मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — उत्पत्तिप्रकरणम् — सर्गः २९

3
योगवासिष्ठम् · उत्पत्तिप्रकरणम् · 29

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

तत्र ते पेततुर्देव्यौ ग्रामेऽन्तःशीतलात्मनि ।

भोगमोक्षश्रियौ शान्ते पुंसीव विदितात्मनि

॥१॥

कालेनैतावता लीला तेनाभ्यासेन साभवत् ।

शुद्धज्ञानैकदेहत्वात्त्रिकालामलदर्शिनी

॥२॥

अथ सस्मार सर्वास्ताः प्राक्तनीः संसृतेर्गतीः ।

सा स्वयं स्वरसेनैव प्राग्जन्ममरणादिकाः

॥३॥

लीलोवाच ।

देवि देशमिमं दृष्ट्वा त्वत्प्रसादात्स्मराम्यहम् ।

इह तत्प्राक्तनं सर्वं चेष्टितं चेष्टितान्तरम्

॥४॥

इहाभूवमहं जीर्णा शिरालाङ्गी कृशा सिता ।

ब्राह्मणी शुष्कदर्भाग्रमे(भे)दरूक्षकरोदरा

॥५॥

भर्तुः कुलकरी भार्या दोहमन्थानशालिनी ।

माता सकलपुत्राणामतिथीनां प्रियंकरी

॥६॥

देवद्विजसतां भक्ता सिक्ताङ्गी घृतगोरसैः ।

भर्जनी चरुकुम्भादिभाण्डोपस्करशोधिनी

॥७॥

नित्यमन्नलवाक्तैककाचकम्बुप्रकोष्ठका ।

जामातृदुहितृभ्रातृपितृमातृप्रपूजनी

॥८॥

आदेहं सद्मभृत्यैव प्रक्षीणदिनयामिनी ।

वाचं चिरं चिरमिति वादिन्यनिशमाकुला

॥९॥

काहं क इव संसार इति स्वप्नेऽप्यसंकथा ।

जाया श्रोत्रियमूढस्य तादृशस्यैव दुर्धियः

॥१०॥

एकनिष्ठा समिच्छाकगोमयेन्धनसंचये ।

म्लानकम्बलसंवीतशिरालकृशगात्रिका

॥११॥

तर्णकीकर्णजाहस्थकृमिनिष्कासतत्परा ।

गृहशाकायनासेकसत्वराहूतकर्परा

॥१२॥

नीलनीरतरङ्गान्ततृणतर्पिततर्णिका ।

प्रतिक्षणं गृहद्वारकृतलेपनवर्णका

॥१३॥

नीत्यर्थं गृहभृत्यानामादीनकृतवाच्यता ।

मर्यादानियमादब्धेर्वेलेवानिशमच्युता

॥१४॥

जीर्णपर्णसवर्णैककर्णदोलाधिरूढया ।

काष्ठताड्यजराभीतजीववृत्त्येव चिह्निता

॥१५॥

श्रीवसिष्ठ उवाच ।

इत्युक्त्वा संचरन्ती सा शिखरिग्रामकोटरे ।

संचरन्त्याः सरस्वत्या दर्शयामास सस्मयम्

॥१६॥

इयं मे पाटलाखण्डमण्डिता पुष्पवाटिका ।

इयं मे पुष्पितोद्यानमण्डपाशोकवाटिका

॥१७॥

इयं पुष्कीरणीतीरद्रुमाऽऽग्रन्थिततर्णका ।

इयं सा कर्णिकानाम्नी तर्णिका मुक्तपर्णिका

॥१८॥

इयं सा मेऽलसाकीर्णा वराकी जलहारिका ।

अद्याष्टमं दिनं बाष्पक्लिन्नाक्षी परिरोदिति

॥१९॥

इह देवि मया भुक्तमिहोषितमिह स्थितम् ।

इह सुप्तमिहापीतमिह दत्तमिहाहृतम्

॥२०॥

एष मे ज्येष्ठशर्माख्यः पुत्रो रोदिति मन्दिरे ।

एषा मे जङ्गले धेनुर्दोग्ध्री चरति शाद्वलम्

॥२१॥

गृहे वसन्तदाहाय रूक्षक्षारविधूसरम् ।

स्वदेहमिव पञ्चाक्षं पश्येमं प्रघणं मम

॥२२॥

तुम्बीलताभिरुग्राभिः पुष्टाभिरिव वेष्टितम् ।

महानसस्थानमिदं मम देहमिवापरम्

॥२३॥

एते रोदनताम्राक्षा बन्धवो भुवि बन्धनम् ।

अङ्गदार्पितरुद्राक्षा आहरन्त्यनलेन्धनम्

॥२४॥

अनारतं शिलाकच्छे गुच्छाच्छोटनकारिभिः ।

तरङ्गैः स्थगिताकारं स्पृष्टतीरलतादलैः

॥२५॥

सीकराकीर्णपर्यन्तशाद्वलस्थलसल्लतैः ।

शिलाफलहकास्फालफेनिलोत्पलसीकरैः

॥२६॥

तुषारीकृतमध्याह्नदिवाकरकरोत्करैः ।

फुल्लपुष्पोत्करासारप्रणादोत्कतटद्रुमैः

॥२७॥

विद्रुमैरिव संक्रान्तफुल्लकिंशुककान्तिभिः ।

व्याप्तया पुष्पराशीनां समुल्लासनकारिभिः

॥२८॥

उह्यमानफलापूरसुव्यग्रग्रामबालया ।

महाकलकलावर्तमत्तया ग्रामकुल्यया

॥२९॥

वेष्टितस्तरलास्फालजलधौततलोपलः ।

घनपत्रतरुच्छन्नच्छायासततशीतलः

॥३०॥

अयमालक्ष्यते फुल्ललतावलनसुन्दरः ।

दलद्गुलुच्छकाच्छन्नगवाक्षो गृहमण्डपः

॥३१॥

अत्र मे संस्थितो भर्ता जीवाकाशतयाऽकृतिः ।

चतुःसमुद्रपर्यन्तमेखलाया भुवः पतिः

॥३२॥

आ स्मृतं पूर्वमेतेन किलासीदभिवाञ्छितम् ।

शीघ्रं स्यामेव राजेति तीव्रसंवेगधर्मिणा

॥३३॥

दिनैरष्टभिरेवासौ तेन राज्यं समृद्धिमत् ।

चिरकालप्रत्ययदं प्राप्तवान्परमेश्वरि

॥३४॥

अत्रासौ भर्तृजीवो मे स्थितो व्योम्नि गृहे नृपः ।

अदृश्यः खे यथा वायुरामोदो वानिले यथा

॥३५॥

इहैवाङ्गुष्ठमात्रान्ते तद्व्योम्न्येव पदं स्थितम् ।

मद्भर्तृराज्यं समवगतं योजनकोटिभाक्

॥३६॥

आवां खमेव स्वस्थं च भर्तृराज्यं ममेश्वरि ।

पूर्णं सहस्रैः शैलानां महामायेयमातता

॥३७॥

तद्देवि भर्तृनगरं पूनर्गन्तुं ममेप्सितम् ।

तदेहि तत्र गच्छावः किं दूरं व्यवसायिनाम्

॥३८॥

श्रीवसिष्ठ उवाच ।

इत्युक्त्वा प्रणता देवीं सा प्रविश्याशु मण्डपम् ।

विहंगीव तया साकं पुप्लुवे सिनिभं नमः

॥३९॥

भिन्नाञ्जनचयप्रख्यं सौम्यैकार्णवसुन्दरम् ।

नारायणाङ्गसदृशं भृङ्गपृष्ठामलच्छवि

॥४०॥

मेघमार्गमतिक्रम्य वातस्कन्धावनिं तथा ।

सौरमार्गमथाक्रम्य चन्द्रमार्गमतीत्य च

॥४१॥

धुवमार्गोत्तरं गत्वा साध्यानां मार्गमेत्य च ।

सिद्धानां समतीत्योर्वीमुल्लङ्घ्य स्वर्गमण्डलम्

॥४२॥

ब्रह्मलोकोत्तरं गत्वा तुषितानां च मण्डलम् ।

गोलोकं शिवलोकं च पितृलोकमतीत्य च

॥४३॥

विदेहानां सदेहानां लोकानुत्तीर्य दूरगम् ।

दूराद्दूरमथो गत्वा किंचिद्बुद्धा बभूव सा

॥४४॥

पश्चादालोकयामास समतीतं नभस्थलम् ।

यावन्न किंचिच्चन्द्रार्कताराद्यालक्ष्यते ह्यधः

॥४५॥

तमस्तिमितगम्भीरमाशाकुहरपूरकम् ।

एकार्णवोदरप्रख्यं शिलोदरघनं स्थितम्

॥४६॥

लीलोवाच ।

तद्देवि भास्करादीनां क्वाधस्तेजो गतं वद ।

शिलाजठरनिष्पन्दं मुष्टिग्राह्यं तमः कुतः

॥४७॥

श्रीदेव्युवाच ।

एतावतीमिमां व्योम्नः पदवीमागतासि भोः ।

अर्कादीन्यपि तेजांसि यतो दृश्यन्त एव नो

॥४८॥

यथा महान्धकूपाधः खद्योतो नावलोक्यते ।

पृष्ठगेन तथेहातो नाधः सूर्योऽवलोक्यते

॥४९॥

लीलोवाच ।

अहो नु पदवीं दूरमावामेतामुपागते ।

सूर्योऽप्यधोणुकणवन्न मनागपि लक्ष्यते

॥५०॥

इत उत्तरमन्या स्यात्पदवी का नु कीदृशी ।

कथं च मातरेतव्या कथ्यतामिति देवि मे

॥५१॥

श्रीदेव्युवाच ।

इत उत्तरमग्रे ते ब्रह्माण्डपुटकर्परम् ।

यस्य चन्द्रादयो नाम धूलिलेशाः समुत्थिताः

॥५२॥

श्रीवसिष्ठ उवाच ।

इति प्रकथयन्त्यौ ते प्राप्ते ब्रह्माण्डकर्परम् ।

भ्रमर्याविव शैलस्य कुड्यं निबिडमण्डपम्

॥५३॥

अक्लेशेनैव ते तस्मान्निर्गते गगनादिव ।

निश्चयस्थं हि यद्वस्तु तद्वज्रगुरु नेतरत्

॥५४॥

निरावरणविज्ञाना सा ददर्श ततस्ततम् ।

जलाद्यावरणं पारे ब्रह्माण्डस्यातिभासुरम्

॥५५॥

ब्रह्माण्डाद्दशगुणतस्तोयं तत्र व्यवस्थितम् ।

आस्थितं वेष्टयित्वा तु त्वगिवाक्षोटपृष्ठगा

॥५६॥

तस्माद्दशगुणो वह्निस्तस्माद्दशगुणोऽनिलः ।

ततो दशगुणं व्योम ततः परममम्बरम्

॥५७॥

तस्मिन्परमके व्योम्नि मध्याद्यन्तविकल्पनाः ।

न काश्चन समुद्यन्ति वन्ध्यापुत्रकथा इव

॥५८॥

केवलं विततं शान्तं तदनादि गतभ्रमम् ।

आद्यन्तमध्यरहितं महत्यात्मनि तिष्ठति

॥५९॥

आकल्पमुत्तमबलेन शिला पतेच्चे-

त्तस्मिन्बलात्पतगराडपि चोत्पतेच्चेत् ।

तद्योजनं न लभते विमलेऽम्बरेऽन्त-

र्माकल्पमेकजवगोऽप्यथ मारुतोऽपि

॥६०॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलो० परमाकाशवर्णनं नामैकोनत्रिंशः सर्गः ।। २९ ।।