मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — उत्पत्तिप्रकरणम् — सर्गः ७६

3
योगवासिष्ठम् · उत्पत्तिप्रकरणम् · 76

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

अथाभवदसौ सूची कर्कटीराक्षसी पुनः ।

सूक्ष्मैव स्थौल्यमायाता मेघलेखेव वार्षिकी

॥१॥

निजमाकाशमासाद्य किंचित्प्रमुदिता सती ।

वृहद्राक्षसभावं तद्बोधात्कञ्चुकवज्जहौ ।।

तत्रैव ध्यायती तस्थौ बद्धपद्मासनस्थितिः ।

व्यालम्ब्य संविदं शुद्धां संस्थिता गिरिकूटवत्

॥३॥

अथ सा मासषट्केन ध्यानाद्बोधमुपागता ।

महाजलदनादेन प्रावृषीव शिखण्डिनी

॥४॥

प्रबुद्धा सा बहिर्वृत्तिर्बभूव क्षुत्परायणा ।

यावद्देहं स्वभावोऽस्य देहस्य न निवर्तते

॥५॥

अथ सा किं ग्रस इति चिन्तयामास चिन्तया ।

भोक्तव्यः परजीवश्च न्यायेन न विना मया

॥१॥

यदार्यगर्हितं यद्वा न्यायेन न समर्जितम् ।

तस्माद्ग्रासाद्वरं मन्ये मरणं देहिनामिदम्

॥७॥

यदि देहं त्यजामीदं तन्न्यायोपार्जितं विना ।

न किंचिदस्ति निर्न्यायं भुक्तोऽर्थो हि गरायते

॥८॥

यत्र लोकक्रमप्राप्तं तेन भुक्तेन किं भवेत् ।

न जीवितेन नो मृत्या किंचित्कारणमस्ति मे

॥९॥

मनोमात्रमहं ह्यासं देहादिभ्रमभूषणम् ।

तच्छान्तं स्वावबोधेन देहादेहदृशौ कुतः

॥१०॥

श्रीवसिष्ठ उवाच ।

एवं स्थिता मौनवती शुश्राव गगनाद्गिरम् ।

रक्षःस्वरूपसंत्यागतुष्टेनोक्तां नभस्वता

॥११॥

गच्छ कर्कटि मूढांस्त्वं ज्ञानेनाश्ववबोधय ।

मूढोत्तारणमेवेह स्वभावो महतामिति

॥१२॥

बोध्यमानो भवत्यापि यो न बोधमुपैष्यति ।

स्वनाशायैव जातोऽसौ न्याय्यो ग्रासो भवेत्तव

॥१३॥

श्रुत्वेत्यनुगृऽहीतास्मि त्वयेत्युक्तवती शनैः ।

उत्तस्थौ शैलशिखरात्क्रमादवरुरोह च

॥१४॥

अधित्यकामतीत्याशु गत्वा चोपत्यकातटान् ।

विवेश शैलपादस्थं किरातजनमण्डलम्

॥१५॥

बह्वन्नपशुलोकौघद्रव्यशष्पौषधामिषम् ।

अनन्तमूलपानान्नमृगकीटखगादिकम्

॥१६॥

प्रचलितवलिताञ्जनाचलाभा

हिमगिरिपादनिवेशितं सुदेशम् ।

तदनुगतवती निशाचरी सा

निशि सुघनान्धतमिस्रमार्गभूमौ

॥१७॥

इत्यार्षे श्रीवासिष्ठमहारामायणे मोक्षोपायेषूत्पत्तिप्रकरणे अन्यायबाधिको नाम षट्सप्ततितमः सर्गः ।। ७६ ।।