मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — उत्पत्तिप्रकरणम् — सर्गः ९५

3
योगवासिष्ठम् · उत्पत्तिप्रकरणम् · 95

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

अभिन्नौ कर्मकर्तारौ सममेव परात्पदात् ।

स्वयं प्रकटतां यातौ पुष्पामोदौ तरोरिव

॥१॥

सर्वसंकल्पनामुक्ते जीवा ब्रह्मणि निर्मले ।

स्फुरन्ति वितते व्योम्नि नीलिमेवाज्ञचक्षुषः

॥२॥

अप्रबुद्धजनाचारो यत्र राघव दृश्यते ।

तत्र ब्रह्मण उत्पन्ना जीवा इत्युक्तयः स्थिताः

॥३॥

संप्रबुद्धजनाचारे वक्तुमेतन्न शोभनम् ।

यद्ब्रह्मण इदं जातं न जातं चेति राघव

॥४॥

काचिद्वा कलना यावन्न नीता राघव प्रथाम् ।

उपदेश्योपदेशश्रीस्तावल्लोके न शोभते

॥५॥

अतो भेददृशा दीनामङ्गीकृत्योपदिश्यते ।

ब्रह्मेदमेते जीवा वै वेति वाचामयं क्रमः

॥६॥

इति दृष्टो निरासङ्गाद्ब्रह्मणो जायते जगत् ।

तज्जं तदेव तद्धेतुगतं दुरवबोधतः

॥७॥

मेरुमन्दरसंकाशा बहवो जीवराशयः ।

उत्पत्योत्पत्य संलीनास्तस्मिन्नेव परे पदे

॥८॥

अथानन्ताः स्फुरन्त्येते जायमानाः सहस्रशः ।

नानाककुब्निकुञ्जेषु पादपेष्विव पल्लवाः

॥९॥

जीवौघाश्चोद्भविष्यन्ति मधाविव नवाङ्कुराः ।

तत्रैव लयमेष्यन्ति ग्रीष्मे मधुरसा इव

॥१०॥

तिष्ठन्त्यजस्रं कालेषु त एवान्ये च भूरिशः ।

जायन्ते च प्रलीयन्ते परस्मिञ्जीवराशयः

॥११॥

पुष्पामोदाविवाभिन्नौ पुमान्कर्म च राघव ।

परमेशात्समायाते तत्रैव विशतः शनैः

॥१२॥

दृष्टमेते जगत्यस्मिन्दैत्योरगनरामराः ।

उद्भवन्त्यभवा भावैः प्रस्फुरन्ति पुनः पुनः

॥१३॥

हेतुर्विहरणे तेषामात्मविस्मरणादृते ।

न कश्चिल्लक्ष्यते साधो जन्मान्तरफलप्रदः

॥१४॥

श्रीराम उवाच ।

अविसंवादिनार्थे यद्यत्प्रामाणिकदृष्टिभिः ।

वीतरागैर्विनिर्णीतं तच्छास्त्रमिति कथ्यते

॥३५॥

महासत्त्वगुणोपेता ये धीराः समदृष्टयः ।

अनिर्देश्यकलोपेताः साधवस्त उदाहृताः

॥१६॥

द्वयं हि दृष्टिर्बालानां सिद्धये सर्वकर्मणाम् ।

साधुवृत्तं तथा शास्त्रं सर्वदैवानुवर्तते

॥१७॥

साधुसंव्यवहारार्थं शास्त्रं यो नानुवर्तते ।

बहिःकुर्वन्ति तं सर्वे स च दुःखे निमज्जति

॥१८॥

इह लोके च वेदे च श्रुतिरित्थं सदा प्रभो ।

यथा कर्म च कर्ता च पर्यायेणेह संगतौ

॥१९॥

कर्मणा क्रियते कर्ता कर्त्रा कर्म प्रणीयते ।

बीजाङ्कुरादिवन्न्यायो लोकवेदोक्त एव सः

॥२०॥

कर्मणो जायते जन्तुर्बीजादिव नवाङ्कुरः ।

जन्तोः प्रजायते कर्म पुनर्बीजमिवाङ्कुरात्

॥२१॥

यया वासनया जन्तुर्नीयते भवपञ्जरे ।

तद्वासनानुरूपेण फलं समनुभूयते

॥२२॥

एवं स्थिते कथं नाम जन्मबीजेन कर्मणा ।

विनोत्पत्तिस्त्वया प्रोक्ता भूतानां ब्रह्मणः पदात्

॥२३॥

पक्षेणानेन भगवन्भवता जन्मकर्मणोः ।

तिरस्कृता जगज्जाता साऽविनाभावितैतयोः

॥२४॥

ब्रह्मण्यकारणे ब्रह्मन्ब्रह्मादिषु फलेषु च ।

कर्मणां फलमस्तीति द्वयं लोके प्रमार्जितम्

॥२५॥

संजाते संकरे लोके कर्मस्वफलदायिषु ।

मात्स्यन्याये विलसति नाश एवावशिष्यते

॥२६॥

किं तत्कृतं भवत्येव भगवन्ब्रूहि तत्त्वतः ।

एनं मे संशयं स्फारं छिन्धि वेद्यविदांवर

॥२७॥

श्रीवसिष्ठ उवाच ।

साधु राघव पृष्टोऽस्मि त्वया प्रश्नमिमं शुभम् ।

शृणु वक्ष्यामि ते येन भृशं ज्ञानोदयो भवेत्

॥२८॥

मानसोऽयं समुन्मेषः कलाकलनरूपतः ।

एतत्तत्कर्मणां बीजं फलमस्यैव विद्यते

॥२९॥

यदैव हि मनस्तत्त्वमुत्थितं ब्रह्मणः पदात् ।

तदैव कर्म जन्तूनां जीवो देहतया स्थितः

॥३०॥

कुसुमाशययोर्भेदो न यथा भिन्नयोरिह ।

तथैव कर्ममनसोर्भेदो नास्त्यविभिन्नयोः

॥३१॥

क्रियास्पन्दो जगत्यस्मिन्कर्मेति कथितो बुधैः ।

पूर्वं तस्य मनो देहं कर्मातश्चित्तमेव हि

॥३२॥

न स शैलो न तद्व्योम न सोऽब्धिश्च न विष्टपम् ।

अस्ति यत्र फलं नास्ति कृतानामात्मकर्मणाम्

॥३३॥

ऐहिकं प्राक्तनं वापि कर्म यद्रचितं स्फुरत् ।

पौरुषोऽसौ परो यत्नो न कदाचन निष्फलः

॥३४॥

कृष्णतासंक्षये यद्वत्क्षीयते कज्जलं स्वयम् ।

स्पन्दात्मकर्मविगमे तद्वत्प्रक्षीयते मनः

॥३५॥

कर्मनाशे मनोनाशो मनोनाशो ह्यकर्मता ।

मुक्तस्यैव भवत्येव नामुक्तस्य कदाचन

॥३६॥

वह्न्यौष्णयोरिव सदा श्लिष्टयोश्चित्तकर्मणोः ।

द्वयोरेकतराभावे द्वयमेव विलीयते

॥३७॥

चित्तं सदा स्पन्दविलासमेत्य स्पन्दैकरूपं ननु कर्मविद्धि ।

कर्माथ चित्तं किल धर्मकर्मपदं गते राम परस्परेण

॥३८॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० उ० कर्मपुरुषयोरैक्यप्रतिपादनं नाम पञ्चनवतितमः सर्गः ।। ९५ ।।