मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — उत्पत्तिप्रकरणम् — सर्गः ६६

3
योगवासिष्ठम् · उत्पत्तिप्रकरणम् · 66

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

एवमेकं परं वस्तु राम नानात्वमेत्यलम् ।

नानात्वमिव संजातं दीपाद्दीपशतं यथा

॥१॥

यथाभूतमसद्रूपमात्मानं यदि पश्यति ।

विचार्यतेऽन्तस्तदनुभावहीनं न शोचति

॥२॥

चित्तमात्रं नरस्तस्मिन्गते शान्तमिदं जगत् ।

उपानद्गूढपादस्य ननु चर्मास्तृतैव भूः

॥३॥

पत्रमात्रादृते नान्यत्कदल्या विद्यते यथा ।

भ्रममात्रादृते नान्यज्जगतो विद्यते तथा

॥४॥

जायते बालतामेति यौवनं वार्धकं ततः ।

मृतिं स्वर्गं च नरकं भ्रमाच्चेतो हि नृत्यति

॥५॥

विचित्रबुद्बुदोल्लासे स्वात्मनो व्यतिरेकिणि ।

यथा सुरायाः सामर्थ्यं तथा चित्तस्य संसृतौ

॥६॥

यथा द्वित्वं शशाङ्कादौ पश्यत्यक्षिमलाविलम् ।

चिच्चेतनकलाक्रान्ता तथैव परमात्मनि

॥७॥

यथा मदवशाद्भ्रान्तान्क्षीबः पश्यति पादपान् ।

तथा चेतनविक्षुब्धान्संसारांश्चित्प्रपश्यति

॥८॥

यथा लीलाभ्रमाद्बालाः कुम्भकृच्चक्रवज्जगत् ।

भ्रान्तं पश्यन्ति चित्तात्तु विद्धि दृश्यं तथैव हि

॥९॥

यदा चिच्चेतति द्वित्वं तदा द्वैतैक्यविभ्रमः ।

यदा न चेतति द्वैतं तदा द्वैतैक्ययोः क्षयः

॥१०॥

यच्चेत्यते तदितरद्व्यतिरिक्तं चितोऽस्ति न ।

किंचिन्नास्तीतिसंशान्त्या चितः शाम्यति चेतनं

॥११॥

चिद्धनेनैकतामेत्य यदा तिष्ठति निश्चलः ।

शाम्यन्व्यवहरन्वापि तदा संशान्त उच्यते

॥१२॥

तन्वी चेतयते चेत्यं घना चिन्नाङ्ग चेतति ।

अल्पक्षीबः क्षोभमेति घनक्षीबो हि शाम्यति

॥१३॥

चिद्धनैकप्रपातस्य रूढस्य परमे पदे ।

नैरात्म्यशून्यवेद्याद्यैः पर्यायैः कथनं भवेत्

॥१४॥

चिच्चेतनेन चेत्यत्वमेत्येवं पश्यति भ्रमम् ।

जातो जीवामि पश्यामि संसरामीत्यसन्मयम्

॥१५॥

स्वभावाद्व्यतिरिक्तं तु न चित्तस्यास्ति चेतनम् ।

स्पन्दादृते यथा वायोरन्तः किं नाम चेत्यते

॥१६॥

चेत्यत्वं संभवत्येवं किंचिद्यच्चेत्यते चिता ।

रज्जुसर्पभ्रमाभासं तमविद्याभ्रमं विदुः

॥१७॥

संविन्मात्रचिकित्स्येऽस्मिन्व्याधौ संसारनामनि ।

चित्तमात्रपरिस्पन्दे संरम्भो न च किंचन

॥१८॥

यदि सर्वं परित्यज्य तिष्ठस्युत्क्रान्तवासनः ।

अमुनैव निमेषेण तन्मुक्तोऽसि न संशयः

॥१९॥

यथा रज्ज्वां भुजङ्गाभा विनश्यत्येव वीक्षणात् ।

संविन्मात्रविवर्तेन नश्यत्येव हि संसृतिः

॥२०॥

यत्राभिलाषस्तन्नूनं संत्यज्य स्थीयते यदि ।

प्राप्त एवाङ्ग तन्मोक्षः किमेतावति दुष्करम्

॥२१॥

अपि प्राणांस्तृणमिव जयन्तीह महाशयाः ।

यत्राभिलाषस्तन्मात्रत्यागे कृपणता कथम्

॥२२॥

यत्राभिलाषस्तत्त्यक्त्वा चेतसा निरवग्रहम् ।

प्राप्तं कर्मेन्द्रियैर्गृह्णस्त्यजन्नष्टं च तिष्ठ भोः

॥२३॥

यथा करतले बिल्वं यथा वा पर्वतः पुरः ।

प्रत्यक्षमेव तस्यालमजत्वं परमात्मनः

॥२४॥

आत्मैव भाति जगदित्युदितस्तरङ्गैः

कल्पान्त एक इव वारिधिरप्रमेयः ।

ज्ञातः स एव हि ददाति विमोक्षसिद्धिं

त्वज्ञात एव मनसे चिरबन्धनाय

॥२५॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलोपाख्याने संसृतिपरमयोगो नाम षटषष्टितमः सर्गः ।। ६६ ।।