मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — उत्पत्तिप्रकरणम् — सर्गः १०९

3
योगवासिष्ठम् · उत्पत्तिप्रकरणम् · 109

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

राजोवाच ।

तस्मिंस्तदा वर्तमाने कष्टे विधिविपर्यये ।

अकालोल्वणकल्पान्ते नितान्तं तापदायिनि

॥१॥

जनाः केचन निष्क्रम्य सकलत्रसुहृज्जनाः ।

गता देशान्तरं व्योम्नः शरदीव पयोधराः

॥२॥

देहावयवसंलीनपुत्रदाराग्र्यबन्धवः ।

शीर्णाः केचन तत्रैव च्छिन्ना इव वने द्रुमाः

॥३॥

भक्ताः केचन च व्याघ्रैर्निर्गतास्तु स्वमन्दिरात् ।

अजातपक्षकाः श्येनैः खगा नीडोद्गता इव

॥४॥

प्रविष्टाः केचिदनलं ज्वलितं शलभा इव ।

केचिच्श्वभ्रेषु पतिताः शिला शैलच्युता इव

॥५॥

अहं तु तान्परित्यज्य श्वशुरादीन्स्वकं क्षमम् ।

कलत्रमात्रमादाय कृच्छ्राद्देशाद्विनिर्गतः

॥६॥

अनलाननिलांश्चैव भक्षकांस्तक्षकानपि ।

वञ्चयित्वा भयान्मृत्योः सदारोऽहं विनिर्गतः

॥७॥

प्राप्य तद्देशपर्यन्तं तत्र तालतरोस्तले ।

अवरोप्य सुतान्स्कन्धान्नानानर्थानिवोल्वणान्

॥८॥

विश्रान्तोऽस्मि चिरं श्रान्तो रौरवादिव निर्गतः ।

दीर्घदावनिदाघार्तो ग्रीष्मे पद्म इवाजलः

॥९॥

अथ चाण्डालकन्यायां विश्रान्तायां तरोस्तले ।

सुप्तायां शीतलच्छाये द्वौ समालिड्य दारकौ

॥१०॥

पृच्छको नाम तनयो ममैकः पुरतः स्थितः ।

अत्यन्तवल्लभोऽस्माकं कनीयान्मौग्ध्यवानिति

॥११॥

स मामुवाच दीनात्मा वाष्पपूर्णविलोचनः ।

तात देह्याशु मे मांसं पातुं च रुधिरं क्षणात्

॥१२॥

पुनःपुनर्वदन्नेवं स बालस्तनयो मम ।

प्राणान्तिकीं दशां प्राप्तः साक्रन्दो हि पुनः क्षुधा

॥१३॥

तस्योक्तं तु मया पुत्र मांसं नास्तीति भूरिशः ।

तथापि मांसं देहीति वदत्येव स दुर्मतिः

॥१४॥

अथ वात्सल्यमूढेन मया दुःखातिभारिणा ।

तस्योक्तं पुत्र मन्मांसं पक्वं संभुज्यतामिति

॥१५॥

तदप्यङ्गीकृतं तेन देहीति वदता पुनः ।

मन्मांसभक्षणं क्षीणवृत्तिनाऽऽश्लेषवृत्तिना

॥१६॥

सर्वदुःखापनोदाय स्नेहकारुण्यमोहिना ।

तस्य तामार्तिमालोक्य मया दुःखातिभारिणा

॥१७॥

सोढुं तामापदं तीव्रामशक्तेन हतात्मना ।

मरणायातिमित्राय कृतोऽन्तर्निश्चयो मया

॥१८॥

तत्र काष्ठानि संचित्य चितां रचितवानहम् ।!

चिता चटचटास्फोटैः स्थिता मदभिकाङ्क्षिणी

॥१९॥

तस्यां तु यावदात्मानं चितायां निक्षिपाम्यहम् ।

चलितोऽस्मि जवात्तावदस्मात्सिंहासनान्नृपः

॥२०॥

ततस्तूर्यनिनादेन जयशब्देन बोधितः ।

इति शाम्बरिकेणायं मोह उत्पादितो मम

॥२१॥

अज्ञानेनेव जीवस्य दशाशतसमन्वितः ।

इत्युक्तवति राजेन्द्रे लवणे भूरितेजसि

॥२२॥

अन्तर्धानं जगामाशु तत्र शाम्बरिकः क्षणात् ।

अथेदमूचुस्ते सभ्या विस्मयोत्फुल्ललोचनाः

॥२३॥

नायं शाम्बरिको देव यस्य नास्ति धनैषणा ।

दैवी काचन मायेयं संसारस्थितिबोधिनी

॥२४॥

मनोविलासः संसार इति यस्यां प्रतीयते ।

सर्वशक्तेरनन्तस्य विलासो हि मनोजगत्

॥२५॥

सर्वशक्तेर्विचित्रा हि शक्तयः शतशो विधेः ।

यद्विवेकि मनोऽप्येष विमोहयति मायया

॥२६॥

विज्ञातलोकवृत्तान्तः क्व नामायं महीपतिः ।

क्व सामान्यमनोवृत्तियोग्यो विपुलसंभ्रमः

॥२७॥

न च शाम्बरिकेच्छेयं माया मनसि मोहिनी ।

अर्थस्य सिद्ध्यै चेहन्ते नित्यं शाम्बरिकाः किल

॥२८॥

यत्नेन प्रार्थयन्तेऽर्थं नान्तर्धानं व्रजन्ति भो ।

इति संदेहवेलायां संस्थिता लुलिता वयम्

॥२९॥

श्रीवसिष्ठ उवाच ।

सभायामवसं तस्यामहं राम तदा किल ।

तेन प्रत्यक्षतो दृष्टं मयैतन्नान्यतः श्रुतम्

॥३०॥

इति बहुकलनाविवर्धिताङ्गं

जयति चिरं विततं मनो महात्मन् ।

शममुपगमिते परस्वभावे

परममुपैष्यसि पावनं पदं यत्

॥३१॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मो० दे० उ० इन्द्रजालोपाख्याने चण्डालत्वव्यपगमो नाम नवोत्तरशततमः सर्गः ।।१०९।।