मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — उत्पत्तिप्रकरणम् — सर्गः १८

3
योगवासिष्ठम् · उत्पत्तिप्रकरणम् · 18

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

इत्थं विनोदयामीदं दुःखदं चित्तमित्यलम् ।

बोधयित्वेङ्गितैर्भूपानास्थानादुत्थिताथ सा

॥१॥

प्रविश्यान्तःपुरं भर्तुः पार्श्वेऽन्तःपुरमण्डपे ।

विवेश पुष्पगुप्तस्य चिन्तयामास चेतसा

॥२॥

अहो विचित्रा मायेयमेतेऽस्मत्पुरमानवाः ।

बहिरन्तरवद्देशे तत्र चेह च संस्थिताः

॥३॥

तालीतमालहिंतालमालिता गिरयोऽप्यमी ।

यथा तत्र तथेहापि बत मायेयमातता

॥४॥

आदर्शेऽन्तर्बहिश्चैव यथा शैलोऽनुभूयते ।

बहिरन्तश्चिदादर्शे तथा सर्गोऽनुभूयते

॥५॥

तत्र भ्रान्तिमयः सर्गः कः स्यात्कः पारमार्थिकः ।

इति पृच्छामि वागीशामभ्यर्च्योक्तमसंशयम्

॥६॥

इति निश्चित्य तां देवीं पूजयामास सा तदा ।

ददर्श च पुरः प्राप्तां कुमारीरूपधारिणीम्

॥७॥

भद्रासनगतां देवीमुपविश्य पुरोगता ।

परमार्थमहाशक्तिं लीलाऽपृच्छद्भुवि स्थिता

॥८॥

लीलोवाच ।

अनुकम्प्यस्य नो देवि भजन्त्युद्वेगमुत्तमाः ।

त्वयेव किल सर्गादौ स्थापिता स्थितिरुत्तमा

॥९॥

तदिदं यत्पुरः प्रह्वा पृच्छामि परमेश्वरि ।

तद्ब्रूहि त्वत्कृतो नूनं सफलो मेऽस्त्वनुग्रहः

॥१०॥

अस्यादर्शो जगन्नाम्नः खादप्यधिकनिर्मलः ।

यस्य योजनकोटीनां कोटयोऽवयवो मनाक्

॥११॥

निःसंधितवचोज्योतिर्घनो मृदुसुशीतलः ।

अचेत्यचिदिति ख्यातो नाम्ना निर्भित्तिरग्रतः

॥१२॥

दिक्कालकलनाकाशप्रकाशनियतिक्रमाः ।

यत्रेमे प्रतिबिम्बन्ति परां परिणतिं गताः

॥१३॥

त्रिजगत्प्रतिबिम्बश्रीर्बहिरन्तश्च संस्थिता ।

तत्र वै कृत्रिमा का स्यात्कासौ वा स्यादकृत्रिमा

॥१४॥

श्रीदेव्युवाच ।

अकृत्रिमत्वं सर्गस्य कीदृशं वद सुन्दरि ।

कीदृशं कृत्रिमत्वं स्याद्यथावत्कथयेति मे

॥१५॥

लीलोवाच ।

यथाहमिह तिष्ठामि त्वं च देवि स्थिताम्बिके ।

असावकृत्रिमः सर्ग इति देवेशि वेद्म्यहम्

॥१६॥

यत्राधुना स भर्ता मे स्थितः सर्गः स कृत्रिमः ।

अहं मन्ये यतः शून्यो देशकालाद्यपूरकः

॥१७॥

श्रीदेव्युवाच ।

कृत्रिमोऽकृत्रिमात्सर्गान्न कदाचन जायते ।

नहि कारणतः कार्यमुदेत्यसदृशं क्वचित्

॥१८॥

लीलोवाच ।

दृश्यते कारणात्कार्यं सुविलक्षणमम्बिके ।

अम्ब्वादातुमशक्ता मृद्धटस्तज्जस्तदास्पदम्

॥१९॥

श्रीदेव्युवाच ।

संपद्यते हि यत्कार्यं कारणैः सहकारिभिः ।

मुख्यकारणवैचित्र्यं किंचित्तत्रावलोक्यते

॥२०॥

वद तद्भर्तृसर्गस्य किं पृथ्व्यादिषु कारणम् ।

तद्भूमण्डलतो भूतिर्जाता तत्र वरानने

॥२१॥

गतं चेदित उड्डीय कुतः स्यादिह भूतलम् ।

सहकारीणि कानीव कारणान्यत्र कारणे

॥२२॥

कारणानामभावेऽपि योदेति सहकारिता ।

तत्पूर्वकारणान्नान्यत्सर्वेणेत्यनुभूयते

॥२३॥

लीलोवाच ।

स्मृतिः सा देवि मद्भर्तुस्तथा स्फारत्वमागता ।

स्मृतिस्तत्कारणं वेद्मि सर्गोऽयमिति निश्चयः

॥२४॥

श्रीदेव्युवाच ।

स्मृतिराकाशरूपा च यथा तज्जस्तथैव ते ।

भर्तुः सर्गोऽनुभूतोऽपि स व्योमैव तथाबले

॥२५॥

लीलोवाच ।

स्मृत्याकाशमयः सर्गो यथा भर्तुर्ममोदितः ।

तथैवेममहं मन्ये स सर्गोऽत्र निदर्शनम्

॥२६॥

श्रीदेव्युवाच ।

एवमेतदसत्सर्गो भर्तुस्तैर्भाति भासुरः ।

तथैवायमिहाभाति पश्याम्येतदहं सुते

॥२७॥

लीलोवाच ।

यथा पत्युरमूर्तोऽस्मात्सर्गात्सर्गो भ्रमात्मकः ।

जातस्तथा कथय मे जगद्भ्रमनिवृत्तये

॥२८॥

श्रीदेव्युवाच ।

प्राक्स्मृतेर्भ्रान्तिमात्रात्मा सर्गोऽयमुदितो यथा ।

स्वप्नभ्रमात्मको भाति तथेदं कथ्यते शृणु

॥२९॥

अस्ति क्वचिच्चिदाकाशे क्वचित्संसारमण्डपः ।

आकाशकाचदलवत्संस्थानाच्छादिताकृतिः

॥३०॥

मेरुस्तम्भस्थलोकेशपुरन्ध्रीशालभञ्जिकः ।

चतुर्दशापवरकस्त्रिगर्तो भानुदीपकः

॥३१॥

कोणस्थभूतवल्मीकव्याप्तपर्वतलोष्टकः ।

अनेकपुत्रजरठप्रजेशब्राह्मणास्पदम्

॥३२॥

जीवौघकोशकाराढ्यो व्योमोर्ध्वतलकालिमा ।

नभोनिवाससिद्धौघमशकाहितघुंघुमः

॥३३॥

पयोदगृहधूमोग्रजालावलितकोणकः ।

वातमार्गमहावंशस्थितवैमानकीटकः

॥३४॥

सुरासुरादिदुर्बाललीलाकलकलाकुलः ।

लोकान्तरपुरग्रामभाण्डोपस्करनिर्भरः

॥३५॥

सरःस्रोतोब्धिसरसीजलोक्षितमहीतलः ।

पातालभूतलस्वर्गभागभासुरकोटरः

॥३६॥

तत्र कस्मिंश्चिदेकस्मिन्कोणेष्वम्बरकोटरे ।

शैललोष्टतलेष्वेको गिरिग्रामकगर्तकः

॥३७॥

तस्मिन्नदीशैलवनोपगूढे साग्निः सदारः सुतवानरोगः ।

गोक्षीरवान् राजभयाद्विमुक्तः सर्वातिथिर्धर्मपरो द्विजोऽभूत्

॥८॥

इत्यार्षे श्रीवासिष्ठमहारामायणे मोक्षोपाये उत्पत्तिप्रकरणे लीलो० जगद्भान्तिप्रतिपादनं नामाष्टादशः सर्गः ।। १८ ।।