मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — उत्पत्तिप्रकरणम् — सर्गः ४४

3
योगवासिष्ठम् · उत्पत्तिप्रकरणम् · 44

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

एतस्मिन्नन्तरे राजमहिषी मत्तयौवना ।

तद्विवेश गृहं लक्ष्मीरिव पङ्कजकोटरम्

॥१॥

आलोलमाल्यवसना भिन्नहारलताकुला ।

अनुयाता वयस्याभिर्दासीभिर्भयविह्वला

॥२॥

चन्द्राननावदाताङ्गी श्वासोत्कम्पिपयोधरा ।

तारकाकारदशना स्थिता द्यौरिव रूपिणी

॥३॥

अथ तस्या वयस्यैका राजानं तं व्यजिज्ञपत् ।

भूतसंग्रामसंरब्धममरेन्द्रमिवाप्सराः

॥४॥

देव देवी सहास्माभिः पलाय्यान्तःपुरान्तरात् ।

शरणं देवमायाता वातार्तेव लता द्रुमम्

॥४॥

राजन्दारा हृतास्तास्ते बलवद्भिरुदायुधैः ।

ऊर्मिजालैर्महाब्धीनां तीरद्रुमलता इव

॥६॥

अन्तःपुराधिपाः सर्वे पिष्टाः शत्रुभिरुद्धतैः ।

अशङ्किताभिपतितैर्वातैरिव वरद्रुमाः

॥७॥

दूरेणाशङ्कमायातैः परैर्नः पुरमाहृतम् ।

रात्रौ वर्षास्विवोद्धोषैः कमलानीव वारिभिः

॥८॥

धूमं वर्षद्भिरुन्नादैर्लेलिहानोग्रहेतिभिः ।

वह्निभिर्नः पुरं प्राप्तं परयोधैश्च भूरिभिः

॥९॥

परिवारैर्विलासिन्यो देव्य आहृत्य मूर्धजैः ।

आक्रन्दन्त्यो बलान्नीताः कुरर्य इव धीवरैः

॥१०॥

इति नो येयमायाता शाखा प्रसरशालिनी ।

आपत्तामलमुद्धर्तुं देवस्यैवास्ति शक्तता

॥११॥

इत्याकर्ण्यावलोक्यासौ देव्यौ युद्धाय याम्यतः ।

क्षम्यतां मम भार्येयं युष्मत्पादाब्जषट्पदी

॥१२॥

इत्युक्त्वा निर्ययौ राजा कोपारुणितलोचनः ।

मत्तेभनिर्भिन्नवनः कन्दरादिव केसरी

॥१३॥

लीला लीलां ददर्शाथ स्वाकारसदृशाकृतिम् ।

प्रतिबिम्बमिवायातामादर्शे चारुदर्शनाम्

॥१४॥

प्रबुद्धलीलोवाच ।

किमिदं देवि हे ब्रूहि कस्मादियमहं स्थिता ।

या साऽभवमहं पूर्वं कथं सेयमहं स्थिता

॥११॥

मन्त्रिप्रभृतयः पौरा योधाः सबलवाहनाः ।

सर्व एव त एवेमे स्थितास्तत्र तथैव ते

॥१६॥

तत्रापीह च हे देवि सर्वे कथमवस्थिताः ।

बहिरन्तश्च मुकुरे इवैते किं प्रचेतनाः

॥१७॥

श्रीदेव्युवाच ।

यथा ज्ञप्तिरुदेत्यन्तस्तथानुभवति क्षणात् ।

चितिश्चेत्यार्थतामेति चित्तं चित्तार्थतामिव

॥१८॥

यादृगर्थं जगद्रूपं तत्रैवोदेति तत्क्षणात् ।

न देशकालदीर्घत्वं न वैचित्र्यं पदार्थजम्

॥१९॥

बाह्यमाभ्यन्तरं भाति स्वप्नार्थोऽत्र निदर्शनम् ।

यदन्तः स्वप्नसंकल्पपुरं च कचनं चितेः

॥२०॥

तदेतद्बाह्यनाम्नैव स्वभ्यासात्सत्स्फुटं स्थितम् ।

यादृग्भावो मृतो भर्ता तव तस्मिंस्तदा पुरे

॥२१॥

तादृग्भावस्तमेवार्थं तत्रैव समुपागतः ।

अन्य एव ह्यमी भूतास्तेभ्यस्तास्तादृशा अपि

॥२२॥

सद्रूपा एव चैतस्य स्वप्नसंकल्पसैन्यवत् ।

अविसंवादि सर्वार्थरूपं यदनुभूयते

॥२३॥

तस्य तावद्वद कथं कीदृशी वापि सत्यता ।

अथवोत्तरकाले तु भङ्गुरत्वादवस्तु तत्

॥२४॥

ईदृक्च सर्वमेवेदं तत्र का नास्तिताधिका ।

स्वप्ने जाग्रदसद्रूपा स्वप्नो जाग्रत्यसन्मयः

॥२५॥

मृतिर्जन्मन्यसद्रूपा मृत्यां जन्माप्यसन्मयम् ।

विशरेद्विशरारुत्वादनुभूतेश्च राघव

॥२६॥

एवं न सन्नासदिदं भ्रान्तिमात्रं विभासते ।

महाकल्पान्तसंपत्तावप्यद्याथ युगेऽनघ

॥२७॥

न कदाचन यन्नास्ति तद्ब्रह्मैवास्ति तज्जगत् ।

तस्मिन्मध्ये कचन्तीमा भ्रान्तयः सृष्टिनामिकाः

॥२८॥

व्योम्नि केशोण्ड्रकानीव न कचन्तीव वस्तुतः ।

यथा तरङ्गा जलधौ तथेमाः सृष्टयः परे

॥२९॥

उत्पत्त्योत्पत्त्य लीयन्ते रजांसीव महानिले ।

तस्माद्भ्रान्तिमयाभासे मिथ्यात्वमहमात्मनि

॥३०॥

मृगतृष्णाजलचये कैवास्था सर्गभस्मनि ।

भ्रान्तयश्च न तत्रान्यास्तास्तदेव परं पदम्

॥३१॥

घने तमसि यक्षाभास्तम एव न यक्षकः ।

तस्माज्जन्ममृतिर्मोहो व्यामोहत्वमिदं ततम्

॥३२॥

सर्वं तत्समहाकल्पं शान्तौ यदवशिष्यते ।

नातः सत्यमिदं दृश्यं न चासत्यं कदाचन

॥३३॥

द्वयमेवैतदथवा ब्रह्म तत्रैव संभवात् ।

आकाशे परमाण्वन्तर्द्रव्यादेरणुकेऽपि च

॥३४॥

जीवाणुर्यत्र तत्रेदं जगद्वेत्ति निजं वपुः ।

अग्निरौष्ण्यं यथा वेत्ति निजभावक्रमोदितम्

॥३५॥

पश्यतीदं तथैवात्मा स्वात्मभूतं विशुद्धचित् ।

यथा सूर्योदये गेहे भ्रमन्ति त्रसरेणवः

॥३६॥

तथेमे परमाकाशे ब्रह्माण्डत्रसरेणवः ।

यथा वायौ स्थितः स्पन्द आमोदः शून्यमम्बरे

॥३७॥

पिण्डग्रहविनिर्मुक्तं तथा विश्वं स्थितं परे ।

भावाभावग्रहोत्सर्गस्थूलसूक्ष्मचराचराः

॥३८॥

विवर्जितस्यावयवैर्भागा ब्रह्मण ईदृशाः ।

साकारस्यावबोधाय विज्ञेया भवताधुना

॥३९॥

अनन्याः स्वात्मनस्तस्य तेनानवयवा इव ।

यथास्थितमिदं विश्वं निजभावक्रमोदितम्

॥४०॥

रिक्तं न विश्वशब्दार्थैरनन्यद्ब्रह्मणि स्थितम् ।

न तत्सत्यं न चासत्यं रज्जुसर्पभ्रमो यथा

॥४१॥

मिथ्यानुभूतितः सत्यमसत्यं सत्परीक्षितम् ।

परमं कारणं चित्त्वाज्जीवत्वमिति चेत्यलम्

॥४२॥

ततस्तथैवानुभवाज्जीवत्वं विन्दति स्फुटम् ।

सत्यं भवत्वसत्यं वा खे विभातमिदं जगत्

॥४३॥

रञ्जयत्येव जीवाणुः स्वेच्छाभिरनुभूतिभिः ।

अनुभूयन्तु एवाशु काश्चित्पूर्वानुभूतितः

॥४४॥

अपूवानुभवाः काश्चित्समाश्चैवासमास्तथा ।

क्वचित्कदाचित्ता एव क्वचिदर्धसमा अपि

॥४५॥

कचन्त्यसत्याः सत्याभा जीवाकाशेऽनुभूतयः ।

तत्कुलास्तत्समाचारास्तज्जन्मानस्तदीहिताः

॥४६॥

त एव मन्त्रिणः पौराः प्रतिभाने भवन्ति च ।

ते चैवात्मन्यलं सत्या देशकालेहितैः समाः

॥४७॥

सर्वगात्मस्वरूपायाः प्रतिभाया इति स्थितिः ।

यथा राजात्मनि व्योम्नि प्रतिभोदेति सन्मयी

॥४८॥

तथा तदग्रगोदेति सत्येव प्रतिभाम्बरे ।

त्वच्छीला त्वत्समाचारा त्वत्कुला त्वद्वपुर्मयी

॥४९॥

इति लीलेयमाभाति प्रतिभाप्रतिबिम्बजा ।

सर्वगे संविदादर्शे प्रतिभा प्रतिबिम्बति

॥५०॥

यादृशी यत्र सा तत्र तथोदेति निरन्तरम् ।

जीवाकाशस्य यान्तस्था प्रतिभा कुरुते स्वयम् ।

सा बहिश्च चिदादर्शे प्रतिबिम्बादियं स्थिता

॥५१॥

एषा त्वमम्बरमहं भुवनं धरा च

राजेति सर्वमहमेव विभातमात्रम् ।

चिद्व्योमबिल्वजठरं विदुरङ्ग विद्धि

त्वं तेन शान्तमलमास्स्व यथास्थितेह

॥५२॥

इत्यार्षे श्रीवासिष्ठमहारामायणे मोक्षोपाये उत्पत्तिप्रकरणे लीलो ० अग्निदाहरात्रियुद्धे जगद्ब्रह्मवर्णनं नाम चतुश्चत्वारिंशः सर्गः ।। ४४ ।।