मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — उत्पत्तिप्रकरणम् — सर्गः ९७

3
योगवासिष्ठम् · उत्पत्तिप्रकरणम् · 97

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीराम उवाच ।

ब्रह्मन्मनस एवेदमन्तश्चाडम्बरं सृतम् ।

यतस्तदेव कर्मेति वाक्यार्थादुपलभ्यते

॥१॥

श्रीवसिष्ठ उवाच ।

दृढभावोपरक्तेन मनसैवोररीकृतम् ।

मरुचण्डातपेनेव भास्वरावरणं पुनः

॥२॥

ब्रह्मात्मनि जगत्यस्मिन्मन एकाकृतिं गतम् ।

क्वचिन्नरतया रूढं क्वचित्सुरतयोत्थितम्

॥३॥

क्वचिद्दैत्यतयोल्लासि क्वचिद्यक्षतयोदितम् ।

क्वचिद्गन्धर्वतां प्राप्तं क्वचित्किन्नररूपि च

॥४॥

नानाचारनभोभागपुरपत्तनरूपया ।

मन्ये विततयाकृत्या मन एव विजृम्भते

॥५॥

एवं स्थिते शरीरौघस्तृणकाष्ठलतोपमः ।

तद्विचारणया कोऽर्थो विचार्यं मन एव नः

॥६॥

तेनेदं सर्वमाभोगि जगदित्याकुलं ततम् ।

मन्ये तद्व्यतिरेकेण परमात्मैव शिष्यते

॥७॥

आत्मा सर्वपदातीतः सर्वगः सर्वसंश्रयः ।

तत्प्रसादेन संसारे मनो धावति वल्गति

॥८॥

मनो मन्ये मनः कर्म तच्छरीरेषु कारणम् ।

जायते म्रियते तद्धि नात्मनीदृग्विधा गुणाः

॥९॥

मन एव विचारेण मन्ये विलयमेष्यति ।

मनोविलयमात्रेण ततः श्रेयो भविष्यति

॥१०॥

मनोनाम्नि परिक्षीणे कर्मण्याहितसंभ्रमे ।

मुक्त इत्युच्यते जन्तुः पुनर्नाम न जायते

॥११॥

श्रीराम उवाच ।

भगवन्भवता प्रोक्ता जातयस्त्रिविधा नृणाम् ।

प्रथमं कारणं तासां मनः सदसदात्मकम्

॥१२॥

तत्कथं शुद्धचिन्नाम्नस्तत्त्वाद्बुद्धिविवर्जितात् ।

उत्थितं स्फारतां यातं जगच्चित्रकरं मनः

॥१३॥

श्रीवसिष्ठ उवाच ।

आकाशा हि त्रयो राम विद्यन्ते विततान्तराः ।

चित्ताकाशश्चिदाकाशो भूताकाशस्तृतीयकः

॥१४॥

एते हि सर्वसामान्याः सर्वत्रैव व्यवस्थिताः ।

शुद्धचित्तत्वशक्त्या तु लब्धसत्तात्मतां गताः

॥१५॥

सबाह्याभ्यन्तरस्थो यः सत्तासत्तावबोधकः ।

व्यापी समस्तभूतानां चिदाकाशः स उच्यते

॥१६॥

सर्वभूतहितः श्रेष्ठो यः कालकलनात्मकः ।

येनेदमाततं सर्वं चित्ताकाशः स उच्यते

॥१७॥

दशदिङ्मण्डलाभोगैरव्युच्छिन्नवपुर्हि यः ।

भूतात्मासौ य आकाशः पवनाब्दादिसंश्रयः

॥१८॥

आकाशचित्ताकाशौ द्वौ चिदाकाशबलोद्भवौ ।

चित्कारणं हि सर्वस्य कार्यौघस्य दिनं यथा

॥१९॥

जडोऽस्मि न जडोऽस्मीति निश्चयो मलिनश्चितः ।

यस्तदेव मनो विद्धि तेनाकाशादि भाव्यते

॥२०॥

अप्रबुद्धात्मविषयमाकाशत्रयकल्पनम् ।

कल्प्यते उपदेशार्थं प्रबुद्धविषयं न तु

॥२१॥

एकमेव परं ब्रह्म सर्व सर्वावपूरकूम् ।

प्रबुद्धविषयं नित्यं कलाकलनवर्जितम्

॥२२॥

द्वैताद्वैतसमुद्भेदैर्वाक्यसंदर्भगर्भितैः ।

उपदेश्यत एवाज्ञो न प्रबुद्धः कथंचन

॥२३॥

यावद्रामाप्रबुद्धस्त्वमाकाशत्रयकल्पना ।

तावदेवावबोधार्थं मया त्वमुपदिश्यसे

॥२४॥

आकाशचित्ताकाशाद्याश्चिदाकाशकलङ्कितात् ।

प्रसूता दावदहनाद्यथा मरुमरीचयः

॥२५॥

चिनोति मलिनं रूपं चित्ततां समुपागतम् ।

त्रिजगन्तीन्द्रजालानि रचयत्याकुलात्मकम्

॥२६॥

चित्तत्वमस्य मलिनस्य चिदात्मकस्य

तत्त्वस्य दृश्यत इदं ननु बोधहीनैः ।

शुक्तौ यथा रजतता नतु बोधवद्भि-

र्मौर्ख्येण बन्ध इह बोधबलेन मोक्षः

॥२७॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मो० उत्पत्तिप्रकरणे चिदाकाशमाहात्म्यं नाम सप्तनवतितमः सर्गः ।। ९७ ।।