मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — उत्पत्तिप्रकरणम् — सर्गः १४

3
योगवासिष्ठम् · उत्पत्तिप्रकरणम् · 14

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

इत्थं जगदहंतादिदृश्यजातं न किंचन ।

अजातत्वाच्च नास्त्वेव यच्चास्ति परमेव तत्

॥१॥

परमाकाशमेवादौ जीवतां चेतति स्वयम् ।

निःस्पन्दाम्भोधिकुहरे सलिलं स्पन्दतामिव

॥२॥

आकाशरूपमजहदेवं वेत्तीव हृद्यताम् ।

स्वप्नसंकल्पशैलादाविव चिद्वृत्तिरान्तरी

॥३॥

पृथ्व्यादिरहितो देहो यो विंराडात्मको महान् ।

आतिवाहिक एवासौ चिन्मात्राच्छनभोमयः

॥४॥

अक्षयः स्वप्नशैलाभः स्थिरस्वप्नपुरोपमः ।

चित्रकृत्स्थिरचित्तस्थचित्रसैन्यसमाकृतिः

॥५॥

अनिखातमहास्तम्भपुत्रिकौघसमोपमः ।

ब्रह्माकाशेऽनिखातात्मा सुस्तम्भे शालभञ्जिका

॥६॥

आद्यः प्रजापतिः एवं स्वयंभूरिति विश्रुतः ।

प्राक्तनानां स्वकार्याणामभावादप्यकारणः

॥७॥

महाप्रलयपर्यन्तेष्वाद्यकालपितामहाः ।

मुच्यन्ते सर्व एवातः प्राक्तनं कर्म तेषु किम्

॥८॥

सोऽकुड्य एव कुड्यात्मा दृश्यादृश्यः स्वयंस्थितः ।

न च दृश्यं न च द्रष्टा न स्रष्टा सर्वमेव च

॥९॥

प्रतिशब्दपदार्थानां सर्वेषामेष एव सः ।

तस्मादुदेति जीवाली दीपाली दीपकादिव

॥१०॥

संकल्प एव संकल्पात्किलैति क्ष्मादिवर्जितः ।

आदिमादिव निःशून्यः स्वप्नात्स्वप्नान्तरं यथा

॥११॥

अस्मादेकप्रतिस्पन्दाज्जीवाः संप्रसरन्ति ये ।

सहकारिकारणानामभावाच्च स एव ते

॥१२॥

सहकारिकारणानामभावे कार्यकारणम् ।

एकमेतदतो नान्यः परस्मात्सर्गविभ्रमः

॥१३॥

ब्रह्मवाद्यो विराडात्मा विराडात्मेव सर्गता ।

जीवाकाशः स एवेत्थं स्थितः पृथ्व्याद्यसद्यतः

॥१४॥

श्रीराम उवाच ।

किं स्यात्परिमितो जीवो राशिराहो अनन्तकः ।

आहोस्विदस्त्यनन्तात्मा जीवपिण्डोऽचलोपमः

॥१५॥

धाराः पयोमुच इव शीकरा इव वारिधेः ।

कणास्तप्तायस इव कस्मान्निर्यान्ति जीवकाः

॥१६॥

इति मे भगवन्ब्रूहि जीवजालविनिर्णयम् ।

ज्ञातमेतन्मया प्रायस्तदेव प्रकटीकुरु

॥१७॥

श्रीवसिष्ठ उवाच ।

एक एव न जीवोऽस्ति राशीनां संभवः कुतः ।

शशशृङ्गं समुड्डीय प्रयातीव हि ते वचः

॥१८॥

न जीवोऽस्ति न जीवानां राशयः सन्ति राघव ।

न चैकः पर्वतप्रख्यो जीवपिण्डोऽस्ति कश्चन

॥१९॥

जीवशब्दार्थकलनाः समस्तकलनान्विताः ।

नेह काश्चन सन्तीति निश्चयोऽस्तु तवाचलः

॥२०॥

शुद्धचिन्मात्रममलं ब्रह्मास्तीह हि सर्वगम् ।

तद्यथा सर्वशक्तित्वाद्विन्दते याः स्वयं कलाः

॥२१॥

चिन्मात्रानुक्रमेणैव संप्रफुल्ललतामिव ।

ननु मूर्ताममूर्ता वा तामेवाशु प्रपश्यति

॥२२॥

जीवो बुद्धिः क्रियास्पन्दो मनोद्वित्वैक्यमित्यपि ।

स्वसत्तां प्रकचन्तीं तां नियोजयति वेदने

॥२३॥

साऽबुद्धैव भवत्येवं भवेद्ब्रह्मैव बोधतः ।

अबोधः प्रेक्षया याति नाशं न तु प्रबुध्यते

॥२४॥

यथान्धकारो दीपेन प्रेक्ष्यमाणः प्रणश्यति ।

न चास्य ज्ञायते तत्त्वमबोधस्यैवमेव हि

॥२५॥

एवं ब्रह्मैव जीवात्मा निर्विभागो निरन्तरः ।

सर्वशक्तिरनाद्यन्तो महाचित्साररूपवान्

॥२६॥

सर्वानणुतया त्वस्य न क्वचिद्भेदकल्पना ।

विद्यते या हि कलना सा तदेवानुभूतितः

॥२७॥

श्रीराम उवाच ।

एवमेतत्कथं ब्रह्मन्नेकजीवेच्छयाखिलाः ।

जगज्जीवा न युज्यन्ते महाजीवैकतावशात्

॥२८॥

श्रीवसिष्ठ उवाच ।

महाजीवात्म तद्ब्रह्म सर्वशक्तिमयात्मकम् ।

स्थितं तथेच्छमेवेह निर्विभागं निरन्तरम्

॥२९॥

यदेवेच्छति तत्तस्य भवत्याशु महात्मनः ।

पूर्वं तेनेष्टमिच्छादि ततो द्वित्वमुदेति यत्

॥३०॥

पश्चाद्द्वित्वविभक्तानां स्वशक्तीनां प्रकल्पितः ।

अनेनेत्थं हि भवतीत्येवं तेन क्रियाक्रमः

॥३१॥

तं विनानुदये त्वासां प्रधानेच्छैव रोहति ।

शक्त्या ह्यजातया ब्राह्म्या नियमोऽयं प्रकल्पितः

॥३२॥

यस्या जीवाभिधानायाः शक्त्यपेक्षा फलत्यसौ ।

प्रधानशक्तिनियमानुष्ठानेन विना न तु

॥३३॥

प्रधानशक्तिनियमः सुप्रतिष्ठो न चेद्भवेत् ।

तत्फलं शक्त्यधीनत्वान्नेहितानां क्वचिद्भवेत्

॥३४॥

एवं ब्रह्म महाजीवो विद्यतेऽन्तादिवर्जितः ।

जीवकोटि महाकोटि भवत्यथ न किंचन

॥३५॥

चेत्यसंवेदनाज्जीवो भवत्यायाति संसृतिम् ।

तदसंवेदनाद्रूपं समायाति समं पुनः

॥३६॥

एवं कनिष्ठजीवानां ज्येष्ठजीवक्रमाक्रमैः ।

समुदेत्यात्मजीवत्वं ताम्राणामिव हेमता

॥३७॥

अत्रान्तरे महाकाश इत्थमेष गणोऽप्यसन् ।

स्वात्मैव सदिवोदेति चिच्चमत्करणात्मकः

॥३८॥

स्वयमेव चमत्कारो यः समापद्यते चितः ।

भविष्यन्नामदेहादि तदहंभावनं विदुः

॥३९॥

चितो यस्माच्चिदालेहस्तन्मयत्वादनन्तकः ।

स एष भुवनाभोग इति तस्यां प्रबिम्बति

॥४०॥

परिणामविकारादिशब्दैः सैव चिदव्यया ।

तादृग्रूपादभेद्यापि स्वशक्त्यैव विबुध्यते

॥४१॥

अविच्छिन्नविलासात्म स्वतो यत्स्वदनं चितः ।

चेत्यस्य च प्रकाशस्य जगदित्येव तत्स्थितम्

॥४२॥

आकाशादपि सूक्ष्मैषा या शक्तिर्वितता चितः ।

सा स्वभावत एवैतामहंतां परिपश्यति

॥४३॥

आत्मन्यात्मात्मनैवास्या यत्प्रस्फुरति वारिवत् ।

जगदन्तमहंताणुं तदैषा संप्रपश्यति

॥४४॥

चमत्कारकरी चारु यच्चमत्कुरुते चितिः ।

स्वयं स्वात्मनि तस्यैव जगन्नाम कृतं ततः

॥४५॥

चितश्चेत्यमहंकारः सैव राघव कल्पना ।

तन्मात्रादि चिदेवातो द्वित्वैकत्वे क्व संस्थिते

॥४६॥

जीवहेत्वादिसंत्यागे त्वं चाहं चेति संत्यज ।

शेषः सदसतोर्मध्ये भवत्यर्थात्मको भवेत्

॥४७॥

चिता यथादौ कलिता स्वसत्ता सा तथोदिता ।

अभिन्ना दृश्यते व्योम्नः सत्तासत्ते न विद्महे

॥४८॥

विश्वं खं जगदीहाख्यं खमस्ति विबुधालयः ।

साकारश्चिच्चमत्काररूपत्वान्नान्यदस्ति हि

॥४९॥

यो यद्विलासस्तस्मात्स न कदाचन भिद्यते ।

अपि सावयवं तस्मात्कैवानवयवे कथा

॥५०॥

चितेर्नित्यमचेत्याया निर्नाम्न्या वितताकृतेः ।

यद्रूपं जगतो रूपं तत्तत्स्फुरणरूपिणः

॥५१॥

मनो बुद्धिरहंकारो भूतानि गिरयो दिशः ।

इति या यास्तु रचनाश्चितस्तत्त्वाज्जगत्स्थितेः

॥५२॥

चितेश्चित्त्वं जगद्विद्धि नाजगच्चित्त्वमस्ति हि ।

अजगत्त्वादचिच्चित्स्याद्भानाद्भेदो जगत्कुतः

॥५३॥

चितेर्मरीचिबीजस्य निजा यान्तश्चमत्कृतिः ।

सा चैषा जीवतन्मात्रमात्रं जगदिति स्थिता

॥५४॥

चित्तात्स्वशक्तिकचनं यदहंभावनं चितः ।

जीवः स्पन्दनकर्मात्मा भविष्यदभिधो ह्यसौ

॥५५॥

यच्चिच्चित्त्वेन कचनं स्वसंपाद्याभिधात्मकम् ।

स्वविकारैर्व्यवच्छेद्यं भिद्यते नो न विद्यते

॥५६॥

चित्स्पन्दरूपिणोरस्ति न भेदः कर्तृकर्मणोः ।

स्पन्दमात्रं भवेत्कर्म स एव पुरुषः स्मृतः

॥५७॥

जीवश्चित्तपरिस्पन्दः पुंसां चित्तं स एव च ।

मनस्त्विन्द्रियरूपं सत्सत्तां नानेव गच्छति

॥५८॥

शान्ताशेषविशेषं हि चित्प्रकाशच्छटा जगत् ।

कार्यकारणकादित्वं तस्मादन्यन्न विद्यते

॥५९॥

अच्छेद्योऽहमदाह्योऽहमक्लेद्योऽशोष्य एव च ।

नित्यः सर्वगतः स्थाणुरचलोऽहमिति स्थितम्

॥६०॥

विवदन्ते तथा ह्यत्र विवदन्तो यथा भ्रमैः ।

भ्रमयन्तो वयं त्वेते जाता विगतविभ्रमाः

॥६१॥

दृश्ये मूर्ते ज्ञसंरूढे विकारादि पृथग्भवेत् ।

नामूर्ते तज्ज्ञकचिते चित्खे सदसदात्मनि

॥६२॥

चित्तरौ चेत्यरसतः शक्तिः कालादिनामिकाम् ।

तनोत्याकाशविशदां चिन्मधुश्रीः स्वमञ्जरीम्

॥६३॥

स्वयं विचित्रं स्फुरति चिदण्डकमनाहतम् ।

स्वयं विलक्षणस्पन्दं चिद्वायुरण्डजात्मकः

॥६४॥

स्वयं विचित्रं कचनं चिद्वारि न निखातगम् ।

स्वयं विचित्रधातुत्वं श्रेष्ठाङ्गमपि निर्मितम्

॥६५॥

स्वविचित्ररसोल्लासा चिज्ज्योत्स्ना सततोदिता ।

स्वयं चिदेव प्रकटश्चिदालोको महात्मकः

॥६६॥

स्वयमस्तं गते बाह्ये स्वज्ञानादुदिता चितिः ।

स्वयं जडेषु जाड्येन पदं सौषुप्तमागता

॥६७॥

स्वयं स्पन्दितयास्पन्दिचित्त्वाच्चिति महानभ ।

चित्प्रकाशप्रकाशो हि जगदस्ति च नास्ति च

॥६८॥

चिदाकाशैकशून्यत्वं जगदस्ति च नास्ति च ।

चिदालोकमहारूपं जगदस्ति च नास्ति च

॥६९॥

चिन्मारुतपरिस्पन्दो जगदस्ति च नास्ति च ।

चिद्धनध्वान्तकृष्णत्वं जगदस्ति च नास्ति च

॥७०॥

चिदर्कालोकदिवसो जगदस्ति च नास्ति च ।

चित्कज्जलरजस्तैलपरमाणुर्जगत्क्रमः

॥७१॥

चिदग्न्यौष्ण्यं जगल्लेखा जगच्चिच्छङ्खशुक्लता ।

जगच्चिच्छैलजठरं चिज्जलद्रवता जगत्

॥७२॥

जगच्चिदिक्षुमाधुर्यं चित्क्षीरस्निग्धता जगत् ।

जगच्चिद्धिमशीतत्वं चिज्ज्वालाज्वलनं जगत्

॥७३॥

जगच्चित्सर्षपस्नेहो वीचिश्चित्सरितो जगत् ।

जगच्चित्क्षौद्रमाधुर्यं जगच्चित्कनकाङ्गदम्

॥७४॥

जगच्चित्पुष्पसौगन्ध्यं चिल्लताग्रफलं जगत्। ।

चित्सत्तैव जगत्सत्ता जगत्सत्तैव चिद्वपुः

॥७५॥

अत्र भेदविकारादि नखे मलमिव स्थितम् ।

इतीदं सन्मयत्वेन सदसद्भुवनत्रयम्

॥७६॥

अविकल्पतदात्मत्वात्सत्तासत्तैकतैव च ।

अवयवावयविता शब्दार्थौ शशशृङ्गवत्

॥७७॥

अनुभूत्यपलापाय कल्पितो यैर्धिगस्तु तान् ।

न विद्यते जगद्यत्र साद्र्यब्ध्युर्वीनदीश्वरम्

॥७८॥

चिदेकत्वात्प्रसङ्गः स्यात्कस्तत्रेतरविभ्रमः ।

शिलाहृदयपीनापि स्वाकाशे विशदैव चित्

॥७९॥

धत्तेऽन्तरखिलं शान्तं संनिवेशं यथा शिला ।

पदार्थनिकराकाशे त्वयमाकाशजो मलः

॥८०॥

सत्तासत्तात्मतात्वत्तामत्ताश्लेषा न सन्ति ते ।

पल्लवान्तरलेखौघसंनिवेशवदाततम्

॥८१॥

अन्यानन्यात्मकमिदं धत्तेऽन्तश्चित्स्वभावतः ।

समस्तकारणौघानां कारणादि पितामहः

॥८२॥

स्वभावतो कारणात्म चित्तं चिद्ध्यनुभूतितः ।

न चासत्त्वमचेत्यायाश्चितो वाचापि सिद्ध्यति

॥८३॥

यदस्ति तदुदेतीति दृष्टं बीजादिवाङ्कुरः

॥८४॥

गगन इव सुशून्यभेदमस्ति

त्रिभुवनमङ्ग महाचितोऽन्तरस्याः ।

परमपदमयं समस्तदृश्यं

त्विदमिति निश्चयवान्भवानुभूतेः

॥८५॥

इत्युक्तवत्यथ मुनौ दिवसो जगाम

सायतनाय विधयेऽस्तमिनो जगाम ।

स्नातुं सभा कृतनमस्करणा जगाम

श्यामाक्षये रविकरैश्च सहाजगाम

॥८६॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे ब्रह्मप्रतिपादनं नाम चतुर्दशः सर्गः ।। १४ ।।