मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — उत्पत्तिप्रकरणम् — सर्गः ९४

3
योगवासिष्ठम् · उत्पत्तिप्रकरणम् · 94

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

उत्तमाधममध्यानां पदार्थानामितस्ततः ।

उत्पत्तीनां विभागोऽयं श्रृणु वक्ष्यामि राघव

॥१॥

इदं प्रथमतोत्पन्नो योऽस्मिन्नेव हि जन्मनि ।

इदंप्रथमतानाम्नी शुभाभ्याससमुद्भवा

॥२॥

शुभलोकाश्रया सा च शुभकार्यानुबन्धिनी ।

सा चेद्विचित्रसंसारवासनाव्यवहारिणी

॥३॥

भवैः कतिपयैर्मोक्षमित्युक्ता गुणपीवरी ।

तादृक्फलप्रदानैककार्याकार्यानुमानदा

॥४॥

तेन राम ससत्त्वेति प्रोच्यते सा कृतात्मभिः ।

अथ चेच्चित्रसंसारवासनाव्यवहारिणी

॥५॥

अत्यन्तकलुषा जन्मसहस्रैर्ज्ञानभागिनी ।

तादृक्फलप्रदानैकधर्माधर्मानुमानदा

॥६॥

असावधमसत्त्वेति तेन साधुभिरुच्यते ।

सैव संख्यातिगानन्तजन्मवृन्दादनन्तरम्

॥७॥

संदिग्धमोक्षा यदि तत्प्रोच्यतेऽत्यन्ततामसी ।

अनद्यतनजन्मा तु जातिस्तादृशकारिणी

॥८॥

योत्पत्तिर्मध्यमा पुंसो राम द्वित्रिभवान्तरा ।

तादृक्कार्या तु सा लोके राजसी राजसत्तम

॥९॥

अविप्रकृष्टजन्मापि सोच्यते कृतबुद्धिभिः ।

सा हि तन्मृतिमात्रेण मोक्षयोग्या मुमुक्षुभिः

॥१०॥

तादृक्कार्यानुमानेन प्रोक्ता राजससात्त्विकी ।

सैव चेदितरैरल्पैर्जन्मभिर्मोक्षभागिनी

॥११॥

तत्तादृशी हि सा तज्ज्ञैः प्रोक्ता राजसराजसी ।

सैव जन्मशतैर्मोक्षभागिनी चेच्चिरैषिणी

॥१२॥

त्वदुक्ता तादृगारम्भा सद्भी राजसतामसी ।

सैव संदिग्धमोक्षा चेत्सहस्रैरपि जन्मनाम्

॥१३॥

तदुक्ता तादृशारम्भा राजसात्यन्ततामसी ।

भुक्तजन्मसहस्रा तु योत्पत्तिर्ब्रह्मणो नृणाम्

॥१४॥

चिरमोक्षा हि कथिता तामसी सा महर्षिभिः ।

तज्जन्मनैव मोक्षस्य भागिनी चेत्तदुच्यते

॥१५॥

तज्ज्ञैस्तामससत्त्वेति तादृशारम्भशालिनी ।

भवैः कतिपयैर्मोक्षभागिनी चेत्तदुच्यते

॥१६॥

तमोराजसरूपेति तादृशैर्गुणबृंहितैः ।

पूर्वजन्मसहस्राढ्या पुरोजन्मशतैरपि

॥१७॥

मोक्षायोग्या ततः प्रोक्ता तज्ज्ञैस्तामसतामसी ।

पूर्वं तु जन्मलक्षाढ्या जन्मलक्षैः पुरोऽपि चेत्

॥१८॥

संदिग्धमोक्षा तदसौ प्रोच्यतेऽत्यन्ततामसी ।

सर्वा एताः समायान्ति ब्रह्मणो भूतजातयः

॥१९॥

किंचित्त्प्रचलिता भोगात्पयोराशेरिवोर्मयः ।

सर्वा एव विनिष्क्रान्ता ब्रह्मणो जीवराशयः

॥२०॥

स्वतेजःस्पन्दिताभोगाद्दीपादिव मरीचयः ।

सर्वा एव समुत्पन्ना ब्रह्मणो भूतपङ्क्तयः

॥२१॥

स्वमरीचिबलोद्भूता ज्वलिताग्नेः कणा इव ।

सर्वा एवोत्थितास्तस्माद्ब्रह्मणो जीवराशयः

॥२२॥

मन्दारमञ्जरीरूपाश्चन्द्रबिम्बादिवांशवः ।

सर्वा एव समुत्पन्ना ब्रह्मणो दृश्यदृष्टयः

॥२३॥

यथा विटपिनश्चित्रास्तद्रूपा विटपश्रियः ।

सर्वा एव समुत्पन्ना ब्रह्मणो जीवपङ्क्तयः

॥२४॥

कटकाङ्गदकेयूरयुक्तयः कनकादिव ।

सर्वा एवोत्थिता राम ब्रह्मणो जीवराशयः

॥२५॥

निर्झरादमलोद्योतात्पयसामिव बिन्दवः ।

अजस्यैवाखिला राम भूतसंततिकल्पनाः

॥२६॥

आकाशस्य घटस्थालीरन्ध्राकाशादयो यथा ।

सर्वा एवोत्थिता लोककलना ब्रह्मणः पदात्

॥२७॥

सीकरावर्तलहरीबिन्दवः पयसो यथा ।

सर्वा एवोत्थिता राम ब्रह्मणो दृश्यदृष्टयः

॥२८॥

मृगतृष्णातरङ्गिण्यो यथा भास्करतेजसः ।

सर्वा दृश्यदृशो द्रष्टुर्व्यतिरिक्ता न रूपतः

॥२९॥

शीतरश्मेरित ज्योत्स्ना स्वालोक इव तेजसः ।

एवमेता हि भूतानां जातयो विविधाश्च याः

॥३०॥

यस्मादेव समायान्ति तस्मिन्नेव विशन्ति च ।

काश्चिज्जन्मसहस्रान्ते जातयश्चिरकालिकाः ।

काश्चित्कतिपयातीतजन्मरूपा व्यवस्थिताः

॥३१॥

इत्थं जगत्सु विविधेषु विचित्ररूपा-

स्तस्येच्छया भगवतो व्यवहारवत्यः ।

आयान्ति यान्ति निपतन्ति तथोत्पतन्ति

रूपश्रियः कणघटा इव पावकोत्थाः

॥३२॥

इत्यार्षे श्रीवासिष्ठमहारामायणे मोक्षोपायेषूत्पत्तिप्रकरणे ब्रह्मणः सर्वमुत्पद्यत इति कथनं नाम चतुर्नवतितमः सर्गः ।। ९४ ।।