मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — उत्पत्तिप्रकरणम् — सर्गः ८४

3
योगवासिष्ठम् · उत्पत्तिप्रकरणम् · 84

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

एतत्ते कथितं सर्वं मयाख्यानमनिन्दितम् ।

कर्कट्या हिमराक्षस्या यथावदनुपूर्वशः

॥१॥

श्रीराम उवाच ।

हिमवद्गह्वरे प्रोत्था सा कथं कृष्णराक्षसी ।

बभूव कर्कटी नाम्ना यथावद्वद मे प्रभो

॥२॥

श्रीवसिष्ठ उवाच ।

कुलानि सन्त्यनेकानि राक्षसानां स्वभावतः ।

तानि शुक्लानि कृष्णानि हरितान्युज्ज्वलानि च

॥३॥

कर्कटप्राणिसादृश्यात्कर्कटो नाम राक्षसः ।

बभूव तज्जा सा कृष्णा कर्कटी कर्कटाकृतिः

॥४॥

कर्कटीप्रश्नसंस्मृत्या मयैषा कथिता तव ।

अध्यात्मोक्तिप्रसङ्गेन विश्वरूपनिरूपणे

॥५॥

संपन्नमेव मे कस्मादसंपन्नमिव स्फुटम् ।

इदं जगदनाद्यन्तात्पदात्परमकारणात्

॥६॥

प्लाविन्यो वीचयो वारिण्यन्यानन्याः स्थिता यथा ।

वर्तमाना अपि परे सृष्टयः संस्थितास्तथा

॥७॥

अज्वलन्नेव काष्ठेषु वह्निरर्थक्रियां यथा ।

करोति मर्कटादीनां शीतापहरणादिकम्

॥८॥

समं सौम्यत्वमजहदेव नित्योदयस्थिति ।

तथा ब्रह्म करोतीदं नाना कर्तेव सज्जगत्

॥९॥

अप्यनागत एवायमेवं सर्ग उपागतः ।

भोः शालभञ्जिकासंविद्दारुण्येव मुधोदिता

॥१०॥

बीजे यथाऽनन्यदपि फलाद्यन्यदिवोदितम् ।

चितौ तथाऽनन्यदपि चेत्यमन्यदिवोदितम्

॥११॥

अच्छेदादेकसत्ताया न भेदः फलबीजयोः ।

चिच्चेत्ययोश्च वार्यूर्म्योरिव वस्तुनि कश्चन

॥१२॥

अविचारात्कुतो भेदो नैतयोरुपपद्यते ।

यतःकुतश्चिदुदितः स विचारेण नश्यति

॥१३॥

भ्रान्तिरेषा यथाऽऽयाता तथा यातु रघूद्वह ।

ज्ञास्यसे तत्प्रबुद्धस्त्वमेनां केवलमुत्सृज

॥१४॥

भ्रान्तिग्रन्थौ वित्रुटिते मदुक्तिश्रवणात्ततः ।

ज्ञानशब्दार्थभेदानां वस्तु ज्ञास्यस्यलं स्वयम्

॥१५॥

चित्तादियमनर्थश्रीस्तच्च सा चेतरा च ते ।

मदुक्तिश्रवणादेव शान्तिमेष्यत्यसंशयम्

॥१६॥

ब्रह्मणः सर्वमुत्पन्नं सर्वं ब्रह्मैवमेति च ।

मद्गीर्भिः संप्रबुद्धः सन् ज्ञास्यस्यलमनिन्दितम्

॥१७॥

श्रीराम उवाच ।

तस्मादियमिति ब्रहन्व्यतिरेकार्थपञ्चमी ।

ननु किं विद्धि देवेशादभिन्नं सर्वमित्यपि

॥१८॥

श्रीवसिष्ठ उवाच ।

उपदेशाय शास्त्रेषु जातः शब्दोऽथवार्थजः ।

प्रतियोगिव्यवच्छेदसंख्यालक्षणपक्षवान्

॥१९॥

भेदो दृश्यत एवायं व्यवहारान्न वास्तवः ।

वेतालो बालकस्येव कार्यार्थं परिकल्पितः

॥२०॥

द्वैतैक्यमपि नो यस्यां तथा भूतार्थसंस्थितौ ।

अस्ति तस्यामीदृशः स्यात्कुतः संकल्पविप्लवः

॥२१॥

कार्यकारणभावो हि तथा स्वस्वामिलक्षणम् ।

हेतुश्च हेतुमांश्चैवावयवावयविक्रमः

॥२२॥

व्यतिरेकाव्यतिरेकौ परिणामादिविभ्रमः ।

तथा भावविलासादि विद्याविद्ये सुखासुखे

॥२३॥

एवमादिमयी मिथ्यासंकल्पकलना मिता ।

अज्ञानामवबोधार्थं नतु भेदोऽस्ति वस्तुनि

॥२४॥

अविबोधादयं वादो ज्ञाते द्वैतं न विद्यते ।

ज्ञाते संशान्तकलनं मौनमेवावशिष्यते

॥२५॥

सर्वमेकमनाद्यन्तमविभागमखण्डितम् ।

इति ज्ञास्यसि सिद्धान्तं काले बोधमुपागतः

॥२६॥

विवदन्ते ह्यसंबुद्धाः स्वविकल्पविजृम्भितैः ।

उपदेशादयं वादो ज्ञाते द्वैतं न विद्यते

॥२७॥

वाच्यवाचकसंबोधो विना द्वैतं न सिद्ध्यति ।

नच द्वैतं संभवति मौनं वापादयत्यलम्

॥२८॥

महावाक्यार्थनिष्ठान्तां बुद्धिं कृत्वा रघूद्वह ।

वचोभेदमनादृत्य यदिदं वच्मि ते श्रृणु

॥२९॥

यतःकुतश्चिदुच्छ्रायं गन्धर्वपुरवन्मनः ।

भ्रान्तिमात्रं तनोतीदं जगदाख्यं स्वजृम्भणम्

॥३०॥

यथा चेतस्तनोतीमां जगन्मायां तथानघ ।

श्रृणु त्वं कथयामीदं दृष्टान्तं दृष्टिवेदनम्

॥३१॥

यं श्रुत्वा सर्वमेवेदं भ्रान्तिमात्रमिति स्वयम् ।

राम निश्चयवान्भूत्वा दूरे त्यक्ष्यसि वासनाम्

॥३२॥

मनोमनननिर्माणमात्रमेव जगत्त्रयम् ।

सर्वमुत्सृज्य शान्तात्मा स्वात्मन्येव निवत्स्यसि

॥३३॥

मद्वाक्यार्थावधानस्थो मनोव्याधिचिकित्सने ।

विवेकौषधलेशेन प्रयत्नं च करिष्यसि

॥३४॥

एवं स्थिते जगद्रूपं चित्तमेवेह जृम्भते ।

न विद्यते शरीरादि सिकतान्तरतैलवत्

॥३५॥

चित्तमेव हि संसारो रागादिक्लेशदूषितम् ।

तदैव तैर्विनिर्मुक्तं भवान्त इति कथ्यते

॥३६॥

चित्तं साध्यं पालनीयं विचार्यं कार्यमार्यवत् ।

आहार्यं व्यवहार्यं च संचार्यं धार्यमादरात्

॥३७॥

सर्वमभ्यन्तरे चित्तं बिभर्ति त्रिजगन्नभः ।

अहमापूरमिव तद्यथाकालं विजृम्भते

॥३८॥

योऽयं चित्तस्य चिद्भागः सैषा सर्वार्थबीजता ।

यश्चास्य जडभागश्च तज्जगत्सोऽङ्ग संभ्रमः

॥३९॥

अविद्यमानमेवेदमादिसर्गे धरादिकम् ।

निराकृतिरजः स्वप्नं पश्यतीव न पश्यति

॥४०॥

सर्गादिदीर्घसंवित्या शैलादिजडसंविदा ।

सूक्ष्मं सूक्ष्मविदा चेति देहं शून्यं न वास्तवम्

॥४१॥

सर्वगेनात्मना व्याप्तं स्वचेत्यात्मवपुर्मनः ।

आततं सौम्य विमलं वारीव रवितेजसा

॥४२॥

चित्तबालो जगद्यक्षं मिथ्या पश्यत्यबोधतः ।

बोधितोऽसौ परं रूपं स्वं पश्यति निरामयम्

॥४३॥

यथात्मा दृश्यतामेति द्वित्वैक्यभ्रमदायिनीम् ।

श्रृणु तत्ते प्रवक्ष्यामि वक्ष्यमाणकथागमैः

॥४४॥

यत्कथ्यते हि हृदयंगमयोपमान-

युक्त्या गिरा मधुरयुक्तपदार्थया च ।

श्रोतुस्तदङ्ग हृदयं परितो विसारि

व्याप्नोति तैलमिव वारिणि वार्य शङ्काम्

॥४५॥

त्यक्तोपमानममनोज्ञपदं दुरापं

क्षुब्धं धराविधुरितं विनिगीर्णवर्णम् ।

श्रोतुर्न याति हृदयं प्रविनाशमेति

वाक्यं किलाज्यमिव भस्मनि हूयमानम्

॥४६॥

आख्यानकानि भुवि यानि कथाश्च या या

यद्यत्प्रमेयमुचितं परिपेलवं वा ।

दृष्टान्तदृष्टिकथनेन तदेति साधो

प्राकाश्यमाशु भुवनं सितरश्मिनेव

॥४७॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे सूच्युपाख्याने मनोङ्कुरोत्पत्तिकथनं नाम चतुरशीतितमः सर्गः ।। ८४ ।।