मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — उत्पत्तिप्रकरणम् — सर्गः ११९

3
योगवासिष्ठम् · उत्पत्तिप्रकरणम् · 119

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

ऊर्मिकासंविदा हेम यथा विस्मृत्य हेमताम् ।

विरौति नाहं हेमेति तथात्माहंतयानया

॥१॥

श्रीराम उवाच ।

ऊर्मिकासंविदुदयः कथं हेम्नो यथा मुने ।

अहंता चात्मन इति यथावद्ब्रूहि मे प्रभो

॥२॥

श्रीवसिष्ठ उवाच ।

सत एवागमापायौ प्रष्टव्यौ नासतः सता ।

अहंत्वमूर्मिकात्वं च सती तु न कदाचन

॥३॥

हेमं हेम्न्यूर्मिकां च त्वं गृहाणेत्युदितो यदि ।

यद्दीयते सोर्मिकेण तत्तदस्ति न संशयः

॥४॥

श्रीराम उवाच ।

एवं चेत्तत्त्प्रभो किं स्यादूर्मिकात्वं तु कीदृशम्।

अनयैवार्थनिश्चित्या ज्ञास्यामि ब्रह्मणो वपुः

॥५॥

श्रीवसिष्ठ उवाच ।

रूपं राघव नीरूपमसतश्चेन्निरूप्यते ।

तद्वन्ध्यातनयाकारगुणांस्त्वं समुदाहर

॥६॥

ऊर्मिकात्वं मुधा भ्रान्तिर्मायैषा सत्स्वरूपिणी ।

रूपं तदेतदेवास्याः प्रेक्षिता यन्न दृश्यते

॥७॥

मृगतृष्णाम्भसि द्वीन्दावहंतारूपकादिषु ।

एतावदेव रूपं यत्प्रेक्ष्यमाणं न लभ्यते

॥८॥

यः शुक्तौ रजताकारं प्रेक्षते रजतस्य सः ।

न संप्राप्नोत्यणुमपि कणं क्षणमपि क्वचित्

॥९॥

अपर्यालोकनेनैव सदिवासद्विराजते ।

यथा शुक्तौ रजतता जलं मरुमरीचिषु

॥१०॥

यन्नास्ति तस्य नास्तित्वं प्रेक्ष्यमाणं प्रकाशते ।

अप्रेक्ष्यमाणं स्फुरति मृगतृष्णास्विवाम्बुधीः

॥११॥

असदेव च सत्कार्यकरं भवति च स्थिरम् ।

बालानां मरणायैव वेतालभ्रान्तिसंभ्रमः

॥१२॥

हेमतां वर्जयित्वैकां विद्यते हेम्नि नेतरत् ।

ऊर्मिकाकटकादित्वं तैलादिसिकतास्विव

॥१३॥

नेहास्ति सत्यं नो मिथ्या यद्यथा प्रतिभाव्यते ।

तत्तथार्थक्रियाकारि बालयक्षविकारवत्

॥१४॥

सद्वा भवत्वसद्वापि सुरूढं हृदये हि यत् ।

तत्तदर्थक्रियाकारि विषस्येवामृतक्रिया

॥१५॥

परमैषैव सा विद्या मायैषा संसृतिर्ह्यसौ ।

असतो निष्प्रतिष्ठस्य यदहंत्वस्य भावनम्

॥१६॥

हेम्न्यस्ति नोर्मिकादित्वमहन्ताद्यस्ति नात्मनि ।

अहन्ताभाववस्त्वेमं स्वच्छे शान्ते सिते परे

॥१७॥

न सनातनता काचिन्न च काचिद्विरिञ्चिता ।

न च ब्रह्माण्डता काचिन्न च काचित्सुतादिता

॥१८॥

न लोकान्तरता काचिन्न च स्वर्गादिता क्वचित् ।

न मेरुता नासुरता न मनस्त्वं न देहता

॥१९॥

न महाभूतता काचिन्न च कारणता क्वचित् ।

न च त्रिकालकलना न भावाभाववस्तुता

॥२०॥

त्वत्ताहन्तात्मता तत्ता सत्ताऽसत्ता न काचन ।

न क्वचिद्भेदकलना न भावो न च रञ्जना

॥२१॥

सर्वं शान्तं निरालम्बं जगत्त्वं शाश्वतं शिवम् ।

अनामयमनाभासमनामकमकारणम्

॥२२॥

न सन्नासन्न मध्यान्तं न सर्वं सर्वमेव च ।

मनोवचोभिरग्राह्यं शून्याच्छून्यं सुखात्सुखम्

॥२३॥

श्रीराम उवाच ।

अवबुद्धं समं ब्रह्म सर्वमेव मयाधुना ।

तथापि भूयः कथय सर्गः किमिव लोक्यते

॥२४॥

श्रीवसिष्ठ उवाच ।

परे शान्ते परं नाम स्थितमित्थमिदंतया ।

नेह सर्गो न सर्गाख्या काचिदस्ति कदाचन

॥२५॥

महार्णवाम्भसीवाम्बु संस्थिता परमेश्वरे ।

जलं द्रवत्वात्स्पन्दीव निस्पन्दं परमं पदम्

॥२६॥

भाः स्वात्मनीव कचति न कचत्येव तत्पदम् ।

भासां तत्त्वं हि कचनं पदं त्वकचनं विदुः

॥२७॥

अध ऊर्ध्वं वर्जयित्वा यथाब्धेरुदरे पयः ।

स्फुरत्येवं परे चित्त्वादिदं नानेव तत्परम्

॥२८॥

ईषद्विदः स्वयं चित्त्वाच्चेत्यतामिव गच्छति ।

बुद्ध्यते सर्ग इत्येव समास्थास्यति शाश्वतम्

॥२९॥

सर्गस्तु परमार्थस्य संज्ञेत्येव विनिश्चयः ।

नानास्ति नायमत्यन्तमम्बरस्य यथाम्बरम्

॥३०॥

चित्तात्सर्गसमापत्तिरचित्तात्सर्गसंक्षयः ।

परे परमसंशान्ते हेम्नीव कटकभ्रमः

॥३१॥

सन्नेव सर्गो सत्यत्वमेति चित्तशमोदये ।

असत्सत्तामवाप्नोति स्वतः संवेदनोदये

॥३२॥

संवेदनमहंतावत्सर्गसंभ्रमसंभ्रमः ।

असंवेदनमाशान्तं परं विद्धि न तज्जडम्

॥३३॥

नानेव सर्गो नानायं ज्ञस्यैकात्मशिवात्मकः ।

पुंस्त्वकर्मक्रिया सेना मृन्मयी शिल्पिनां यथा

॥३४॥

इदं पूर्णमनारम्भमनन्तमनघोदरम् ।

पूर्णे पूर्णपरापूरैः पूर्णमेवावतिष्ठते

॥३॥

यदयं लक्ष्यते सर्गस्तद्ब्रह्म ब्रह्मणि स्थितम् ।

नभो नभसि विश्रान्तं शान्तं शान्ते शिवे शिवम्

॥३६॥

मुकुरप्रतिबिम्बस्थे नगरे नवयोजने ।

यथा दूरमदूरं च तथेशे तदतत्क्रमः

॥३७॥

असदभ्युदितं विश्वं सदप्यभ्युदितं सदा ।

प्रतिभासात्सदाभासमवस्तुत्वादसन्मयम्

॥३८॥

आदर्शनगराकारे मृगतृष्णाम्बुभास्वरे ।

द्विचन्द्रविभ्रमाभासे सर्गेऽस्मिन्कैव सत्यता

॥३९॥

मायाचूर्णपरिक्षेपाद्यथा व्योम्नि पुरभ्रमः ।

तथा संविदि संसारः सारोऽसारश्च भासते

॥४०॥

यावद्विचारदहनेन समूलदाहं

दग्धा न जर्जरलतेव बलादविद्या ।

शाखाप्रतानगहनानि बहूनि ताव-

न्नानाविधानि सुखदुःखवनानि सूते

॥४१॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० उत्पत्तिप्रकरणे हेमोर्म्युपदेशो नामैकोनविंशत्युत्तरशततमः सर्गः ।। ११९ ।।