मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — उत्पत्तिप्रकरणम् — सर्गः ५४

3
योगवासिष्ठम् · उत्पत्तिप्रकरणम् · 54

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीदेव्युवाच ।

तस्माद्ये वेद्यवेत्तारो ये वा धर्मं परं श्रिताः ।

आतिवाहिकलोकांस्ते प्राप्नुवन्तीह नेतरे

॥१॥

आधिभौतिकदेहत्वं मिथ्याभ्रममयात्मकम् ।

कथं सत्ये स्थितिं याति च्छायास्ते कथमातपे

॥२॥

लीला विदितवेद्या नो परमं धर्ममाश्रिता ।

केवलं तेन सा भर्तुः कल्पितं नगरं गता

॥३॥

प्रबुद्धलीलोवाच ।

एवमेषा प्रयाताऽस्तु भर्ता पश्य ममाम्बिके ।

प्रवृत्तः प्राणसंत्यागे कर्तव्यं किमिहाधुना ।।

भावाभावेषु भावानां कथं नियतिरागता ।

कथं भूयोऽप्यनियतिर्मृतिजन्मादिसूचिता

॥५॥

कथं स्वभावसंसिद्धिः कथं सत्ता पदार्थगा ।

कथमग्न्यादिपूष्णत्वं पृथ्व्यादौ स्थिरता कथम्

॥६॥

हिमादिषु कथं शैत्यं का सत्ता कालखादिषु ।

भावाभावग्रहोत्सर्गस्थूलसूक्ष्मदृशः कथम्

॥७॥

कथमत्यन्तमुच्छ्रायं तृणगुल्मनरादिकम् ।

वस्तु नायात्यनिष्टेऽपि स्थिते स्वोच्छ्रायकारणे

॥८॥

श्रीदेव्युवाच ।

महाप्रलयसंपत्तौ सर्वार्थास्तमये सति ।

अनन्ताकाशमाशान्तं सद्ब्रह्मैवावतिष्ठते

॥९॥

तच्चिद्रूपतया तेजःकणोऽहमिति चेतति ।

स्वप्ने संविद्यथा हि त्वमाकाशगमनादि च

॥१०॥

तेजःकणोऽसौ स्थूलत्वमात्मनात्मनि विन्दति ।

असत्यमेव सत्याभं ब्रह्माण्डं तदिदं स्मृतम्

॥११॥

तत्रान्तर्ब्रह्म तद्वेत्ति ब्रह्मायमहमित्यथ ।

मनोराज्यं स कुरुते स्वात्मैवं तदिदं जगत्

॥१२॥

तस्मिन्प्रथमतः सर्गे या यथा यत्र संविदः ।

कचितास्तास्तथा तत्र स्थिता अद्यापि निश्चलाः

॥१३॥

यद्यथा स्फुरितं चित्तं तत्तथा ह्यात्मचिद्भवेत् ।

स्वयमेवानियमतस्तत्तत्स्यान्नेह किंचन

॥१४॥

न च नाम नकिंचित्त्वं युज्यते विश्वरूपिणः ।

त्यक्त्वा समस्तसंस्थानं हेम तिष्ठति वै कथम्

॥१५॥

सर्गादौ स्वयमेवान्तश्चिद्यथा कचितात्मनि ।

हिमाग्न्यादितयाद्यापि सा तथास्ते स्वसत्तया

॥१६॥

तस्मात्स्वसत्तासंत्यागः सतः कर्तुं न युज्यते ।

यदा चिदास्ते तेनेयं नियतिर्न विनश्यति

॥१७॥

यद्यथा कचितं यत्र व्योमरूप्यपि पार्थिवम् ।

सर्गादौ तस्य चलितुमद्ययावन्न युज्यते

॥१८॥

या यथा चित्प्रकचिता प्रतिपक्षविदं विना ।

न सा ततः प्रचलति वेदनाभ्यासतः स्वयम्

॥१९॥

जगदादावनुत्पन्नं यच्चेदमनुभूयते ।

तत्संविद्व्योमकचनं स्वप्नस्त्रीसुरतं यथा

॥२०॥

असत्यमेव सत्याभं प्रतिभानमिदं स्थितम् ।

इति स्वभावसंपत्तिरिति भूतानुभूतयः

॥२१॥

सर्गादौ या यथा रूढा संवित्कचनसंततिः ।

साद्याप्यचलितान्येन स्थिता नियतिरुच्यते

॥२२॥

गृहीतव्योमसंवित्तिचिद्व्योम व्योमतां गतम् ।

गृहीतकालतासंविच्चिन्नभः कालतां गतम्

॥२३॥

गृहीतजलसंवित्तिचिद्व्योम वारिवत्स्थितम् ।

स्वप्ने यथा हि पुरुषः पश्यत्यात्मनि वारिताम्

॥२४॥

स्वप्नचित्संविदाभाति भवत्येषा यथास्थिता ।

चिच्चमत्कारचातुर्यादसदेतत्समूहते

॥२५॥

खत्वं जलत्वमुर्वीत्वमग्निवायुत्वमप्यसत् ।

वेत्त्यन्तः स्वप्नसंकल्पध्यानेष्विव चितिः स्वयम्

॥२६॥

मरणानन्तरं कर्मफलानुभवनक्रमम् ।

सर्वसंदेहशान्त्यर्थं मृतिश्रेयस्करं श्रृणु

॥२७॥

रूढादिसर्गे नियतिर्यैकद्वित्रिचतुःशता ।

पूर्वादिष्वायुषः पुंसां तस्या मे नियतिं श्रृणु

॥२८॥

देशकालक्रियाद्रव्यशुद्ध्यशुद्धी स्वकर्मणाम् ।

न्यूनत्वे चाधिकत्वे च नृणां कारणमायुषः

॥२९॥

स्वकर्मधर्मे ह्रसति हसत्यायुर्नृणामिह ।

वृद्धे वृद्धिमुपायाति सममेव भवेत्समे

॥३०॥

बालमृत्युप्रदैर्बालो युवा यौवनमृत्युदैः ।

वृद्धमृत्युप्रदैर्वृद्धः कर्मभिर्मृतिमृच्छति

॥३१॥

यो यथाशास्त्रमारब्धं स्वधर्मनुमतिष्ठति ।

भाजनं भवति श्रीमान्स यथाशास्त्रमायुषः

॥३२॥

एवं कर्मानुसारेण जन्तुरन्त्यां दशामितः ।

भवन्त्यन्तं गतवतो दृङ्मर्मच्छेदवेदनाः

॥३३॥

प्रबुद्धलीलोवाच ।

मरणं मे समासेन कथयेन्दुसमानने । किं सुखं मरणं किं वा दुःखं मृत्वा च किं भवेत् ।।

श्रीदेव्युवाच ।

त्रिविधाः पुरुषाः सन्ति देहस्यान्ते मुमूर्षवः ।

मूर्खोऽथ धारणाभ्यासी युक्तिमान्पुरुषस्तथा

॥३५॥

अभ्यस्य धारणानिष्ठो देहं त्यक्त्वा यथासुखम् ।

प्रयाति धारणाभ्यासी युक्तियुक्तस्तथैव च

॥३६॥

धारणा यस्य नाभ्यासं प्राप्ता नैव च युक्तिमान् ।

मूर्खः स्वमृतिकालेऽसौ दुःखमेत्यवशाशयः

॥३७॥

वासनावेशवैवश्यं भावयन्विषयाशयः ।

दीनतां परमामेति परिलूनमिवाम्बुजम्

॥३८॥

अशास्त्रसंस्कृतमतिरसज्जनपरायणः ।

मृतावनुभवत्यन्तर्दाहमग्नाविव च्युतः

॥३९॥

यदा घर्घरकण्ठत्वं वैरूप्यं दृष्टिवर्णजम् ।

गच्छत्येषोऽविवेकात्मा तदा भवति दीनधीः

॥४०॥

परमान्ध्यमनालोको दिवाप्युदिततारकः ।

साभ्रदिग्मण्डलाभोगो घनमेचकिताम्बरः

॥४१॥

मर्मव्यथाविच्छुरितः प्रभ्रमदृष्टिमण्डलः ।

आकाशीभूतवसुधो वसुधाभूतखान्तरः

॥४२॥

परिवृत्तककुप्चक्र उह्यमान इवार्णवे ।

नीयमान इवाकाशे घननिद्रोन्मुखाशयः

॥४३॥

अन्धकूप इवापन्नः शिलान्तरिव योजितः ।

स्वयं जडीभवद्वर्णो विनिकृत्त इवाशये

॥४४॥

पततीव नभोमार्गात्तृणावर्त इवार्पितः ।

रथे द्रुत इवारूढो हिँमवद्गलनोन्मुखः

॥४५॥

व्याकुर्वन्निव संसारं बान्धवानस्पृशन्निव ।

भ्रमितक्षेपणेनेव वातयन्त्र इवास्थितः

॥४६॥

भ्रमितो वा भ्रम इव कृष्टो रसनयेव वा ।

भ्रमन्निव जलावर्ते शस्त्रयन्त्र इवार्पितः

॥४७॥

प्रोह्यमानस्तृणमिव वहत्पर्जन्यमारुते ।

आरुह्य वारिपूरेण निपतन्निव चार्णवे

॥४८॥

अनन्तगगने श्वभ्रे चक्रावर्ते पतन्निव ।

अब्धिरुर्वीविपर्यासदशामनुभवन्स्थितः

॥४९॥

पतन्निवानवरतं प्रोत्पतन्निव चाभितः ।

सूत्काराकर्णनोद्भ्रान्तपूर्णसर्वेन्द्रियव्रणः

॥५०॥

क्रमाच्छयामलतां यान्ति तस्य सर्वाक्षसंविदः ।

यथास्तं गच्छति रवौ मन्दालोकतया दिशं

॥५१॥

पूर्वापरं न जानाति स्मृतिस्तानवमागता ।

यथा पाश्चात्यसंध्यान्ते नष्टा दृष्टिर्दिगष्टके

॥५२॥

मनः कल्पनसामर्थ्यं त्यजत्यस्य विमोहतः ।

अविवेकेन तेनासौ महामोहे निमज्जति

॥५३॥

यदैवामोहमादत्ते नादत्ते पवनस्तदा ।

नत्वादत्ते यदा प्राणान्मोहमायात्यलं तदा

॥५४॥

अन्योन्यपुष्टतां यातैर्मोहसंवेदनभ्रमैः ।

जन्तुः पाषाणतामेति स्थितमित्यादिसर्गतः

॥५५॥

प्रबुद्धलीलोवाच ।

व्यथां विमोहं मूर्च्छान्तं भ्रमं व्याधिमचेतनम् ।

किमर्थमयमायाति देहो ह्यष्टाङ्गवानपि

॥५६॥

श्रीदेव्युवाच ।

एवं संविहितं कर्म सर्गादौ स्पन्दसंविदा ।

यद्यस्मिन्समये दुःखं कालेनैतावतेदृशम्

॥५७॥

स्यान्मे इत्येव संविश्य गुल्मवत्तत्स्वभावजम् ।

वेत्ति चित्तविजृम्भोत्थं नान्यदत्रास्ति कारणम्

॥५८॥

यदा व्यथावशान्नाड्यः स्वसंकोचविकासनैः ।

गृह्णन्तिमारुतो देहे तदोज्झति निजां स्थितिम्

॥५९॥

प्रविष्टा न विनिर्यान्ति गताः संप्रविशन्ति नो ।

यदा वाता विनाडीत्वात्तदा स्पन्दात्स्मृतिर्भवेत्

॥६०॥

न विशत्येव वातो न निर्याति पवनो यदा ।

शरीरनाडीवैधुर्यान्मृत इत्युच्यते तदा

॥६१॥

आगन्तव्यो मया नाशः कालेनैतावतेति या ।

पूर्वसंविदिता संविद्याति तच्चोदिता मृतिम्

॥६२॥

ईदृशेन मयेहेत्थं भाव्यमित्यादि सर्गजा ।

संविद्वीजकला नाशं न कदाचन गच्छति

॥६३॥

संविदो वेदनं नाम स्वभावोऽव्यतिरेकवान् ।

तस्मात्स्वभावसंवित्तेर्नान्ये मरणजन्मनी

॥६४॥

क्वचिदावृतिमत्सौम्यं क्वचिन्नद्यां जलं यथा ।

क्वचित्सौम्यं क्वचिज्जीवधर्मेदं चेतनं तथा

॥६५॥

यथा लतायाः पर्वाणि दीर्घाया मध्यमध्यतः ।

तथा चेतनसत्ताया जन्मानि मरणानि च

॥६६॥

न जायते न म्रियते चेतनः पुरुषः क्वचित् ।

स्वप्नसंभ्रमवद्भ्रान्तमेतत्पश्यति केवलम्

॥६७॥

पुरुषश्चेतनामात्रं स कदा क्वेव नश्यति ।

चेतनव्यतिरिक्तत्वे वदान्यत्किं पुमान्भवेत्

॥६८॥

कोऽद्ययावन्मृतं ब्रूहि चेतनं कस्य किं कथम् ।

म्रियन्ते देहलक्षाणि चेतनं स्थितमक्षयम्

॥६९॥

अमरिष्यन्न वै चित्तमेकस्मिन्नेव तन्मृते ।

अभविष्यत्सर्वभावमृतिरेकमृताविह

॥७०॥

वासनामात्रवैचित्र्यं यज्जीवोऽनुभवेत्स्वयम् ।

तस्यैव जीवमरणे नामनी परिकल्पिते

॥७१॥

एवं न कश्चिन्म्रियते जायते न च कश्चन ।

वासनावर्तगर्तेषु जीवो लुठति केवलम्

॥७२॥

अत्यन्तासंभवादेव दृश्यस्यासौ च वासना ।

नास्त्येवेति विचारेण दृढज्ञातैव नश्यति

॥७३॥

अनुदितमुदितं जगत्प्रबन्धं

भवभयतोऽभ्यसनैर्विलोक्य सम्यक् ।

अलमनुदितवासनो हि जीवो

भवति विमुक्त इतीह सत्यवस्तु

॥७४॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलो० मरणविचारो नाम चतुःपञ्चाशः सर्गः ।। ५४ ।।