मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — उत्पत्तिप्रकरणम् — सर्गः ५६

3
योगवासिष्ठम् · उत्पत्तिप्रकरणम् · 56

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

एतस्मिन्नन्तरे राजा परिवृत्ताक्षितारकः ।

बभूवैकतनुप्राणशेषः शुष्कसिताधरः

॥१॥

जीर्णपर्णसवर्णाभः क्षीणपाण्डुमुखच्छविः ।

भृङ्गध्वनितसच्छायश्वासकूजाविकूणितः

॥२॥

महामरणमूर्च्छान्धकूपे निपतिताशयः ।

अन्तर्निलीननिःशेषनेत्रादीन्द्रियवृत्तिमान्

॥३॥

चित्रन्यस्त इवाकारमात्रदृश्यो विचेतनः ।

निःस्पन्दसर्वावयवः समुत्कीर्ण इवोपले

॥४॥

बहुनात्र किमुक्तेन तनुदेशेन तं जहौ ।

प्राणः पिपतिषुं वृक्षं स्वं पक्षीवान्तरिक्षगः

॥५॥

ते तं ददृशतुर्बाले दिव्यदृष्टी नभोगतम् ।

जीवं प्राणमयी संविद्गन्धलेशमिवानिले

॥६॥

सा जीवसंविद्गगने वातेन मिलिता सती ।

खे दूरं गन्तुमारेभे वासनानुविधायिनी

॥७॥

तामेवानुससाराथ स्त्रीद्वयं जीवसंविदम् ।

भ्रमरीयुगलं वातलग्नां गन्धकलामिव

॥८॥

ततो मुहूर्तमात्रेण शान्ते मरणमूर्च्छने ।

अम्बरे बुबुधे संविद्गन्धलेखेन वायुना

॥९॥

अपश्यत्पुरुषान्याम्यान्नीयमानं च तैर्वपुः ।

बन्धुपिण्डप्रदानेन शरीरं जातमात्मनः

॥१०॥

मार्गे कर्मफलोल्लासमतिदूरतरे स्थितम् ।

वैवस्वतपुरं प्राप जन्तुभिः परिवेष्टितम्

॥११॥

प्राप्तं वैवस्वतपुरमादिदेश ततो यमः ।

अस्य कर्माण्यशुभ्राणि नैव सन्ति कदाचन

॥१२॥

नित्यमेवावदातानां कर्तायं शुभकर्मणाम् ।

भगवत्याः सरस्वत्या वरेणायं विवर्धितः

॥१३॥

प्राक्तनोऽस्य शवीभूतो देहोऽस्ति कुसुमाम्बरे ।

प्रविशत्वेष तं गत्वा त्यज्यतामिति चेतसा

॥१४॥

ततस्त्यक्तो नभोमार्गे यन्त्रोपल इव च्युतः ।

अथ जीवकला लीला ज्ञप्तिश्चेति त्रयं नभः

॥१५॥

पुप्लुवे जीवलेखा तु रूपिण्यौ ते न पश्यति ।

तामेवानुसरन्त्यौ ते समुल्लङ्घ्य नभस्तलम्

॥१६॥

लोकान्तराण्यतीत्याशु विनिर्गत्य जगद्गृहात् ।

द्वितीयं जगदासाद्य भूमण्डलमुपेत्य च

॥१७॥

ते द्वे संकल्परूपिण्यौ संगते जीवलेखया ।

पद्मराजपुरं प्राप्य लीलान्तःपुरमण्डपम्

॥१८॥

क्षणाद्विविशतुः स्वैरं वातलेखा यथाम्बुजम् ।

सूर्यभासो यथाम्भोजं सुरभिः पवनं यथा

॥१९॥

श्रीराम उवाच ।

ब्रह्मन्प्राप्तः कथमसौ शवस्य निकटं गृहम् ।

कथं तेन परिज्ञातो मार्गो मृतशरीरिणा

॥२०॥

श्रीवसिष्ठ उवाच ।

तस्य स्ववासनान्तःस्थशवस्य किल राघव ।

तत्सर्वं हृद्गतं कस्मान्नासौ प्राप्नोति तद्गृहम्

॥२१॥

भ्रान्तिमात्रमसंख्येयं जगज्जीवकणोदरे ।

वटधानातरुमिव स्थितं को वा न पश्यति

॥२२॥

यथा जीवद्वपुर्बीजमङ्कुरं हृदि पश्यति ।

स्वभावभूतं चिदणुस्त्रैलोक्यनिचयं तथा

॥२३॥

नरो यथैकदेशस्थो दूरदेशान्तरस्थितम् ।

संपश्यति निधानं स्वं मनसानारतं सदा

॥२४॥

तथा स्ववासनान्तस्थमभीष्टं परिपश्यति ।

जीवो जातिशताढ्योऽपि भ्रमे परिगतोऽपि सन्

॥२५॥

श्रीराम उवाच ।

भगवन्पिण्डदानादिवासनारहिताकृतिः ।

कीदृक्संपद्यते जीवः पिण्डो यस्मै न दीयते

॥२६॥

श्रीवसिष्ठ उवाच ।

पिण्डोऽथ दीयते मावा पिण्डो दत्तो मयेति चित् ।

वासना हृदि संरूढा तत्पिण्डफलभाङ्गरः

॥२७॥

यच्चित्तं तन्मयो जन्तुर्भवतीत्यनुभूतयः ।

सदेहेषु विदेहेषु न भवत्यन्यथा क्वचित्

॥२८॥

सपिण्डोस्मीति संवित्त्या निष्पिण्डोपि सपिण्डवान्

निष्पिण्डोस्मीति संवित्त्या सपिण्डोपि नपिण्डवान्

॥२९॥

यथाभावनमेतेषां पदार्थानां हि सत्यता ।

भावना च पदार्थेभ्यः कारणेभ्य उदेति हि

॥३०॥

यथा वासनया जन्तोर्विषमप्यमृतायते ।

असत्यः सत्यतामेति पदार्थो भावनात्तथा

॥३१॥

कारणेन विनोदेति न कदाचन कस्यचित् ।

भावना काचिदपि नो इति निश्चयवान्भव

॥३२॥

कारणेन विना कार्यमा महाप्रलयं क्वचित् ।

न दृष्टं न श्रुतं किंचित्स्वयं त्वेकोदयादृते

॥३३॥

चिदेव वासना सैव धत्ते स्वप्न इवार्थताम् ।

कार्यकारणतां याति सैवागत्येव तिष्ठति

॥३४॥

श्रीराम उवाच ।

धर्मो नास्ति ममेत्येव यः प्रेतो वासनान्वितः ।

तस्य चेत्सुहृदा भूरिधर्मः कृत्वा समर्पितः

॥३५॥

तत्तदात्र स किं धर्मो नष्टः स्यादुत वा न वा ।

सत्यार्था वाप्यसत्यार्था भावना किं बलाधिका

॥३६॥

श्रीवसिष्ठ उवाच ।

देशकालक्रियाद्रव्यसंपत्त्योदेति भावना ।

यत्रैवाभ्युदिता सा स्यात्स द्वयोरधिको जयी

॥३७॥

धर्मदातुः प्रवृत्ता चेद्वासना तत्तया क्रमात् ।

आपूर्यते प्रेतमतिर्न चेत्प्रेतधियाशुभा

॥३८॥

एवं परस्परजयाज्जयत्यत्रातिवीयेवान् ।

तस्माच्छुभेन यत्नेन शुभाभ्यासमुदाहरेत्

॥३९॥

श्रीराम उवाच ।

देशकालादिना ब्रह्मन्वासना समुदेति चेत् ।

तन्महाकल्पसर्गादौ देशकालादयः कुतः

॥४०॥

कारणे समुदेतीदं तैस्तदा सहकारिभिः ।

सहकारिकारणानामभावे वासना कुतः

॥४१॥

श्रीवसिष्ठ उवाच ।

एवमेतन्महाबाहो सत्यात्मन्न कदाचन ।

महाप्रलयसर्गादौ देशकालौ न कौचन

॥४२॥

सहकारिकारणानामभावे सति दृश्यधीः ।

नेयमस्ति न चोत्पन्ना न च स्फुरति काचन

॥४३॥

दृश्यस्यासंभवादेव किंचिद्यद्दृश्यते त्विदम् ।

तद्ब्रह्मैव स्वचिद्रूपं स्थितमित्थमनामयम्

॥४४॥

एतच्चाग्रे युक्तिशतैः कथयिष्याम एव ते ।

एतदर्थं प्रयत्नोऽयं वर्तमानकथां श्रृणु

॥४५॥

एवं ददृशतुः प्राप्ते मन्दिरं सुन्दरोदरम् ।

कीर्णं पुष्पोपहारेण वसन्तमिव शीतलम्

॥४६॥

प्रशान्ताचारसंरम्भराजधान्या समन्वितम् ।

मन्दारकुन्दमाल्यादिशवं तत्र समं स्थितम्

॥४७॥

मन्दारकुन्दस्रग्दामवृताम्वरबृहच्छवम् ।

शवशय्याशिरःस्थाग्र्यपूर्णकुम्भादिमङ्गलम्

॥४८॥

अनिवृत्तगृहद्वारगवाक्षकठिनार्गलम् ।

प्रशाम्यद्दीपकालोकश्यामलामलभित्तिकम् ।

गृहैकदेशसंसुप्तमुखश्वाससमीकृतम्

॥४९॥

संपूर्णचन्द्रसकलोदयकान्तिकान्तं

सौन्दर्यनिर्जितपुरन्दरमन्दिरर्द्धि ।

वैरिञ्चपद्ममुकुलान्तरचारुशोभं

निःशब्दमन्दमिव निर्मलमिन्दुकान्तम्

॥५०॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्र० लीलो० मरणशयनानन्तरप्रेतव्यवस्था नाम षट्पञ्चाशः सर्गः ।। ५६ ।।