननान्मन्थरीभवन्

॥१४॥

मनः संपद्यते तेन महतः परमात्मनः ।

सुस्थिरादस्थिराकारस्तरङ्ग इव वारिधेः

॥१५॥

तत्स्वयं स्वैरमेवाशु संकल्पयति नित्यशः ।

तेनेत्थमिन्द्रजालश्रीर्विततेयं वितन्यते

॥१६॥

यथा कटकशब्दार्थः पृथक्त्वार्हो न काञ्चनात् ।

न हेम कटकात्तद्वज्जगच्छब्दार्थता परे

॥१७॥

ब्रह्मण्येवास्त्यनन्तात्म यथास्थितमिदं जगत् ।

न जगच्छब्दकार्थेऽस्ति हेम्नीव कटकात्मता

॥१८॥

सती वाप्यसती तापनद्येव लहरी चला ।

मनसेहेन्द्रजालश्रीर्जागती प्रवितन्यते

॥१९॥

अविद्या संसृतिर्बन्धो माया मोहो महत्तमः ।

कल्पितानीति नामानि यस्याः सकलवेदिभिः

॥२०॥

बन्धस्य तावद्रूपं त्वं कथ्यमानमिदं श्रृणु ।

ततः स्वरूपं मोक्षस्य ज्ञास्यसीन्दुनिभानन

॥२१॥

द्रष्टुर्दृश्यस्य सत्ताङ्ग बन्ध इत्यभिधीयते ।

द्रष्टा दृश्यबलाद्बद्धो दृश्याभावे विमुच्यते

॥२२॥

जगत्त्वमहमित्यादिर्मिथ्यात्मा दृश्यमुच्यते ।

यावदेतत्संभवति तावन्मोक्षो न विद्यते

॥२३॥

नेदं नेदमिति व्यर्थप्रलापैर्नोपशाम्यति ।

संकल्पजनकैर्दृश्यव्याधिः प्रत्युत वर्धते

॥२४॥

न च तर्कभरक्षोदैर्न तीर्थनियमादिभिः ।

सतो दृश्यस्य जगतो यस्मादेति विचारकाः

॥२५॥

जगद्दृश्यं तु यद्यस्ति न शाम्यत्येव कस्यचित् ।

नासतो विद्यते भावो नाभावो विद्यते सतः

॥२६॥

अचेत्यचित्स्वरूपात्मा यत्र यत्रैव तिष्ठति ।

द्रष्टा तत्रास्य दृश्यश्रीः समुदेत्यप्यणूदरे

॥२७॥

तस्मादस्ति जगद्दृश्यं तत्प्रमृष्टमिदं मया ।

त्यक्तं तपोध्यानजपैरिति काञ्जिकतृप्तिवत्

॥२८॥

यदि राम जगद्दृश्यमस्ति तत्प्रतिबिम्बति ।

परमाणूदरेऽप्यस्मिंश्चिदादर्शे तथैव हि

॥२९॥

यत्र तत्र स्थिते यद्वद्दर्पणे प्रतिबिम्बति ।

अद्यब्ध्युर्वीनदीवारि चिदादर्शे तथैव हि

॥३०॥

ततस्तत्र पुनर्दुःखं जरा मरणजन्मनी ।

भावाभावग्रहोत्सर्गः स्थूलसूक्ष्मचलाचलः

॥३१॥

इदं प्रमार्जितं दृश्यं मया चात्राहमास्थितः ।

एतदेवाक्षयं बीजं समाधौ संसृतिस्मृतेः

॥३२॥

सति त्वस्मिन्कुतो दृश्ये निर्विकल्पसमाधिता ।

समाधौ चेतनत्वं तु तुर्यं चाप्युपपद्यते

॥३३॥

व्युत्थाने हि समाधानात्सुषुप्तान्त इवाखिलम् ।

जगद्दुःखमिदं भाति यथास्थितमखण्डितम्

॥३४॥

प्राप्तं भवति हे राम तत्किं नाम समाधिभिः ।

भूयोऽनर्थनिपाते हि क्षणसाम्ये हि किं सुखम्

॥३५॥

यदि वापि समाधाने निर्विकल्पे स्थितिं व्रजेत् ।

तदक्षयसुषुप्ताभं तन्मन्येतामलं पदम्

॥३६॥

प्राप्यते सति दृश्येऽस्मिन्न च किंनाम केनचित् ।

यत्र यत्र किलायाति चित्ततास्य जगद्भ्रमः

॥३७॥

द्रष्टाथ यदि पाषाणरूपतां भावयन्बलात् ।

किलास्ते तत्तदन्तेऽपि भूयोऽस्योदेति दृश्यता

॥३८॥

न च पाषाणतातुल्या निर्विकल्पसमाधयः ।

केषांचित्स्थितिमायान्ति सर्वैरित्यनुभूयते

॥३९॥

न च पाषाणतातुल्या रूढिं याताः समाधयः ।

भवन्त्यग्रपदं शान्तं चिद्रूपमजमक्षयम्

॥४०॥

तस्माद्यदीदं सद्दृश्यं तन्न शाम्येत्कदाचन ।

शाम्येत्तपोजपध्यानैर्दृश्यमित्यज्ञकल्पना

॥४१॥

आलीनवल्लरीरूपं यथा पद्माक्षकोटरे ।

आस्ते कमलिनीबीजं तथा द्रष्टरि दृश्यधीः

॥४२॥

यथा रसः पदार्थेषु यथा तैलं तिलादिषु ।

कुसुमेषु यथाऽऽमोदस्तथा द्रष्टरि दृश्यधीः

॥४३॥

यत्र तत्र स्थितस्यापि कर्पूरादेः सुगन्धिता ।

यथोदेति तथा दृश्यं चिद्धातोरुदरे जगत्

॥४४॥

यथा चात्र तव स्वप्नः संकल्पश्चित्तराज्यधीः ।

स्वानुभूत्यैव दृष्टान्तस्तथा हृद्यस्ति दृश्यभूः

॥४५॥

तस्माच्चित्तविकल्पस्थपिशाचो बालकं यथा ।

विनिहन्त्येवमप्येतं द्रष्टारं दृश्यरूपिका

॥४६॥

यथाङ्कुरोऽन्तर्बीजस्य संस्थितो देशकालतः ।

करोति भासुरं देहं तनोत्येवं हि दृश्यधीः

॥४७॥

द्रव्यस्य हृद्येव चमत्कृतिर्यथा

सदोदितास्त्यस्तमितोज्झितोदरे ।

द्रव्यस्य चिन्मात्रशरीरिणस्तथा

स्वभावभूतास्त्युदरे जगत्स्थितिः

॥४८॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे बन्धहेतुवर्णनं नाम प्रथमः सर्गः ।। १ ।।