मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — उत्पत्तिप्रकरणम् — सर्गः १०६

3
योगवासिष्ठम् · उत्पत्तिप्रकरणम् · 106

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

राजोवाच ।

अस्ति तावदयं देशो नानावननदीयुतः ।

वसुधामण्डलस्यास्य सहोदर इवानुजः

॥१॥

अस्मिंश्चायमहं राजा पौराभिमतवृत्तिमान् ।

इन्द्रः स्वर्ग इवास्यां तु सभायां मध्यसंस्थित

॥२॥

यावदभ्यागतो दूरात्कश्चिच्छाम्बरिकस्त्वयम् ।

रसातलादभ्युदितो मायी मय इव स्वयम्

॥३॥

अनेन भ्रमिताद्येह पिच्छिका तेजसोर्जिता ।

कल्पान्तपवनाभ्रेण शक्रचापलता यथा

॥४॥

आलोक्यैतामहं लोलामस्याश्वस्य पुरः स्थितः ।

पृष्ठमारूढवानेक आत्मना भ्रान्तमानसः

॥५॥

ततोऽद्रिं प्रलयक्षुब्धं पुष्करावर्तको यथा ।

तथा चलन्तं चलितः स्वश्वमारूढवानहम्

॥६॥

गन्तुं प्रवृत्तो मृगयामेकोऽहमतिरंहसा ।

उर्वरामिव निर्भर्तुः कल्लोलः प्रलयाम्बुधेः

॥७॥

तेनानिलविलोलेन दूरं नीतोऽस्मि वाजिना ।

योगाभ्यासजडेनाज्ञो मुग्धस्य मनसा यथा

॥८॥

अकिंचनमनःशून्यं स्त्रीचित्तमिव निर्भरम् ।

ततः प्रलयनिर्दग्धजगदास्पदभीषणम्

॥९॥

निष्पक्षिक्षारनीहारं निर्वृक्षमजलं महत् ।

संप्राप्तोऽहमपर्यन्तमरण्यं श्रान्तवाहनः

॥१०॥

तद्द्वितीयमिवाकाशं तथाष्टममिवाम्बुधिम् ।

पञ्चमं सागरमिव संशुष्कं शून्यकोटरम्

॥११॥

ज्ञस्येव विततं चेतो मूर्खस्येव रुषाऽजवम् ।

अदृष्टजनसंसर्गमजाततृणपल्लवम्

॥१२॥

अरण्यमिदमासाद्य मतिर्मे खेदमागता ।

ललनेवैत्य दारिद्र्यं निरन्नफलबान्धवम्

॥१३॥

कचन्मरुमरीच्यम्बुपुरःप्लुतककुम्मुखम् ।

आसूर्यास्तं दिनं तत्र प्रक्रान्तं सीदता मया

॥१४॥

तदरण्यं मयातीतमतिकृच्छ्रेण खेदिना ।

विवेकिनेव संसारो मध्यशून्यतताकृति

॥१५॥

यदेतेनातिवाह्याहं प्राप्तवाञ्जङ्गलं क्रमात् ।

अस्ताद्रिसानुं खिन्नाश्वः शून्यभ्रान्त्येवभास्करः

॥१६॥

जम्बूकदम्बप्रायेषु कलालापाः पतत्रिणः ।

यत्र स्फुरन्ति खण्डेषु पान्थानामिव बान्धवाः

॥१७॥

यत्र शष्पशिखाश्रेण्यो दृश्यन्ते विरलाः स्थले ।

कदर्थलक्ष्म्या जिह्मस्य हृदीवानन्दवृत्तयः

॥१८॥

पूर्वादरण्यादरसात्तद्धि किंचित्सुखावहम् ।

अत्यन्तदुःखान्मरणाद्वरं व्याधिर्हि जन्तुषु

॥१९॥

तत्र जम्बीरखण्डस्य तलं संप्राप्तवानहम् ।

मार्कण्डेय इवागेन्द्रमेकार्णवविहारतः

॥२०॥

आलम्बिता मया तत्र स्कन्धसंसर्गिणी लता ।

नीला जलदमालेव तापतप्तेन भूभृता

॥२१॥

मयि प्रलम्बमानेऽस्यां प्रयातः स तुरङ्गमः ।

गङ्गावलम्बिनि नरे यथा दुष्कृतसंचयः

॥२२॥

चिरं दीर्घाध्वगः खिन्नस्तत्र विश्रान्तवानहम् ।

भानुरस्ताचलोत्सङ्गे तले कल्पतरोरिव

॥२३॥

यावत्समस्तसंसारव्यवहारभरैः समम् ।

रविर्विश्रमणायेव निविष्टोऽस्ताचलाङ्गणे

॥२४॥

शनैः श्यामिकया ग्रस्ते समस्ते भुवनोदरे ।

रात्रिसंव्यवहारेषु संप्रवृत्तेषु जङ्गले

॥२५॥

अहं तरुतृणे तस्मिन्पेलवे खण्डकोटरे ।

निलीनश्चिरलीनास्यः स्वनीडे विहगो यथा

॥२६॥

विषदष्टविवेकस्य कीनाशस्य गलत्स्मृतेः ।

विक्रीतस्येव दीनस्य मग्नस्येवान्धकूपके

॥२७॥

तत्र कल्पसमा रात्रिर्मोहमग्नस्य मे गता ।

एकार्णवोह्यमानस्य मार्कण्डेयमुनेरिव

॥२८॥

न स्नातवान्नार्चितवान्न तदा भुक्तवानहम् ।

केवलं मे गता रात्रिः सापदां धुरि तिष्ठतः

॥२९॥

विनिद्रस्य विधैर्यस्य स्फुरतः सह पल्लवैः ।

समं दुष्टातिदैर्घ्येण सा व्यतीयाय शर्वरी

॥३०॥

ततस्तिमिरलेखासु सह तारेन्दुकैरवैः ।

मयीवापाद्यमानासु म्लानतामलमानने

॥३१॥

शाम्यन्तीषु च वेतालक्ष्वेडासु जवजङ्गले ।

सहशीतार्तिमद्दन्तपङ्क्तिटाङ्कारसीत्कतैः

॥३२॥

मामेवार्तिविनिर्मग्नं हसन्तीमिव दृष्टवान् ।

अहं पूर्वां दिशं प्राप्तमधुपानारुणामिव

॥३३॥

क्षणादज्ञ इव ज्ञानं दरिद्र इव काञ्चनम् ।

दृष्टवानहमर्कं खे वारणारोहणोन्मुखम्

॥३४॥

उत्थायास्तरणं वस्त्रं तत्तदास्फोटितं मया ।

हस्तिचर्मद्वरेणेव संध्यानृत्यानुरागिणा

॥३५॥

प्रवृत्तस्तामहं स्फारां विहर्तुं जङ्गलस्थलीम् ।

कालो जगत्कुटीं कल्पदग्धभूतगणामिव

॥३६॥

न किंचिदृश्यते तत्र भूतं जरठजङ्गले ।

अभिजातो गुणलवो यथा मूर्खशरीरके

॥३७॥

केवलं विगताशङ्कं खण्डभ्रमणचञ्चलम् ।

चीचीकूचीतिवचना विहरन्ति विहङ्गमाः

॥३८॥

अथाष्टभागमापन्ने व्योम्नो दिवसनायके ।

शुष्कावश्यायलेशासु स्नातास्विव लतासु च

॥३९॥

दृष्टा मया प्रभ्रमता दारिकौदनधारिणी ।

गृहीतामृतसत्कुम्भा दानवेनेव माधवी

॥४०॥

तरत्तारकनेत्रां तां श्यामामधवलाम्बराम् ।

अहमभ्यागतस्तत्र शर्वरीमिव चन्द्रमाः

॥४१॥

मह्यमोदनमाश्वेतद्बाले बलवदापदि ।

देहिदीनार्तिहरणात्स्फारतां यान्ति संपदः

॥४२॥

क्षुदन्तर्महतीयं मे बाले वृद्धिमुपेयुषी ।

कृष्णसर्पा प्रसूतेव कोटरस्था जरद्रुमे

॥४३॥

याच्चयापि तया मह्यमित्थं दत्तं न किंचन ।

यत्नप्रार्थनया लक्ष्म्या यथा दुष्कृतिने धनम्

॥४४॥

केवलं चिरकालेन मयात्यन्तानुगामिना ।

खण्डात्खण्डं निपतति च्छायाभूते पुरःस्थिते

॥४५॥

तयोक्तं हारकेयूरिंश्चण्डालीं विद्धि मामिति ।

राक्षसीमिव सुक्रूरा पुरुषाश्वगजाशनाम्

॥४६॥

राजन्यार्चनमात्रेण मत्तो नाप्नोषि भोजनम् ।

ग्राम्यादनभिजातेहात्सौजन्यमिव सुन्दरम्

॥४७॥

इत्युक्तवत्या गच्छन्त्या खेलया च पदेपदे ।

कुञ्जकेषु निमज्जन्त्या लीलावनतयोदितम्

॥४८॥

ददामि भोजनमिदं भर्ता भवसि चेन्मम ।

लोको नोपकरोत्यर्थैः सामान्यः स्निग्धतां विना

॥४९॥

वाहयत्यत्र मे दान्तान्केदारे पुल्कसः पिता ।

श्मशान इव वेतालः क्षुधितो धूलिधूसरः

॥५०॥

तस्येदमन्नं भवति भर्तृत्वे दीयते स्थिते ।

प्राणैरपि हि संपूज्या वल्लभाः पुरुषा यतः

॥५१॥

अथोक्ता सा मया भर्ता भवामि तव सुव्रते ।

केनापदि विचार्यन्ते वर्णधर्मकुलक्रमाः

॥५२॥

ततस्तयौदनादर्धं मह्यमेकं समर्पितम् ।

माधव्येवामृतादर्धमिन्द्रायार्तिमहत्पुरा

॥५३॥

जम्बूफलरसः पीतः स भुक्तः पक्कणौदनः ।

विश्रान्तं च मया तत्र मोहापहृतचेतसा

॥५४॥

मां तत्रार्कमिवापूर्य सा प्रावृट् श्यामला गता ।

हस्तेन समुपादाय प्राणं बहिरिव स्थितम्

॥५५॥

दुराकृतिं दुरारम्भमाससाद भयप्रदम् ।

पितरं पीवराकारमवीचिमिव यातना

॥५६॥

तया मदनुषङ्गिण्या स्वार्थस्तस्मै निवेदितः ।

मातङ्गाय भ्रमर्येव निःस्वनेनालिलग्नया

॥५७॥

अयं मम भवेद्भर्ता तात हे तव रोचताम् ।

स तस्या बाढमित्युक्त्वा दिनान्ते समुपस्थिते

॥५८॥

मुमोच दान्तावाबद्धौ कृतान्तः किङ्कराविव ।

नीहाराभ्रकडारासु दिक्षु प्रोद्धूलितासु च ।

वेतालबन्धनात्तस्माद्दिनान्ते चलिता वयम्

॥५९॥

क्षणेन पक्कणं प्राप्ताः संध्यायां दीर्घजङ्गलात् ।

श्मशानादिव वेतालाः श्मशानमितरन्महत्

॥६०॥

विकर्तितविभागस्थकपिकुक्कुटवायसम् ।

रक्तसिक्तोर्वराभागप्रभ्रमन्मक्षिकागणम्

॥६१॥

शोषार्थं प्रसृतार्द्रान्त्रतन्त्रीजालपतत्खगम् ।

निष्कुटस्थितजम्बीरखण्डलग्नखगध्वनि

॥६२॥

शुष्यद्गुरुवसापिण्डपूर्णालिन्दलसत्खगम् ।

दृष्टिप्रसृतरक्ताक्तचर्मस्रवदसृग्लवम्

॥६३॥

बालहस्तस्थितक्रव्यपिण्डक्वणितमक्षिकम् ।

जर्जराधिष्ठचण्डालतर्जितारटितार्भकम्

॥६४॥

तत्प्रविष्टा वयं कीर्णशिरान्त्र भीमपक्कणम् ।

मृतभूतं जगत्कल्पे कृतान्तानुचरा इव

॥६५॥

संभ्रमोपहितानल्पकदलीदलपीठके ।

अहमास्थितवांस्तत्र नवे श्वशुरमन्दिरे

॥६६॥

श्वश्र्वा मे केकराक्ष्या तु तेनासृग्लवचक्षुषा ।

जामातायमिति प्रोक्तं तया तदभिनन्दितम्

॥६७॥

अथ विश्रम्य चण्डालभोजनान्यजिनासने ।

संचितान्युपभुक्तानि दुष्कृतानीव भूरिशः

॥६८॥

अनन्तदुःखबीजानि न मनोज्ञतराण्यपि ।

तानि प्रणयवाक्यानि श्रुतान्यसुभगान्यलम्

॥६९॥

निरभ्राम्बरनक्षत्रे कस्मिंश्चिद्दिवसे ततः ।

तैस्तैरारम्भसंरम्भैस्तैर्वस्त्रविभवार्पणैः

॥७०॥

दत्ताप्यनेन सा मह्यं कुमारी भयदायिनी ।

सुकृष्णा कृष्णवर्णेन दुष्कृतेनेव यातना

॥७१॥

सरभसमभितो विनेदुरत्र

प्रसृतमहामदिरासवाः श्वपाकाः ।

हतपटुपटहा विलासवन्तः

स्वयमिव दुष्कृतराशयो महान्तः

॥७२॥

इत्यार्षे श्रीवासिष्ठमहारामायणे मो० उत्पत्तिप्रकरणे इन्द्रजालोपाख्याने चाण्डालीविवाहो नाम षडुत्तरशततमः सर्गः ।। १०६ ।।