मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — उत्पत्तिप्रकरणम् — सर्गः ११४

3
योगवासिष्ठम् · उत्पत्तिप्रकरणम् · 114

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीराम उवाच ।

अविद्याविभवप्रोत्थं निविडं पुरुषस्य हि ।

महदान्ध्यमिदं ब्रह्मन्कथं नाम विनश्यति

॥१॥

श्रीवसिष्ठ उवाच ।

यथा तुषारकणिका भास्करालोकनात्क्षणात् ।

नश्यत्येवमविद्येयं राघवात्मावलोकनात्

॥२॥

तावत्संसारभृगुषु स्वात्मना सह देहिनम् ।

आन्दोलयति नीरन्ध्रदुःखकण्टकशालिषु

॥३॥

अविद्या यावदस्यास्तु नोत्पन्ना क्षयकारिणी ।

स्वयमात्मावलोकेच्छा मोहसंक्षयदायिनी

॥४॥

अस्याः परं प्रपश्यन्त्याः स्वात्मनाशः प्रजायते ।

आतपानुभवार्थिन्याश्छायाया इव राघव

॥५॥

दृष्टे सर्वगते बोधे स्वयमेव विलीयते ।

सर्वाशाभ्युदितेच्छाया द्वादशार्कगणे यथा

॥६॥

इच्छामात्रमविद्येह तन्नाशो मोक्ष उच्यते ।

स चासंकल्पमात्रेण सिद्धो भवति राघव

॥७॥

मनागपि मनोव्योम्नि वासनारजनीक्षये ।

कालिमा तनुतामेति चिदादित्यमहोदयात्

॥८॥

यथोदिते दिनकरे क्वापि याति तमस्विनी ।

तथा विवेकेऽभ्युदिते क्वाप्यविद्या विलीयते

॥९॥

दृढवासनया बन्धो घनतामेति चेतसः ।

बलाद्वेतालसंकल्पः संध्याकाले यथा शिशोः

॥१०॥

श्रीराम उवाच ।

यावत्किंचिदिदं दृश्यं साविद्या क्षीयते च सा ।

आत्मभावनया ब्रह्मन्नात्मासौ कीदृशः स्मृतः

॥११॥

श्रीवसिष्ठ उवाच ।

चेत्यानुपातरहितं सामान्येन च सर्वगम् ।

यच्चित्तत्त्वमनाख्येयं स आत्मा परमेश्वरः

॥१२॥

आब्रह्म स्तम्बपर्यन्तं तृणादि यदिदं जगत् ।

तत्सर्वं सर्वदात्मैव नाविद्या विद्यतेऽनघ

॥१३॥

सर्वं च खल्विदं ब्रह्म नित्यं चिद्धनमक्षतम् ।

कल्पनान्या मनोनाम्नी विद्यते नहि काचन

॥१४॥

न जायते न म्रियते किंचिदत्र जगत्त्रये ।

न च भावविकाराणां सत्ता क्वचन विद्यते।

॥१५॥

केवलं केवलाभासं सर्वसामान्यमक्षतम् ।

चेत्यानुपातरहितं चिन्मात्रमिह विद्यते

॥१६॥

तस्मिन्नित्ये तते शुद्धे चिन्मात्रे निरुपद्रवे ।

शान्ते समसमाभोगे निर्विकारोदितात्मनि

॥१७॥

यैषा स्वभावातिगतं स्वयं संकल्प्य धावति ।

चिच्चैत्यं स्वयमाम्लाना सा म्लाना तन्मनः स्मृतम्

॥१८॥

एतस्मात्सर्वगाद्देवात्सर्वशक्तेर्महात्मनः ।

विभागकलनाशक्तिर्लहरीवोत्थिताम्भसः

॥१९॥

एकस्मिन्वितते शान्ते या न किंचन विद्यते ।

संकल्पमात्रेण गता सा सिद्धिं परमात्मनि

॥२०॥

अतः संकल्पसिद्धेयं संकल्पेनैव नश्यति ।

येनैव जाता तेनैव वह्निज्वालेव वायुना

॥२१॥

पौरुषोद्योगसिद्धेन भोगाशा रूपतां गता ।

असंकल्पनमात्रेण साविद्या प्रविलीयते

॥२२॥

नाहं ब्रह्मेति संकल्पात्सुदृढाद्बध्यते मनः ।

सर्वं ब्रह्मेति संकल्पात्सुदृढान्मुच्यते मनः

॥२३॥

संकल्पः परमो बन्धस्त्वसंकल्पो विमुक्तता ।

संकल्पं संविजित्यान्तर्यथेच्छसि तथा कुरु

॥२४॥

दृढा न याम्बरेऽत्रास्ति नलिनी हेमपङ्कजा ।

लोलवैदूर्यमधुपा सुगन्धितदिगन्तरा

॥२५॥

उद्दण्डैः प्रकटाभोगैर्मृणालभुजमण्डलैः ।

विहसन्ती प्रकाशस्य शशिनो रश्मिमण्डलम्

॥२६॥

विकल्पजालिकेवेत्थमसत्येवापि सत्समा ।

मनःस्वार्थविलासार्थं यथा बालेन कल्प्यते

॥२७॥

तथैवेयमविद्येह भवबन्धनबन्धनी ।

चपला न सुखायैव बालेन कलिता दृढा

॥२८॥

कृशोऽतिदुःखी बद्धोऽहं हस्तपादादिमानहम् ।

इति भावानुरूपेण व्यवहारेण बध्यते

॥२९॥

नाहं दुःखी न मे देहो बन्धः कस्यात्मनः स्थितः ।

इति भावानुरूपेण व्यवहारेण मुच्यते

॥३०॥

नाहं मांसं न चास्थीनि देहादन्यः परो ह्यहम् ।

इति निश्चयवानन्तः क्षीणाविद्य इहोच्यते

॥३१॥

प्रोत्तुङ्गसुरशैलाग्रवैदूर्यशिखरप्रभा ।

अथवार्कांशुदुर्भेदा तिमिरश्रीः स्थितोपरि

॥३२॥

कल्प्यते हि यथा व्योम्नः कालिमेति स्वभावतः ।

पुंसा धरणिसंस्थेन स्वसंकल्पनयेद्धया

॥३३॥

कल्पितैवमविद्येयमनात्मन्यात्मभावना ।

पुरुषेणाप्रबुद्धेन न प्रबुद्धेन राघव

॥३४॥

श्रीराम उवाच ।

मेरुनीलमणिच्छाया नेयं नापि तमःप्रभा ।

तदेतत्किंकृतं ब्रह्मन्नीलत्वं नभसो वद

॥३५॥

श्रीवसिष्ठ उवाच ।

न नाम नीलता व्योम्नः शून्यस्य गुणवत्स्थिता ।

अन्यरत्नप्रभाभावान्न वाप्येषा च मैरवी

॥३६॥

तेजोमयत्वादण्डस्य स्फारत्वादिव तेजसः ।

प्राकाश्यादण्डपारस्य तमसो नात्र संभवः

॥३७॥

केवलं शून्यतैवैषा बह्वी सुभग लक्ष्यते ।

वयस्येवानुरूपा या अविद्याया असन्मयी

॥३८॥

स्वदृष्टिक्षयसंपत्तावक्ष्णोरेवोदितं तमः ।

वस्तुस्वभावात्तद्व्योम्नः कार्ष्ण्यमित्यवलोक्यते

॥३९॥

एतद्बुद्ध्वा यथा व्योम्नि दृश्यमानोऽपि कालिमा ।

न कालिमेति बुद्धिः स्यादविद्यातिमिरं तथा

॥४०॥

असंकल्पो ह्यविद्याया निग्रहः कथितो बुधैः ।

यथा गगनपद्मिन्याः स भाति सुकरः स्वयम्

॥४१॥

भ्रमस्य जागतस्यास्य जातस्याकाशवर्णवत् ।

अपुनःस्मरणं मन्ये साधो विस्मरणं वरम्

॥४२॥

नष्टोऽहमिति संकल्पाद्यथा दुःखेन नश्यति ।

प्रबुद्धोऽस्मीतिसंकल्पाज्जनो ह्येति यथा सुखम्

॥४३॥

तथा संमूढसंकल्पान्मूढतामेति वै मनः ।

प्रबोधोदारसंकल्पात्प्रबोधायानुधावति

॥४४॥

क्षणात्संस्मरणादेषा ह्यविद्योदेति शाश्वती ।

यस्माद्विस्मरणादन्तः परिणश्यति नश्वरी

॥४५॥

भावनी सर्वभावानां सर्वभूतविमोहिनी ।

भारिणी स्वात्मनो नाशे स्वात्मवृद्धौ विनाशिनी

॥४६॥

मनो यदनुसंधत्ते तत्सर्वेन्द्रियवृत्तयः ।

क्षणात्संपादयन्त्येता राजाज्ञामिव मन्त्रिणः

॥४७॥

तस्मान्मनोनुसंधानं भावेषु न करोति यः ।

अन्तश्चेतनयत्नेन स शान्तिमधिगच्छति

॥४८॥

यदादावेव नास्तीदं तदद्यापि न विद्यते ।

यदिदं भाति तद्ब्रह्म शान्तमेकमनिन्दितम्

॥४९॥

मननीयमतो नान्यत्कदा कस्य कथं कुतः ।

निर्विकारमनाद्यन्तमास्यतामपयन्त्रणम्

॥५०॥

परं पौरुषमाश्रित्य यत्नात्परमया धिया ।

भोगाशाभावनां चित्तात्समूलामलमुद्धरेत्

॥५१॥

यदुदेति परो मोहो जरामरणकारणम् ।

आशापाशशतोल्लासिवासना तद्विजृम्भते

॥५२॥

मम पुत्रा मम धनमयं सोऽहमिदं मम ।

इतीयमिन्द्रजालेन वासनैव विवल्गति

॥५३॥

शून्ये एव शरीरेऽस्मिन्विलोलो जलवातवत् ।

अनन्यया वासनया त्वहंभावाहिरर्पितः

॥५४॥

परमार्थेन तत्त्वज्ञ ममाहमिदमित्यलम् ।

नदिश्रेण्योआत्मतत्त्वादृते सत्यं न कदाचन किंचन

॥५५॥

खाद्रिद्यूर्वीनदिश्रेण्यो दृष्टिसृष्ट्या पुनः पुनः ।

सैवान्येव विचित्रेयमविद्या परिवर्तते

॥५६॥

उदेत्यज्ञानमात्रेण नश्यति ज्ञानमात्रतः ।

सन्मात्रे परिविच्छेद्या रज्ज्वामिव भुजंगधीः

॥५७॥

खाद्व्यब्ध्युर्वीनदी सेयं याऽविद्याऽज्ञस्य राघव ।

नाविद्या ज्ञस्य तद्ब्रह्म स्वमहिम्ना व्यवस्थितम्

॥५८॥

रज्जुसर्पविकल्पौ द्वावक्षेनैवोपकल्पितौ ।

ज्ञेन त्वेकैव निर्णीता ब्रह्मदृष्टिरकृत्रिमा

॥५९॥

मा भवाज्ञो भव प्राज्ञो जहि संसारवासनाम् ।

अनात्मन्यात्मभावेन किमज्ञ इव रोदिषि

॥६०॥

कस्तवायं जडो मूको देहो भवति राघव ।

यदर्थं सुखदुःखाभ्यामवशः परिभूयसे।

॥६१॥

यथा हि काष्ठजतुनोर्यथा बदरकुण्डयोः ।

श्लिष्टयोरपि नैकत्वं देहदेहवतोस्तथा

॥६१॥

भस्त्रादाहे यथा दाहो न भस्त्रान्तरवर्तिनः ।

पवनस्य तथा देहनाशे नात्मा न नश्यति

॥६३॥

दुःखितोऽहं सुखाढ्योऽहमिति भ्रान्ति रघूद्वह ।

मृगतृष्णोपमां बुद्ध्वा त्यज सत्यं समाश्रय

॥६४॥

अहो नु चित्रं यत्सत्यं ब्रह्म तद्विस्मृतं नृणाम् ।

यदसत्यमविद्याख्यं तन्नूनं स्मृतिमागतम्

॥५४॥

प्रसरं त्वमविद्याया मा प्रयच्छ रघूद्वह ।

अनयोपहिते चित्ते दुष्पारेह कदर्थना

॥६६॥

मिथ्यैवानर्थकारिण्या मनोमननपीनया ।

अनया दुःखदायिन्या महामोहफलान्तया

॥६७॥

चन्द्रबिम्बे सुधार्द्रेऽपि कृत्वा रौरवकल्पनम् ।

नारकं दाहसंशोषदुःखं समनुभूयते

॥६८॥

जलकल्लोलकह्लारपुष्पसीकरवीचिषु ।

सरस्सु मृगतृष्णाढ्यं मरुत्वं परिदृश्यते

॥६९॥

नभोनगरनिर्माणपातोत्पातनसंभ्रमाः ।

स्वप्नादिष्वनुभूयन्ते विचित्राः सुखदुःखदाः

॥७०॥

संसारवासनाश्चेतो यदि नाम न पूरयेत् ।

तज्जाग्रत्स्वप्नसंरम्भाः किं नयेयुरिहापदम्

॥७१॥

दृश्यते रौरवा वीचिनरकानर्थशासना ।

मिथ्याज्ञाने गते वृद्धिं स्वप्नोपवनभूमिषु

॥७२॥

अनया वेधितं चेतो विसतन्तावपि क्षणात् ।

पश्यत्यखिलसंसारसागरानर्थविभ्रमम्

॥७३॥

अनयोपहते चित्ते राज्य एव हि संस्थिताः ।

तास्तादृश्यो जना यान्ति या न योग्याः श्वपाकिनः

॥७४॥

तस्माद्राम परित्यज्य वासनां भवबन्धनीम् ।

सर्वरागमयीं तिष्ठ नीरागः स्फटिको यथा

॥७५॥

तिष्ठतस्तव कार्येषु मास्तु रागेषु रञ्जना ।

स्फटिकस्येव चित्राणि प्रतिबिम्बानि गृह्णतः

॥७६॥

विदितकौतुकसङ्घसमिद्धया

यदि करोषि सदैव सुशीलया ।

वरधिया गतप्राकृतिकक्रिय-

स्तदसि केन सहानुपमीयसे

॥७७॥

इत्यार्षे श्रीवासिष्ठमहारामायणे मोक्षोपाये उत्पत्तिप्रकरणे यथाकथितदोषपरिहारोपदेशो नाम चतुर्दशोत्तरशततमः सर्गः ।। ११४ ।।