मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — उत्पत्तिप्रकरणम् — सर्गः ५३

3
योगवासिष्ठम् · उत्पत्तिप्रकरणम् · 53

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

अथ लब्धवरा देहेनानेनैव महीपतिम् ।

पतिमाप्तुं प्रयात्येषा नभोमार्गेण विष्टपम्

॥१॥

इति संचिन्त्य सानन्दमुद्दाममकरध्वजा ।

पुप्लुवे पेलवाकारा पक्षिणीव नभस्तले

॥२॥

कुमारीं तत्र सा प्राप ज्ञप्त्यैव प्रहितां हिताम् ।

स्वसंकल्पमहादर्शात्पुरतो निर्गतामिव

॥३॥

कुमार्युवाच ।

दुहितास्मि सखि ज्ञप्तेः स्वागतं तेऽस्तु सुन्दरि ।

प्रतीक्षमाणा त्वामेव स्थितास्मीह नभःपथि

॥४॥

लीलोवाच ।

देवि भर्तुः समीपं मां नय नीरजलोचने ।

महतां दर्शनं यस्मान्न कदाचन निष्फलम्

॥५॥

श्रीवसिष्ठ उवाच ।

एहि तत्रैव गच्छाव इत्युक्त्वा सा कुमारिका ।

पुरस्तस्याः स्थिता व्योम्नि मार्गदर्शनतत्परा

॥६॥

ततस्तदनुयाता सा प्राप कोटरमम्बरम् ।

निर्मलं करमालाग्रं यथा लक्षणलेखिका

॥७॥

मेघमार्गमथोल्लङ्घ्य वातस्कन्धान्तरे गता ।

सूर्यमार्गादभिगता तारामार्गमतीत्य च

॥८॥

वाय्विन्द्रसुरसिद्धानां लोकानुल्लङ्घ्य लाघवात् ।

ब्रह्मविष्णुमहेशानां प्राप ब्रह्माण्डखर्परम्

॥९॥

हिमशैत्यं यथान्तस्थं कुम्भेऽभिन्ने बहिर्भवेत् ।

तथा संकल्पसिद्धा सा ब्रह्माण्डान्निर्गता बहिः

॥१०॥

स्वचित्तमात्रदेहैषा स्वसंकल्पस्वभावजम् ।

अन्तरेवानुभवति किलैवं नाम विभ्रमम्

॥११॥

ब्रह्मादिस्थानमाक्रम्य प्राप्य ब्रह्माण्डखर्परम् ।

ततो ब्रह्माण्डपारस्था जलाद्यावरणानि च

॥१२॥

समुल्लङ्घ्य पुरः प्राप महाचिद्गगनान्तरम् ।

अदृष्टपारपर्यन्तमतिवेगेन धावता ।

सर्वतो गरुडेनापि कल्पकोटिशतैरपि

॥१३॥

तत्र ब्रह्माण्डलक्षाणि सन्त्यसंख्यानि भूरिशः ।

तान्यन्योन्यमदृष्टानि फलानीव महावने

॥१४॥

तत्रैकस्मिन्पुरःसंस्थे विततावरणान्विते ।

वेधयित्वा विवेशान्तर्बदरं कृमिको यथा

॥१५॥

पुनर्ब्रह्मेन्द्रविष्ण्वादिलोकानुल्लङ्घ्य भास्वरान् ।

तन्महीमण्डलं श्रीमत्प्राप तारापथादधः

॥१६॥

तत्र तन्मण्डलं प्राप्य तत्पुरं तच्च मण्डपम् ।

प्रविश्य पुष्पगुप्तस्य शवस्य निकटे स्थिता

॥१७॥

एतस्मिन्नन्तरे सा च न ददर्श कुमारिकाम् ।

मायामिव परिज्ञाता क्वापि यातां वरानना

॥१८॥

मुखमालोक्य सा तस्य स्वभर्तुः शवरूपिणः ।

इदं बुद्धवती सत्यं प्रतिभावशतः स्वतः

॥१९॥

अयं स भर्ता संग्रामे निहतो मम सिन्धुना ।

वीरलोकानिमान्प्राप्य क्षणं शेते यथासुखम्

॥२०॥

अहं देव्याः प्रसादेन सशरीरैवमीदृशम् ।

इह प्राप्तवती धन्या मत्समा नास्ति काचन

॥२१॥

इति संचिन्त्य सा हस्ते गृहीत्वा चारु चामरम् ।

वीजयामास चन्द्रेण द्यीरिवावनिमण्डलम्

॥२२॥

प्रबुद्धलीलोवाच ।

ते भृत्यास्ताश्च वै दास्यः स राजा च प्रबुद्धवान् ।

वक्ष्यन्ति वदतां देवि किं कयैव कथं धिया

॥२३॥

श्रीदेव्युवाच ।

स राजा सा च ते भृत्याः सर्व एव परस्परम् ।

चिदाकाशैकतावेशादावयोश्च प्रभावतः

॥२४॥

महाचित्प्रतिभासत्वान्महानियतिनिश्चयात् ।

अन्योन्यमेवपश्यन्ति मिथः संप्रतिबिम्बितात्

॥२५॥

इयं मे सहजा भार्या ममेयं सहजा सखी ।

ममेयं सहजा राज्ञी भृत्योऽयं सहजो मम

॥२६॥

केवलं त्वमहं सा च यथावृत्तमखण्डितम् ।

ज्ञास्याम इदमाश्चर्यं नतु कश्चिदपीतरः

॥२७॥

प्रबुद्धलीलोवाच ।

अमुनैव शरीरेण किमर्थं न गता पतिम् ।

एषा वरेण संप्राप्ता लीला ललितवादिनी

॥२८॥

श्रीदेव्युवाच ।

अप्रबुद्धधियः सिद्धलोकान्पुण्यवशोदितान् ।

न समर्थाः स्वदेहेन प्राप्तुं छाया इवातपान्

॥२९॥

आदिसर्गे च नियतिः स्थापितेति प्रबोधिभिः ।

यथा सत्यमलीकेन न मिलत्येव किंचन

॥३०॥

यावद्वेतालसंकल्पो बालस्य किल विद्यते ।

निर्वेतालधियस्तावदुदयस्तस्य कः कथम्

॥३१॥

अविवेकज्वरोष्णत्वं विद्यते यावदात्मनि ।

तावद्विवेकशीतांशुशैत्यं कुत उदेत्यलम्

॥३२॥

अहं पृथ्व्यादिदेहः खे गतिर्नास्ति ममोत्तमा ।

इतिनिश्चयवान्योऽन्तः कथं स्यात्सोऽन्यनिश्चयः

॥३३॥

अतो ज्ञानविवेकेन पुण्येनाथ वरेण च ।

पुण्यदेहेन गच्छन्ति परं लोकमनेन तु

॥३४॥

शुष्कपर्णं किलाङ्गारे एतदेवाशु दह्यते ।

अयं देहमहंदेहः प्राप्त एव विशीर्यते

॥३५॥

एतावदेव भवति वरशापविजृम्भितैः ।

यथा संचिन्त्य एवाहं तथा स्मृत इति स्मृतिः

॥३६॥

यः सर्पप्रत्ययो रज्ज्वां स कथं सर्पकार्यकृत् ।

आत्मन्येव हि यो नास्ति तस्य का कार्यकारिता

॥३७॥

यस्त्वेतन्मृत इत्येव मिथ्या समनुभूयते ।

प्रागभ्यासस्य पुष्टस्य नामैतत्प्रविजृम्भते

॥३८॥

स्वानुभूते जगज्जाले सुगमा संस्मृतिभ्रमाः ।

नान्यसंकल्पितो नाम सर्गाद्यभ्यास ईदृशः

॥३९॥

अन्तरनुभूयमानाः

संसृतयो बाह्यभूतजालानाम् ।

अविदितवेद्यदृशामपि

दूरे पुंसामिवैन्दवं बिम्बम्

॥४०॥

इत्यार्षे श्रीवासिष्ठमहारामायणे मोक्षोपाये उत्पत्तिप्रकरणे लीलो० संसृतिविदितवेद्यं नाम त्रिपञ्चाशः सर्गः ।। ५३ ।।