मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — उत्पत्तिप्रकरणम् — सर्गः १७

3
योगवासिष्ठम् · उत्पत्तिप्रकरणम् · 17

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीसरस्वत्युवाच ।

शवीभूतमिमं वत्से भर्तारं पुष्पपुञ्जके ।

आच्छाद्य स्थापयैनं त्वं पुनर्भर्तारमेप्यसि

॥१॥

पुष्पाणि म्लानिमेष्यन्ति नो नचैष विनङ्क्ष्यति ।

भूयश्च तव भर्तृत्वमचिरेण करिष्यति

॥२॥

एतदीयश्च जीवोऽसावाकाशविशदस्तव ।

न निर्गमिष्यति क्षिप्रमितोऽन्तःपुरमण्डपात्

॥३॥

षट्पदश्रेणिनयना समाकर्ण्येति बन्धुभिः ।

सा समाश्वासितागत्य पयोभिरिव पद्मिनी

॥४॥

पतिं संस्थाप्य तत्रैव पुष्पपूरप्रगोपितम् ।

किंचिदाश्वासिताऽतिष्ठद्दरिद्रेव निधानिनी

॥५॥

तस्मिन्नेव दिने सैषा तस्मिञ्छुद्धान्तमण्डपे ।

अर्धरात्रे परिजने सर्वस्मिन्निद्रया हृते

॥६॥

ज्ञप्तिं भगवतीं देवीं शुद्धध्यानमहाधिया ।

दुःखादाह्वाययामास सोवाच समुपेत्य ताम्

॥७॥

किं स्मृतास्मि त्वया वत्से धत्से किमिति शोकिताम् ।

संसारभ्रान्तयो भान्ति मृगतृष्णाम्बुवत्तधा

॥८॥

लीलोवाच ।

क्व ममावस्थितो भर्ता किं करोत्यथ कीदृशः ।

समीपं नय मां तस्य नैका शक्नोमि जीवितुम्

॥९॥

श्रीदेव्युवाच ।

चित्ताकाशं चिदाकाशमाकाशं च तृतीयकम् ।

द्वाभ्यां शून्यतरं विद्धि चिदाकाशं वरानने

॥१०॥

तच्चिदाकाशकोशात्म चिदाकाशैकभावनात् ।

अविद्यमानमप्याशु दृश्यतेऽथानुभूयते

॥११॥

देशाद्देशान्तरप्राप्तौ संविदो मध्यमेव यत् ।

निमिषेण चिदाकाशं तद्विद्धि वरवर्णिनि

॥१॥

तस्मिन्निरस्तनिःशेषसंकल्पा स्थितिमेषि चेत् ।

सर्वात्मकं पदं तत्त्वं त्वं तदाप्नोष्यसंशयम्

॥१३॥

अत्यन्ताभावसंपत्त्या जगतश्चैतदाप्यते ।

नान्यथा मद्वरेणाशु त्वं तु प्राप्स्यसि सुन्दरि

॥१४॥

श्रीवसिष्ठ उवाच ।

इत्युक्त्वा सा ययौ देवी दिव्यमात्मीयमास्पदम् ।

लीला तु लीलयैवासीन्निर्विकल्पसमाधिभाक्

॥१५॥

तत्तत्याज निमेषेण सान्तःकरणपञ्जरम् ।

स्वदेहं खमिवोड्डीना मुक्तनीडा विहंगमी

॥१६॥

ददर्श खस्था भर्तारं तस्मिन्नेवालयाम्बरे ।

संस्थितं पृथिवीपालमास्थाने बहुराजनि

॥१७॥

सिंहासने समारूढं जयजीवेति संस्तुतम् ।

प्रस्तुतं मण्डलानीककार्यमाहर्तुमादृतम्

॥१८॥

पताकामञ्जरीकीर्णराजधानीगृहस्थितम् ।

पूर्वद्वारस्थितासंख्यमुनिविप्रर्षिमण्डलम्

॥१९॥

दक्षिणद्वारगासंख्यराजराजेशमण्डलम् ।

पश्चिमद्वारगासंख्यललनालोकमण्डलम्

॥२०॥

उत्तरद्वारगासंख्यरथहस्त्यश्वसंकुलम् ।

एकभृत्यविनिर्णीतदक्षिणापथविग्रहम्

॥२१॥

कर्णाटनाथरचितपूर्वदेशक्रियाक्रमम् ।

सुराष्ट्राधिपनिर्णीतसर्वम्लेच्छोत्तरापथम्

॥२२॥

मालदेशसमाक्रान्तसर्वपाश्चात्यतङ्गणम् ।

दक्षिणाब्धितटायातलङ्कादूतविनोदितम्

॥२३॥

पूर्वाब्धितटमाहेन्द्रसिद्धोक्तगगनापगम् ।

उत्तराब्धितटायातदूतवर्णितगुह्यकम्

॥२४॥

पश्चिमाब्धितटालोकवर्णितास्तमद्यक्रमम् ।

असंख्यवद्धभूपालकलाकीर्णाखिलाजिरम्

॥२५॥

यज्ञवाटपठद्विप्र जिततूर्याग्रनिःस्वनम् ।

बन्दिकोलाहलोल्लासप्रतिश्रुद्वनकुञ्जरम्

॥२६॥

गेयवाद्योद्यतध्वानप्रध्वनद्गगनान्तरम् ।

हयहस्तिरथाराजिरजोमेघघनाम्बरम्

॥२७॥

पुष्पकर्पूरधूपाढ्यं गन्धामोदितपर्वतम् ।

सर्वमण्डलसंभाररचितानेकशासनम्

॥२८॥

यशःकर्पूरजलदसुशुभ्राम्बरपर्वतम् ।

रोदसीस्तम्भभूतैकस्वप्रतापजितार्ककम्

॥२९॥

आरम्भमन्थरोदारकार्यसंव्यग्रभूमिपम् ।

नानानगरनिर्माणसोद्योगस्थपतीश्वरम्

॥३०॥

पपाताथ महारम्भा सा तां नरपतेः सभाम् ।

व्योमात्मिका व्योममयीं मिहिकेवाम्बराटवीम्

॥३१॥

भ्रमन्तीं तत्र तामग्रे ददृशुस्ते न केचन ।

संकल्पमात्ररचितां पुरुषाः कामिनीमिव

॥३२॥

तथा ते तां न ददृशुः संचरन्तीं पुरोगताम् ।

अन्यसंकल्परचितामन्येन नगरीं यथा

॥३३॥

प्राक्तनानेव तान्सर्वान्स्वान्ददर्श सभागतान् ।

भूभृतेव सुसंप्रज्ञान्नगरान्नगरान्तरम्

॥३४॥

तद्देशांस्तत्समाचारांस्तथा तानेव बालकान् ।

ता एव बालवनितास्तांस्तानेव च मन्त्रिणः

॥३५॥

तानेव भूमिपालांश्च तांस्तानेव च पण्डितान् ।

तानेव नर्मसचिवान्भृत्यांस्तानेव तादृशान्

॥३६॥

अथान्यानप्यपूर्वांश्च पण्डितान्सुहृदस्तथा ।

व्यवहारांस्तथान्यांश्च पौरानन्यांस्तथैव च

॥३७॥

मध्याह्नकाले दिवसे घनदावाकुला दिशः ।

अन्तरिक्षं सचन्द्रार्कं साम्भोदपवनध्वनि

॥३८॥

महीरुहनदीशैलपुरपत्तनमण्डितम् ।

नानानगरविन्यास जङ्गलग्रामसंकुलम्

॥३९॥

द्विरष्टवर्षं भूपालं प्राक्तन्या जरसोज्झितम् ।

प्राक्तनीं जनतां सर्वां समस्तान्ग्रामवासिनः

॥४०॥

सा तानालोक्य ललना चिन्तापरवशाभवत् ।

तस्मिन्नगरवास्तव्याः किं ते सर्वे मृता इति

॥४१॥

पुनः प्रज्ञप्तिबोधेन प्राक्तनान्तःपुरं गता ।

क्षणेन च ददर्शात्र सार्धरात्रे तथैव तान्

॥४२॥

अथ सोत्थापयामास निद्राक्रान्तं सखीजनम् ।

आह चातीव मे दुःखमास्थानं दीयतामिति

॥४३॥

भर्तुः सिंहासनस्यास्य पार्श्वे तिष्ठाम्यहं यदि ।

पश्यामि स्वभ्यसंघातं तत्प्रजीवामि नान्यथा

॥४४॥

स राजपरिवारोऽथ तयेत्युक्ते यथाक्रमम् ।

आसीद्विनिद्रः संव्यग्रः सर्वः सर्वस्वकर्मणि

॥४५॥

पौरान्सभ्यात्समानेतुं ययुर्याष्टीकपङ्क्तयः ।

व्यवहारं कलयितुमुर्व्यामर्ककरा इव

॥४६॥

आस्थानभूमिं भृत्याश्च मार्जयामासुरादृताः ।

प्रावृट्पयोदमलिन खं शरद्वासरा इव

॥४७॥

अङ्गणं प्रति दीपौघास्तस्थुः पीततमोम्भसः ।

आश्चर्यदर्शनायेव संप्राप्ता ऋक्षपङ्क्तयः

॥४८॥

जनताः पूरयामासुः पूरैरजिरभूमिकाः ।

अब्धीन्प्रलयसंशुष्कान्पुरासर्ग इवाम्भसा

॥४९॥

आजग्मुर्मन्त्रिसामन्ताः स्वंस्वं स्थानमनिन्दिताः ।

त्रैलोक्ये पुनरुत्पन्ने लोकपाला यथा दिशः

॥५०॥

ववुराकीर्णकर्पूरसान्द्रावश्यायशीतलाः ।

उत्फुल्लकुसुमोद्वान्तमांसलामोदितानिलाः

॥५१॥

पर्यन्तेषु प्रतीहारास्तस्थुर्धवलवाससः ।

ऋष्यमूकार्कतापार्तमेघमाला इवाद्रिषु

॥५२॥

प्रभापीततमः पुञ्जाः पेतुः पुष्पोत्करा भुवि ।

चण्डमारुतविध्वस्तास्तारकानिकरा इव

॥५३॥

आस्थानं पूरयामासुर्महीपालानुयायिनः ।

उत्फुल्लकमलोत्कीर्णं हंसा इव सरोवरम्

॥५४॥

सिंहासनसमीपस्थे हैमचित्रासने नवे ।

उपाविशदसौ लीला लीलेव स्मरचेतसि

॥५५॥

ददर्श तान्नृपान्सर्वान्पूर्वानेव यथास्थितान् ।

गुरूनार्यान्सखीन्सभ्यान्सुहृत्संबन्धिबान्धवान्

॥५६॥

सकलमेव हि पूर्ववदेव सा समवलोक्य मुदं परमां ययौ ।

नृपतिराष्ट्रजनं खलु जीवनाभ्युदितया च बभौ शशिवच्छ्रिया

॥५७॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलोपाख्याने सदेहराष्ट्रवर्णनं नाम सप्तदशः सर्गः ।। १७ ।।