मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — उत्पत्तिप्रकरणम् — सर्गः ७

3
योगवासिष्ठम् · उत्पत्तिप्रकरणम् · 7

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीराम उवाच ।

य एष देवः कथितो यस्मिञ्ज्ञाते विमुच्यते ।

वद क्वासौ स्थितो ब्रह्मन्कथमेनमहं लभे

॥१॥

श्रीवसिष्ठ उवाच ।

य एष देवः कथितो नैष दूरेऽवतिष्ठते ।

शरीरे संस्थितो नित्यं चिन्मात्रमिति विश्रुतः

॥२॥

एष सर्वमिदं विश्वं न विश्वं चैष सर्वगः ।

विद्यते ह्येष एवैको न तु विश्वाभिधास्ति दृक्

॥३॥

चिन्मात्रमेव शशिभृच्चिन्मात्रं गरुडेश्वरः ।

चिन्मात्रमेव तपनश्चिन्मात्रं कमलोद्भवः

॥४॥

श्रीराम उवाच ।

बाला अपि वदन्त्येतद्यदि चेतनमात्रकम् ।

जगदित्येव केवात्र नाम स्यादुपदेशता

॥५॥

श्रीवसिष्ठ उवाच ।

चिन्मात्रं चेतनं विश्वमिति यज्ज्ञातवानसि ।

न किंचिदेव विज्ञातं भवता भवनाशनम्

॥५॥

चेतनं राम संसारो जीव एष पशुः स्मृतः ।

एतस्मादेव निर्यान्ति जरामरणभीतयः

॥७॥

पशुरज्ञो ह्यमूर्तोऽपि दुःखस्यैवैष भाजनम् ।

चेतनत्वाच्चेतनीयं मनोऽनर्थः स्वयं स्थितः

॥८॥

चेत्यनिर्मुक्तता या स्यादचेत्योन्मुखताथवा ।

अस्य सा भरितावस्था तां ज्ञात्वा नानुशोचति

॥९॥

भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।

क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे

॥१०॥

तस्य चेत्योन्मुखत्वं तु चेत्यासंभवनं विना ।

रोद्धुं न शक्यते दृश्यं चेत्यं शाम्यति वै कथम्

॥११॥

अचेत्यचित्स्वरूपं यत्तच्चासंभवनं विना ।

क्व स्वरूपोन्मुखत्वं हि केवलं चेत्यरोधतः

॥१२॥

श्रीराम उवाच ।

यस्मिञ्जीवे हि विज्ञाते न विनश्यति संसृतिः ।

व्योमरूपी पशुस्त्वज्ञः स ब्रह्मन्कुत्र कीदृशः

॥१३॥

साधुसंगमसच्छास्त्रैः संसारार्णवतारकः ।

दृश्यते परमात्मा यः स ब्रह्मन्वद कीदृशः

॥१४॥

श्रीवसिष्ठ उवाच ।

यदेतच्चेतनं जीवो विशीर्णो जन्मजङ्गले ।

एतमात्मानमिच्छन्ति ये तेऽज्ञाः पण्डिता अपि

॥१५॥

जीव एव हि संसारश्चेतना दुःखसंततिः ।

अस्मिञ्ज्ञाते न विज्ञातं किंचिद्भवति कुत्रचित्

॥१६॥

ज्ञायते परमात्मा चेद्राम दुःखस्य संततिः ।

क्षयमेति विषावेशशान्ताविव विषूचिका

॥१७॥

श्रीराम उवाच ।

रूपं कथय मे ब्रह्मन्यथावत्परमात्मनः ।

यस्मिन्दृष्टे मनो मोहान्समग्रान्संतरिष्यति

॥१८॥

श्रीवसिष्ठ उवाच ।

देशाद्देशान्तरं दूरं प्राप्तायाः संविदो वपुः ।

निमिषेणैव यन्मध्ये तद्रूपं परमात्मनः

॥१९॥

अत्यन्ताभाव एवास्ति संसारस्य यथास्थितेः ।

यस्मिन्बोधमहाम्भोधौ तद्रूपं परमात्मनः

॥२०॥

द्रष्टृदृश्यक्रमो यत्र स्थितोऽप्यस्तमयं गतः ।

यदनाकाशमाकाशं तद्रूपं परमात्मनः

॥२१॥

अशून्यमिव यच्छून्यं यस्मिन्शून्यं जगत्स्थितम् ।

सर्गौघे सति यच्छून्यं तद्रूपं परमात्मनः

॥२२॥

यन्महाचिन्मयमपि बृहत्पाषाणवत्स्थितम् ।

जडं वा जडमेवान्तस्तद्रूपं परमात्मनः

॥२३॥

सबाह्याभ्यन्तरं येन सर्वं संप्राप्य संगमम् ।

स्वरूपसत्तामाप्नोति तद्रूपं परमात्मनः

॥२४॥

प्रकाशस्य यथालोकः शून्यत्वं नभसो यथा ।

तथेदं संस्थितं यत्र तद्रूपं परमात्मनः

॥२५॥

श्रीराम उवाच ।

सद्रूपं परमात्मेति कथं नाम हि बुध्यते ।

इयतोऽस्य जगन्नाम्नो दृश्यस्यासंभवः कथम्

॥२६॥

श्रीवसिष्ठ उवाच ।

भ्रमस्य जागतस्यास्य जातस्याकाशवर्णवत् ।

अत्यन्ताभावसंबोधे यदि रूढिरलं भवेत्

॥२७॥

तज्ज्ञातं ब्रह्मणो रूपं भवेन्नान्येन कर्मणा ।

दृश्यात्यन्ताभावतस्तु ऋते नान्या शुभा गतिः

॥२८॥

अत्यन्ताभावसंपत्तौ दृश्यस्यास्य यथा स्थितेः ।

शिष्यते परमार्थोऽसौ बुध्यते जायते ततः

॥२९॥

न विदः प्रतिबिम्बोऽस्ति दृश्याभावादृते क्वचित् ।

क्वचिन्नाप्रतिबिम्बेन किलादर्शोऽवतिष्ठते

॥३०॥

जगन्नाम्नोऽस्य दृश्यस्य स्वसत्तासंभवं विना ।

बुध्यते परमं तत्त्वं न कदाचन केनचित्

॥३१॥

श्रीराम उवाच ।

इयतो दृश्यजातस्य ब्रह्माण्डस्य जगत्स्थितेः ।

मुने कथमसत्तास्ति क्व मेरुः सर्षपोदरे

॥३२॥

श्रीवसिष्ठ उवाच ।

दिनानि कतिचिद्राम यदि तिष्ठस्यखिन्नधीः ।

साधुसंगमसच्छास्त्रपरमस्तदहं क्षणात्

॥३३॥

प्रमार्जयामि ते दृश्यं बोधे मृगजलं यथा ।

दृश्याभावे द्रष्टृता च शाम्येद्बोधोऽवशिष्यते

॥३४॥

द्रष्टृत्वं सति दृश्येऽस्मिन्दृश्यत्वं सत्यथेक्षके ।

एकत्वं सति हि द्वित्वे द्वित्वं चैकत्वयोजने

॥३५॥

एकाभावे द्वयोरेव सिद्धिर्भवति नात्र हि ।

द्वित्वैक्यद्रष्टृदृश्यत्वक्षये सदवशिष्यते

॥३६॥

अहंतादिजगदृश्यं सर्वं ते मार्जयाम्यहम् ।

अत्यन्ताभावसंवित्त्या मनोमुकुरतो मलम्

॥३७॥

नासतो विद्यते भावो नाभावो विद्यते सतः ।

यत्तु नास्ति स्वभावेन कः क्लेशस्तस्य मार्जने

॥३८॥

जगदादावनुत्पन्नं यच्चेदं दृश्यते ततम् ।

तत्स्वात्मन्येव विमले ब्रह्मचित्त्वात्स्वबृंहितम्

॥३९॥

जगन्नाम्ना न चोत्पन्नं न चास्ति न च दृश्यते ।

हेम्नीव कटकादित्वं किमेतन्मार्जने श्रमः

॥४०॥

तथैतद्विस्तरेणाहं वक्ष्यामि बहुयुक्तिभिः ।

अबाधितं यथा तत्त्वं स्वयमेवानुभूयते

॥४१॥

आदावेव हि नोत्पन्नं यत्तस्येहास्तिता कुतः ।

कुतो मरौ जलसरिद्द्वितीयेन्दौ कुतो ग्रहः

॥४२॥

यथा वन्ध्यासुतो नास्ति यथा नास्ति मरौ जलम् ।

यथा नास्ति नभोयक्षस्तथा नास्ति जगद्भ्रमः

॥४३॥

यदिदं दृश्यते राम तद्वह्मैव निरामयम् ।

एतत्पुरस्ताद्वक्ष्यामि युक्तितो न गिरैव च

॥४४॥

यन्नाम युक्तिभिरिह प्रवदन्ति तज्ज्ञा-

स्तत्रावहेलनमयुक्तमुदारबुद्धे ।

यो यक्तियुक्तमवमत्य विमूढबुद्धिः

कष्टाग्रहो भवति तं विदुरज्ञमेव

॥४५॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे जगदादिदृश्यासत्ताप्रतिज्ञा नाम सप्तमः सर्गः ।। ७ ।।