मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — उत्पत्तिप्रकरणम् — सर्गः १११

3
योगवासिष्ठम् · उत्पत्तिप्रकरणम् · 111

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

अस्य चित्तमहाव्याधेश्चिकित्साया महौषधम् ।

स्वायत्तं श्रृणु वक्ष्यामि साधु सुस्वादु निश्चितम्

॥१॥

स्वेनैव पौरुषेणाशु स्वसंवेदनरूपिणा ।

यत्नेन चित्तवेतालस्त्यक्त्वेष्टं वस्तु जीयते

॥२॥

त्यजन्नभिमतं वस्तु यस्तिष्ठति निरामयः ।

जितमेव मनस्तेन कुदन्त इव दन्तिना

॥३॥

स्वसंवेदनयत्नेन पाल्यते चित्तबालकः ।

अवस्तुतो वस्तुनि च योज्यते बोध्यतेऽपि च

॥४॥

शास्रसत्सङ्गधीरेण चिन्तातप्तमतापिना ।

छिन्धि त्वमायसेनायो मनसैव मनो मुने

॥५॥

अयत्नेन यथा बाल इतश्चेतश्च योज्यते ।

भावैस्तथैव चेतोन्तः किमिवात्रास्ति दुष्करम्

॥६॥

सत्कर्मणि समाक्रान्तमुदर्कोदयदायिनि ।

स्वपौरुषेणैव मनश्चेतनेन नियोजयेत्

॥७॥

स्वायत्तमेकान्तहितं स्वेप्सितत्यागवेदनम् ।

यस्य दुष्करतां यातं धिक्तं पुरुषकीटकम्

॥८॥

अरम्यं रम्यरूपेण भावयित्वा स्वसंविदा ।

मल्लेनेव शिशुश्चित्तमयत्नेनैव जीयते

॥९॥

पौरुषेण प्रयत्नेन चित्तमाश्वेव जीयते ।

अचित्तेनाप्रयत्नेन पदं ब्रह्मणि दीयते

॥१०॥

स्वायत्तं च सुसाध्यं च स्वचित्ताक्रान्तिमात्रकम् ।

शक्नुवन्ति न ये कर्तुं धिक्तान्पुरुषजम्बुकान्

॥११॥

स्वपौरुषैकसाध्येन स्वेप्सितत्यागरूपिणा ।

मनःप्रशममात्रेण विना नास्ति शुभा गतिः

॥१२॥

मनोमारणमात्रेण साध्येन स्वात्मसंविदा ।

निःसपत्नमनाद्यन्तमनिङ्गनमिहोच्यताम्

॥१३॥

ईप्सितावेदनाख्यात्तु मनःप्रशमनादृते ।

गुरूपदेशशास्त्रार्थमन्त्राद्या युक्तयस्तृणम्

॥१४॥

सर्वं सर्वगतं शान्तं ब्रह्म संपद्यते तदा ।

असंकल्पनशस्त्रेण च्छिन्नं चित्तं गतं यदा

॥१५॥

स्वसंवेदनसाध्येऽस्मिन्संकल्पानर्थशासने ।

शान्तायामत्र वपुषि पुंसः कैव कदर्थना

॥१६॥

नूनं दैवमनादृत्य मूढसंकल्पकल्पितम् ।

पुरुषार्थेन संवित्त्या नय चित्तमचित्तताम्

॥१७॥

तां महापदवीमेकां कामप्यधिगतं चिरम् ।

चित्तं चिद्भक्षितं कृत्वा चित्तादपि परो भव

॥१८॥

भव भावनया युक्तो युक्तः परमया धिया ।

धारयात्मानमव्यग्रो ग्रस्तचित्तं ततः परम्

॥१९॥

परं पौरुषमाश्रित्य नीत्वा चित्तमचित्तताम् ।

तां महापदवीमेहि यत्र नाशो न विद्यते

॥२०॥

संवेदनविपर्यासरूपिणी धीरिवाचला ।

जेतुमाशु मनो राम पौरुषेणैव शक्यते

॥२१॥

अनुद्वेगः श्रियो मूलमनुद्वेगात्प्रवर्तते ।

जन्तोर्मनोजयो येन त्रिलोकीविजयस्तृणम्

॥२२॥

न शस्त्रदलनोत्पातपाता यस्यां मनागपि ।

स्वभावमात्रव्यावृत्तौ तस्यां कैव कदर्थना

॥२३॥

अपि स्ववेदनाक्रान्तौ न शक्ता ये नराधमाः ।

कथं व्यवहरिष्यन्ति व्यवहारदशासु ते

॥२४॥

पुमान्मृतोऽस्मि जातोऽस्मि जीवामीति कुदृष्टयः ।

चेतसो वृत्तयो भान्ति चपलस्यासदुत्थिताः

॥२५॥

न कश्चनेह म्रियते जायते न च कश्चन ।

स्वयं वेत्ति मृतं स्वस्य लोकमन्यं स्वकं मनः

॥२६॥

इतो याति परं लोकं स्फुरत्यन्यतया मनः ।

तत्तस्यैत्येतदामोक्षमतो मृतिभयं कुतः

॥२७॥

इहलोकेन विचरत्विहलोके परत्र च ।

चित्तमामोक्षमास्तेऽस्य रूपमन्यन्न विद्यते

॥२८॥

मृते भ्रातरि भृत्यादौ क्लेश आक्रियतेऽनृतः ।

तत्स्वचित्तं स्वचैतन्यव्यावृत्तात्मेति मे मतिः

॥२९॥

सति पथ्ये तते शुभ्रे चित्तोपशमनादृते ।

तिर्यगूर्ध्वमधस्ताच्च भूयोभूयो विचारितम्

॥३०॥

यावन्नास्ति किलोपायश्चित्तोपशमनादृते ।

ऋते तथ्ये तते शुभ्रे बोधे हृद्युदिते सति

॥३१॥

मनोविलयमात्रेण विश्रान्तिरुपजायते ।

व्यायते हृदयाकाशे चिति चिच्चक्रधारया

॥३२॥

मनो मारय निःशङ्कं त्वां प्रबध्नन्ति नाधयः ।

यदि रम्यमरम्यत्वे त्वया संविदितं विदा

॥३३॥

छिन्नान्येव तदाङ्गानि चित्तस्येति मतिर्मम ।

अयं सोऽहमिदं तन्म एतावन्मात्रकं मनः

॥३४॥

तदभावनमात्रेण दात्रेणेव विलूयते ।

छिन्नाभ्रमण्डलं व्योम्नि यथा शरदि धूयते

॥३५॥

वातेनाकल्पनेनैवं तथा तद्धूयते मनः ।

भवन्ति यत्र शस्त्राग्निपवनास्तत्र भीर्भवेत्

॥३६॥

स्वायते मृदुनि स्वच्छे किमसंकल्पने भयम् ।

इदं श्रेय इद नेति सिद्धमाबालमक्षतम्

॥३७॥

बालं पुत्रमिवोदारे मनः श्रेयसि योजयेत् ।

अक्षयं चानवं चेतःसिंहं संसृतिबृंहणम् ।

घ्नन्ति ये ते जयन्तीह निर्वाणपददायिनः

॥३८॥

भीमाः संभ्रमदायिन्यः संकल्पकदनादिमाः ।

विपदः संप्रसूयन्ते मृगतृष्णा मराविव

॥३९॥

कल्पान्तपवना वान्तु यान्तु चैकत्वमर्णवाः ।

तपन्तु द्वादशादित्या नास्ति निर्मनसः क्षतिः

॥४०॥

मनोबीजात्समुद्यन्ति सुखदुःखे शुभाशुभे ।

संसारखण्डका एते लोकसप्तकपल्लवाः

॥४१॥

असंकल्पनमात्रैकसाध्ये सकलसिद्धिदे ।

असंकल्पनसाम्राज्ये तिष्ठावष्टब्धतत्पदः

॥४२॥

प्रयच्छत्युत्तमानन्दं क्षीयमाणं मनः क्रमात् ।

काष्ठक्षीणाङ्गकाङ्गारो यथाङ्गारक्षयार्थिनः

॥४३॥

अपि ब्रह्मकुटीलक्षं मनसश्चेत्समीहितम् ।

तदणोरन्तरे व्यक्तं विभक्तं परिदृश्यते

॥४४॥

संकल्पमात्रविभवेन कृतात्यनर्थं

संकल्पमात्रविभवेन सुसाधितार्थम् ।

संतोषमात्रविभवेन मनो विजित्य

नित्योदितेन जयमेहि निरीप्सितेन

॥४५॥

परमपावनया विमनस्तया

समतया मतयात्मविदामपि ।

शमितया मितयान्तरहंतया

यदवशिष्टमजं पदमस्तु तत्

॥४५॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० उत्पत्तिप्रकरणे चित्तचिकित्सानामैकादशोत्तरशततमः सर्गः ।। १११ ।।