मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — उत्पत्तिप्रकरणम् — सर्गः ५९

3
योगवासिष्ठम् · उत्पत्तिप्रकरणम् · 59

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

सरस्वती तथेत्युक्त्वा तत्रैवान्तर्धिमाययौ ।

प्रभाते पङ्कजैः सार्धं बुबुधे सकलो जनः

॥१॥

आलिलिङ्ग च तां लीलां लीला च दयितं क्रमात् ।

पुनःपुनर्महानन्दान्मृतं प्रोज्जीवितं पुनः

॥२॥

तदासीद्राजसदनं मदमन्मथमन्थरम् ।

आनन्दमत्तजनतं वाद्यगेयरवाकुलम्

॥३॥

जयमङ्गलपुण्याहघोषघुंघुमघर्घरम् ।

तुष्टपुष्टजनापूर्णं राजलोकवृताङ्गणम्

॥४॥

सिद्धविद्याधरोन्मुक्तपुष्पवर्षसहस्रभृत् ।

ध्वनन्मृदङ्गमुरजकाहलाशङ्खदुन्दुभि

॥५॥

ऊर्ध्वीकृतबृहद्धस्तहास्तिकस्तनितोत्कटम् ।

उत्तालताण्डवस्त्रैणपूर्णाङ्गणलसद्ध्वनि

॥६॥

मिथःसंघट्टनिपतज्जनोपायनदन्तुरम् ।

पुष्पशेखरसंभारमयसंसारसुन्दरम्

॥७॥

विकीर्णापादितक्षौमं मन्त्रिसामन्तनागरैः ।

स्थूलपद्ममयं व्योम रक्तैस्ताण्डविनीकरैः

॥८॥

मत्तस्त्रीकन्धरावृत्तलीलान्दोलितकुण्डलम् ।

प्रवृत्तपादसंपातप्रोल्लसत्पुष्पकर्दमम्

॥९॥

पट्टवासःशरन्मेघवितानकवितानकम् ।

वराङ्गनामुखैर्नृत्यच्चन्द्रलक्षगृहाजिरम्

॥१०॥

परलोकादुपानीता राज्ञी सा पतिरेव च ।

इति निर्वृत्तगाथाभिर्जगुर्देशान्तरे जनाः

॥११॥

पद्मो भूमिपतिः श्रुत्वा वृत्तान्तं कथितं मनाक् ।

चक्रे स्नानं समानीतैश्चतुःसागरवारिभिः

॥१२॥

ततोऽभिषिषिचुर्विप्रा मन्त्रिणो भूभुजश्च तम् ।

लब्धोदयमनन्तेहममरेन्द्रमिवामराः

॥१३॥

लीला लीला च राजा च जीवन्मुक्तमहाधियः ।

रेमिरे पूर्ववृत्तान्तकथनैः सुरतैरिव

॥१४॥

सरस्वत्याः प्रसादेन स्वपौरुषकृतेन तत् ।

प्राप्तं लोकत्रयश्रेयः पद्मेनेति महीभुजा

॥१५॥

स ज्ञप्तिज्ञानसंबुद्धो राजा लीलाद्वयान्वितः ।

चक्रे वर्षायुतान्यष्टौ तत्र राज्यमनिन्दितः

॥१६॥

जीवन्मुक्तास्त इत्येवं राज्यं वर्षायुताष्टकम् ।

कृत्वा विदेहमुक्तत्वमासेदुः सिद्धसंविदः

॥१७॥

यदुदयविशदं विदग्धमुग्धं

समुचितमात्महितं च पेशलं च ।

तदखिलजनतोषदं स्वराज्यं

चिरमनुपाल्य सुदंपती विमुक्तौ

॥१८॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये लीलोपाख्याने पद्मनिर्वाणं नामैकोनषष्टितमः सर्गः ।। ५९ ।।