मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — उत्पत्तिप्रकरणम् — सर्गः १२१

3
योगवासिष्ठम् · उत्पत्तिप्रकरणम् · 121

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

चण्डाल्युवाच ।

केनचित्त्वथ कालेन ग्रामकेऽस्मिञ्जनेश्वर ।

अवृष्टिदुःखमभवद्भीषणं भग्नमानवम्

॥५॥

महतानेन दुःखेन सर्वे ते ग्रामका जनाः ।

विनिर्गत्य गता दूरं सर्वे पञ्चत्वमागताः

॥२॥

तेनेमा दुःखभागिन्यः शून्या वयमिह प्रभो ।

सौम्य शोचाम सद्वाष्पमाचान्तेक्षणधारया

॥३॥

इत्याकर्ण्याङ्गनावक्त्राद्राजा विस्मयमागतः ।

मन्त्रिणां मुखमालोक्य चित्रार्पित इवाभवत्

॥४॥

भूयो विचारयामास तदाश्चर्यमनुत्तमम् ।

भूयो भूयोऽथ पप्रच्छ बभूवाश्चर्यवानिति

॥५॥

तेषां समुचितैर्दानसन्मानैर्दुःखसंक्षयम् ।

कृत्वा करुणयाविष्टो इष्टलोकपरावरः

॥६॥

स्थित्वा तत्र चिरं कालं विमृश्य नियतेर्गतीः ।

आजगाम गृहं पौरैर्वन्दितः प्रविवेश ह

॥७॥

प्रातस्तत्र सभास्थाने मामपृच्छदसौ नृपः ।

कथमेवं मुने स्वप्नः प्रत्यक्षमिति विस्मितः

॥८॥

यथावस्तुतया तस्य तत उक्तः स तादृशः ।

संशयो हृदयान्नुन्नो वातेनेवाम्बुदो दिवः

॥९॥

इत्येवं राघवाविद्या महती भ्रमदायिनी ।

असत्सत्तां नयत्याशु सच्चासत्तां नयत्यलम्

॥१०॥

श्रीराम उवाच ।

कथमेवं वद ब्रह्मन्स्वप्नः सत्यत्वमागतः ।

भ्रमोदार इवैषोऽर्थो न मे गलति चेतसि

॥११॥

श्रीवसिष्ठ उवाच ।

सर्वमेतदविद्यायां संभवत्येव राघव ।

घटेषु पटता दृष्टा स्वप्नसंभ्रमितादिषु

॥१२॥

दूरं निकटवद्भाति मुकुरेऽन्तरिवाचलः ।

चिरं शीघ्रत्वमायाति पुनः श्रेष्ठेव यामिनी

॥१३॥

असंभवश्च भवति स्वप्ने स्वमरणं यथा ।

असच्च सदिवाभाति स्वप्नेष्विव नभोगतिः

॥१४॥

सुस्थितं सुष्ठ चलति भ्रमे भूपरिवर्तवत् ।

अचलं चलतामेति मदविक्षुब्धचित्तवत्

॥१५॥

वासनावलितं चेतो यद्यथा भावयत्यलम् ।

तत्तथानुभवत्याशु न तदस्ति न वाप्यसत्

॥१६॥

यदैवाभ्युदिता विद्या त्वहंत्वादिमयी मुधा ।

तदैवानादिमध्यान्ता भ्रमस्यानन्ततोदिता

॥१७॥

प्रतिभासवशादेव सर्वो विपरिवर्तते ।

क्षणः कल्पत्वमायाति कल्पश्च भवति क्षणः

॥१८॥

विपर्यस्तमतिर्जन्तुः पश्यत्यात्मानमेडकम् ।

बिभर्ति सिंहतामेडो वासनावशतः स्वयम्

॥१९॥

विषमभ्रमदाविद्यामोहाहन्तादयः समाः ।

सर्वे चित्तविपर्यासफलसंपत्तिहेतुतः

॥२०॥

काकतालीयवच्चेतोवासनावशतः स्वतः ।

संवदन्ति महारम्भा व्यवहाराः परस्परम्

॥२१॥

वृत्तं प्राक्पक्कणे राज्ञः कस्यचिल्लवणस्य यत् ।

प्रतिभातं तदेतस्य सद्वासद्वा मनोगतम्

॥२२॥

विस्मरत्यपि विस्तीर्णां कृतां चेतःक्रियां यथा ।

तथा कृतामप्यकृतामिति स्मरति निश्चितम्

॥२३॥

तथा न भुक्तवानस्मि भुक्तवानिति चेतसि ।

स्वप्ने देशान्तरगमे प्राकृतोऽप्यवबुद्ध्यते

॥२४॥

विन्ध्यपुष्कससुग्रामे व्यवहारोऽयमीदृशः ।

प्रतिभासागतस्तस्य स्वप्ने पूर्वकथा यथा

॥२५॥

अथवा लवणेनाशु दृष्टो यः स्वप्नविभ्रमः ।

स एव संविदं प्राप्तो विन्ध्यपुष्कसचेतसि

॥२६॥

लावणी प्रतिभाऽऽरूढा विन्ध्यापुष्कसचेतसि ।

विन्ध्यपुष्कससंविद्वाऽऽरूढा पार्थिवचेतसि

॥२७॥

यथा बहूनां सदृशं वचनं नाम मानसम् ।

तथा स्वप्नेऽपि भवति कालो देशः क्रियापि च

॥२८॥

व्यवहारगतेस्तस्याः सत्तास्ति प्रतिभासतः ।

सत्ता सर्वपदार्थानां नान्या संवेदनादृते

॥२९॥

संवेदनेतरा भाति वीचिर्वा जलसंगतिः ।

भूतभव्यभविष्यस्था तरुबीजे तरुर्यथा

॥३०॥

तस्याः सत्त्वमसत्त्वं च न सन्नासदिति स्थितम् ।

सत्सदेव हि संवित्तेरसंवित्तेरसन्मयम्

॥३१॥

नाविद्या विद्यते किंचित्तैलादि सिकतास्विव ।

हेम्नः किं कटकादन्यत्पदं स्याद्धेमतां विना

॥३२॥

अविद्ययात्मतत्त्वस्य संबन्धो नोपपद्यते ।

संबन्धः सदृशानां च यः स्फुटः स्वानुभूतितः

॥३३॥

जतुकाष्ठादिसंबन्धो यः समासमयोगतः ।

नान्योन्यानुभवायासौ तदेकस्पन्दमात्रकम् ।।

॥३४॥

परमार्थमयं सर्वं यथा तेनोपलादयः ।

चिता समभिचेत्यन्ते संबन्धवशतः समाः

॥३५॥

यदा चिन्मात्रसन्मात्रमयाः सव जगद्गताः ।

भावास्तदा विभान्त्येते मिथः स्वानुभवस्थितेः

॥३६॥

न संभवति संबन्धो विषमाणां निरन्तरः ।

न परस्परसंबन्धाद्विनानुभवनं मिथः

॥३७॥

सदृशे सदृशं वस्तु क्षणाद्गत्वैकतामलम् ।

रूपमास्फारयत्येकमेकत्वादेव नान्यथा

॥३८॥

चिच्चेत्यमिलिता दृश्यरूपयोदेति चेतनः ।

[ जडं जडेन मिलितं घनं संपद्यते जडम् ।]

न च चिज्जडयोरैक्यं वैलक्षण्यात्क्वचिद्भवेत्

॥३९॥

चिज्जडौ चित्र एकत्र न तौ संमिलतः क्वचित् ।

चिन्मयत्वाच्चिदालम्भश्चिदालम्भेन वेदनम्

॥४०॥

दारुपाषाणभेदानां नतु ह्येते चिदात्मकाः ।

पदार्थो हि पदार्थेन परिणाम्यनुभूयते

॥४१॥

जिह्वयैव रसास्वादः सजातीयामलोदयः ।

ऐक्यं च विद्धि संबन्धं नास्त्यसावसमानयोः

॥४२॥

जडचेतनयोस्तेन नोपलादि जडं मतम् ।

चिदेवोपलकुड्यादिरूपिणीति मिता चिता

॥४३॥

एकीभावं गता द्रष्टदृश्यादि कुरुते भ्रमम् ।

काष्ठोपलाद्यशेषं हिं परमार्थमयं यतः

॥४४॥

तदात्मना तत्संबन्धे दृश्यत्वेनोपलभ्यते ।

सर्वं सर्वप्रकाराढ्यमनन्तमिव यत्नतः

॥४५॥

विश्वं सन्मात्रमेवैतद्विद्धि तत्त्वविदां वर ।

असत्तात्यागनिष्ठेन विश्वं लक्षशतभ्रमैः

॥४६॥

पूरितं चिच्चमत्कारो नच किंचन पूरितम् ।

संकल्पनागरा नॄणां मिथः स्पन्दन्ति नो यथा

॥४७॥

न देशकालरोधाय तथा सर्गेष्विति स्थितिः ।

भेदबोधे हि सर्गत्वमहंत्वादिभ्रमोदयः

॥४८॥

हेमसंवित्परित्यागे कटकादिभ्रमो यथा ।

कटकादिभ्रमो हेम्नि देशाद्देशं भवाद्भवम्

॥४९॥

दृग्दर्शनपरित्यागे नाविद्यास्ति पृथक्सदा ।

कटकादिमहाभेदमेकं हेम यथामलम्

॥५०॥

बोधैकत्वादयं सर्गस्तदेवासन्नयत्यलम् ।

सेना मृत्संविदा चित्रा मृन्मात्रमिव मृन्मयी

॥५१॥

जलमेकं तरङ्गादि दार्वेकं शालभञ्जिका ।

मृन्मात्रमेकं कुम्भादि ब्रह्मैकं त्रिजगद्भ्रमः

॥५२॥

संबन्धे दृश्यदृष्टीनां मध्ये द्रष्टुर्हि यद्वपुः ।

द्रष्टृदर्शनदृश्यादिवर्जितं तदिदं परम्

॥५३॥

देशाद्देशं गते चित्ते मध्ये यच्चेतसो वपुः ।

अजाड्यसंविन्मननं तन्मयो भव सर्वदा

॥५४॥

अजाग्रत्स्वप्ननिद्रस्य यत्ते रूपं सनातनम् ।

अचेतनं चाजडं च तन्मयो भव सर्वदा

॥५५॥

जडतां वर्जयित्वैकां शिलाया हृदयं हि तत् ।

अक्षुब्धो वाथवा क्षुब्धस्तन्मयो भव सर्वदा

॥५६॥

कस्यचित्किंचनापीह नोदेति न विलीयते ।

अक्षुब्धो वाथवाक्षुब्धः स्वस्थस्तिष्ठ यथासुखम्

॥५७॥

नाभिवाञ्छति नो द्वेष्टि देहे किंचित्क्वचित्पुमान् ।

स्वस्थस्तिष्ठ निराशङ्कं देहवृत्तिषु मा पत

॥५८॥

भविष्यद्ग्रामकग्राम्यकार्यव्यवसितो यथा ।

चित्तवृत्तिषु मा तिष्ठ तथा सत्यात्मतां गतः

॥५९॥

यथा देशान्तरनरो यथा काष्ठं यथोपलः ।

तथैव पश्य चित्तं त्वमचित्तैव यदात्मना

॥६०॥

यथा दृषदि नास्त्यम्बु यथाम्भस्यनलस्तथा ।

स्वात्मन्येवास्ति नो चित्तं परमात्मनि तत्कुतः

॥६१॥

प्रेक्ष्यमाणं न यत्किंचित्तेन यत्क्रियते क्वचित् ।

कृतं भवति तन्नेति मत्वा चित्तातिगो भवेत्

॥६२॥

अत्यन्तानात्मभूतस्य यश्चित्तस्यानुवर्तते ।

पर्यन्तवासिनः कस्मान्न म्लेच्छस्यानुवर्तते

॥६३॥

निरन्तरमनादृत्य त्वमाराच्चित्तपुष्कसम् ।

स्वस्थमास्स्व निराशङ्कं पङ्केनेव कृतो जडः

॥६४॥

चित्तं नास्त्येव मे भूतं मृतमेवाद्य वेत्ति वा ।

भव निश्चयवान्भूत्वा शिलापुरुषनिश्चलः

॥६५॥

प्रेक्षायामस्ति नो चित्तं तद्विहीनोऽसि तत्त्वतः ।

स किमर्थमनर्थेन तद्व्यर्थेन कदर्थ्यसे

॥६६॥

असता चित्तयक्षेण ये मुधा स्ववशे कृताः ।

तेषां पेलवबुद्धीनां चन्द्रादशनिरुत्थितः

॥६७॥

चित्तं दूरे परित्यज्य योऽसि सोऽसि स्थिरो भव ।

भव भावनया मुक्तो युक्त्या परमयान्वितः

॥६८॥

असतो येऽनुवर्तन्ते चेतसोऽसत्यरूपिणः ।

व्योममारणकर्मैकनीतकालान्धिगस्तु तान्

॥६९॥

व्यपगलितमना महानुभावो

भव भवपारगतो भवामलात्मा ।

सुचिरमपि विचारितं न लब्धं

मलममलात्मनि मानसात्म किंचित्

॥७०॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपायेषूत्पत्तिप्रकरणे चित्ताभावप्रतिपादनं नामैकविंशत्युत्तरशततमः सर्गः ।। १२१ ।।