मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — उत्पत्तिप्रकरणम् — सर्गः १२२

3
योगवासिष्ठम् · उत्पत्तिप्रकरणम् · 122

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

प्रथमं जातमात्रेण पुंसा किंचिद्विकसितबुद्धिनैव

सत्संगमपरेण भवितव्यम्

॥१॥

अनवरतप्रवाहपतितोऽयमविद्यानदीनिवहः

शास्त्रसज्जनसंपर्कादृते न तरितुं शक्यते

॥२॥

तेन विवेकतः पुरुषस्य हेयोपादेयविचार उप

जायते

॥३॥

तदासौ शुभेच्छाभिधां विवेकभुवमापतितो

भवति

॥४॥

ततो विवेकवशतो विचारणायाम्

॥५५॥

सम्यग्ज्ञानेनासम्यग्वासनां त्यजतः संस्मारभा-

वनातो मनस्तनुतामेति

॥६॥

तेन तनुमानसां नाम विवेकभूमिमवतीर्णो भ-

वति

॥७॥

यदैव योगिनः सम्यग्ज्ञानोदयस्तदैव सत्त्वा-

पत्तिः

॥८॥

तद्वशाद्वासना तनुतां गता यदा तदैवासावसं-

सक्त इत्युच्यते कर्मफलेन न बध्यत इति

॥९॥

अथ तानववशादसत्ये भावनातानवमभ्यस्यति

॥१०॥

यावन्न कुर्वन्नपि व्यवहरन्नप्यसत्येषु संसारव-

स्तुषु स्थितोऽपि स्वात्मन्येव क्षीणमनस्त्वादभ्या-

सवशाद्बाह्यं वस्तु कुर्वन्नपि न पश्यति नालम्बनेन

सेवते नाभिध्यायति तनुवासनत्वाच्च केवलं मूढः

सुप्तप्रबुद्ध इव कर्तव्यं करोति

॥११॥

तनुभावितमनस्कस्तेन योगभूमिकां भावनाम-

धिरूढः

॥१२॥

इत्यन्तर्लीनचित्तः कतिचित्संवत्सरानभ्यस्य स-

र्वथैव कुर्वन्नपि बाह्यपदार्थान्भावनां त्यजति तुर्यात्मा

भवति ततो जीवन्मुक्त इत्युच्यते

॥१३॥

नाभिनन्दति संप्राप्तं नाप्राप्तमभिशोचति ।

केवलं विगताशङ्कं संप्राप्तमनुवर्तते

॥१४॥

त्वयापि राघव ज्ञातं ज्ञातव्यमखिलान्तरम् ।

ननु ते सर्वकार्येभ्यो वासना तनुतां गता

॥१५॥

शरीरातीतवृत्तिस्त्वं शरीरस्थोऽथवा भव ।

मागाः शोकं च हर्षं त्वं त्वमात्मा विगतामयः

॥१६॥

त्वय्यात्मनि सिते स्वच्छे सर्वगे सर्वदोदिते ।

कुतो दुःखसुखे राम कुतो मरणजन्मनी

॥१७॥

अबन्धुरपि कस्मात्त्वं बन्धुदुःखानि शोचसि ।

अद्वितीये स्थिते ह्यस्मिन्बान्धवाः क इवात्मनि

॥१८॥

दृश्यते केवले देहे परमाणुचयः परम् ।

देशकालान्यतापत्तेर्नात्मोदेति न लीयते

॥१९॥

अविनाशोऽपि कस्मात्त्वं विनश्यामीति शोचसि ।

अमृत्युवसतौ स्वच्छे विनाशः क इवात्मनि

॥२०॥

घटे कपालतां याते घटाकाशो न नश्यति ।

यथा तथा शरीरेऽस्मिन्नष्टेऽपि न विनश्यति

॥२१॥

मृगतृष्णातरङ्गिण्यां क्षीणायामातपो यथा ।

न नश्यति तथा देहे नष्टे नात्मा विनश्यति

॥२२॥

वाञ्छैवोदेति ते कस्माद्भ्रान्तिरन्तर्निरर्थिका ।

अद्वितीयो द्वितीयं किं यद्वस्त्वात्माभिवाञ्छतु

॥२३॥

श्रव्यं स्पृश्यं तथा दृश्यं रस्यं घ्रेयं च राघव ।

न किंचिदस्ति जगति व्यतिरिक्तं यदात्मनः

॥२४॥

सर्वशक्ताविमास्तस्मिन्नात्मन्येवाखिलाः स्थिताः ।

शक्तयो वितते व्यक्ते आकाश इव शून्यता

॥२५॥

चित्ताद्राघव रूढेयं त्रिलोकीललनोदिता ।

त्रिविधेन क्रमेणेह जन्मना जनितभ्रमा

॥२६॥

मनःप्रशमने सिद्धे वासनाक्षयनामनि ।

कर्मक्षयाभिधानैव मायेयं प्रविनश्यति

॥२७॥

संसारोग्रारघट्टेऽस्मिन्नारूढा यन्त्रवाहिनी ।

रज्जुस्तां वासनामेतां छिन्धि राघव यत्नतः

॥२८॥

अपरिज्ञायमानैषा महामोहप्रदायिनी ।

परिज्ञाता त्वनन्ताख्या सुखदा ब्रह्मदायिनी

॥२९॥

आगता ब्रह्मणो भुक्त्वा संसारमिह लीलया ।

पुनर्ब्रह्मैव संस्मृत्य ब्रह्मण्येव विलीयते

॥३०॥

शिवाद्राघव नीरूपादप्रमेयान्निरामयात् ।

सर्वभूतानि जातानि प्रकाशा इव तेजसः

॥३१॥

रेखावृन्दं यथा पर्णे वीचिजालं यथा जले ।

कटकादि यथा हेम्नि तथोष्णादि यथाऽनले

॥३२॥

तदेतद्भावनारूपे तथेदं भुवनत्रयम् ।

तस्मिन्नेव स्थितं जातं तस्मादेव तदेव च

॥३३॥

स एव सर्वभूतानामात्मा ब्रह्मेति कथ्यते ।

तस्मिञ्जाते जगज्ज्ञातं स ज्ञाता भुवनत्रये

॥३४॥

शास्त्रसंव्यवहारार्थं तस्यास्य वितताकृतेः ।

चिद्ब्रह्मात्मेति नामानि कल्पितानि कृतात्मभिः

॥३५॥

विषयेन्द्रियसंयोगे हर्षामर्षविवर्जिता ।

सैषा शुद्धानुभूतिर्हि सोऽयमात्मा चिदव्ययः

॥३६॥

आकाशातितराच्छाच्छ इदं तस्मिंश्चिदात्मनि ।

स्वाभोग एव हि जगत्पृथग्वत्प्रतिबिम्बति

॥३७॥

बुद्धिस्तद्व्यतिरेकेण लोभमोहादयो हि तान् ।

पात्यसद्व्यतिरेकेण ते च तस्मिंस्तदेव ते।

॥३८॥

अदेहस्यैव ते राम निर्विकल्पचिदाकृतेः ।

लज्जाभयविषादेभ्यः कुतो मोहः समुत्थितः

॥३९॥

अदेहो देहजैरेभिर्लज्जादिभिरसन्मयैः ।

किं मूर्ख इव दुर्बुद्धिर्विकल्पैरभिभूयसे

॥४०॥

अखण्डचितिरूपस्य देहे खण्डनमागते ।

असम्यग्दर्शिनोऽप्यस्ति न नाशः किमु सन्मतेः

॥४१॥

आपतेदर्कमार्गेऽपि न निरुद्धगमागमम् ।

चित्तं नाम स विज्ञेयः पुरुषो न शरीरकम्

॥४२॥

शरीरे सत्यसति वा पुमानेव जगत्त्रये ।

ज्ञोऽप्यज्ञोऽपि स्थितो राम नष्टेदेहे न नश्यति

॥४३॥

यानीमानि विचित्राणि दुःखानि परिपश्यसि ।

तानि देहस्य सर्वाणि नाग्राह्यस्य चिदात्मनः

॥४४॥

मनोमार्गादतीतत्वाद्यासौ शून्यमिव स्थिता ।

चित्कथं नाम दुःखैर्वा सुरवेर्वा परिगृह्यते

॥४५॥

स्वास्पदात्मानमेवासौ विनष्टाद्देहपञ्जरात् ।

अभ्यस्तां वासनां यातः षट्पदः खमिवाम्बुजात्

॥४६॥

असच्चेदात्मतत्त्वं तदस्मिंस्ते देहपञ्जरे ।

नष्टे किं नाम नष्टं स्याद्राम केनानुशोचसि

॥४७॥

सत्यं भावय तेन त्वं मा मोहमनुभावय ।

निरिच्छस्यात्मनो नेच्छा काचिदप्यनघाकृतेः

॥४॥

साक्षिभूते समे स्वच्छे निर्विकल्पे चिदात्मनि ।

निरिच्छं प्रतिबिम्बन्ति जगन्ति मुकुरे यथा

॥४९॥

साक्षिभूते समे स्वच्छे निर्विकल्पे चिदात्मनि ।

स्वयं जगन्ति दृश्यन्ते सन्मणाविव रश्मयः ।। '

॥५०॥

अनिच्छमपि संबन्धो यथा दर्पणबिम्बयोः ।

तथैवेहात्मजगतोर्भेदाभेदौ व्यवस्थितौ

॥५१॥

सूर्यसंनिधिमात्रेण यथोदेति जगत्क्रिया ।

चित्सत्तामात्रकेणेदं जगन्निष्पद्यते तथा

॥५२॥

पिण्डग्रहो निवृत्तोऽस्या एवं राम जगत्स्थितेः ।

आकाशमेषा संपन्ना भवतामपि चेतसि

॥५३॥

सत्तामात्रेण दीपस्य यथालोकः स्वभावतः ।

चित्तत्त्वस्य स्वभावात्तु तथेयं जागती स्थितिः

॥५४॥

पूर्वं मनः समुदितं परमात्मतत्त्वात्तेनाततं जगदिदं स्वविकल्पजालैः ।

शून्येन शून्यमपि तेन यथाम्बरेण नीलत्वमुल्लसितचारुतरामिधानम्

॥५५॥

संकल्पसंक्षयवशाद्गलिते तु चित्ते संसारमोहमिहिका गलिता भवन्ति ।

स्वच्छं विभाति शरदीव खमागतायां चिन्मात्रमेकमजमाद्यमनन्तमन्तः

॥५६॥

कर्मात्मकं प्रथममेव मनोऽभ्युदेति संकल्पतः कमलजप्रकृतीस्तदेत्य ।

नानाभिधं जगदिदं हिं मुधा तनोति वेतालदेहकलनामिव मुग्धबालः

॥५७॥

असन्मयं सदिव पुरो विलक्ष्यते पुनर्भवत्यथ परिलीयते पुनः ।

स्वयं मनश्चिति चितसंस्फुरद्वपुर्महार्णवे जलवलयावली यथा

॥५८॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये देवदूतोक्ते मोक्षोपायेषूत्पत्तिप्रकरणे स्वरूपनिरूपणं नाम द्वाविंशत्युत्तरशततमः सर्गः ।। १२२ ।।