मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — वैराग्यप्रकरणम् — सर्गः २०

3
योगवासिष्ठम् · वैराग्यप्रकरणम् · 20

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीराम उवाच ।

बाल्यानर्थमथ त्यक्त्वा पुमानभिहताशयः ।

आरोहति निपाताय यौवनं संभ्रमेण तु

॥१॥

तत्रानन्तविलासस्य लोलस्य स्वस्य चेतसः ।

वृत्तीरनुभवन्याति दुःखाद्दुःखान्तरं जडः

॥२॥

स्वचित्तबिलसंस्थेन नानासंभ्रमकारिणा ।

बलात्कामपिशाचेन विवशः परिभूयते

॥३॥

चिन्तानां लोलवृत्तीनां ललनानामिवाऽवृतीः ।

अर्पयत्यवशं चेतो बालानामञ्जनं यथा

॥४॥

ते ते दोषा दुरारम्भास्तत्र तं तादृशाशयम् ।

तद्रूपं प्रतिलुम्पन्ति दुष्टास्तेनैव ये मुने

॥५॥

महानरकबीजेन संततभ्रमदायिना ।

यौवनेन न ये नष्टा नष्टा नान्येन ते जनाः

॥६॥

नानारसमयी चित्रवृत्तान्तनिचयोम्भिता ।

भीमा यौवनभूर्येन तीर्णा धीरः स उच्यते

॥७॥

निमेषभासुराकारमालोलघनगर्जितम् ।

विद्युत्प्रकाशमशिवं यौवनं मे न रोचते

॥८॥

मधुरं स्वादु तिक्तं च दूषणं दोषभूषणम् ।

सुराकल्लोलसदृशं यौवनं मे न रोचते

॥९॥

असत्यं सत्यसंकाशमचिराद्विप्रलम्भदम् ।

स्वप्नाङ्गनासङ्गसमं यौवनं मे न रोचते

॥१०॥

सर्वस्याग्रे सर्वपुंसः क्षणमात्रमनोहरम् ।

गन्धर्वनगरप्रख्यं यौवनं मे न रोचते

॥११॥

इषुप्रपातमात्रं हि सुखदं दुःखभासुरम् ।

दाहपोषप्रदं नित्यं यौवनं मे न रोचते

॥१२॥

आपातमात्ररमणं सद्भावरहितान्तरम् ।

वेश्यास्त्रीसंगमप्रख्यं यौवनं मे न रोचते

॥१३॥

ये केचन समारम्भास्ते सर्वे सर्वदुःखदाः ।

तारुण्ये संनिधिं यान्ति महोत्पाता इव क्षये

॥१४॥

हार्दान्धकारकारिण्या भैरवाकारवानपि ।

यौवनाज्ञानयामिन्या बिभेति भगवानपि

॥१५॥

सुविस्मृतशुभाचारं बुद्धिवैधुर्यदायिनम् ।

ददात्यतितरामेष भ्रमं यौवनसंभ्रमः

॥१६॥

कान्तावियोगजातेन हृदि दुःस्पर्शवह्निना ।

यौवने दह्यते जन्तुस्तरुर्दावाग्निना यथा

॥१७॥

सुनिर्मलापि विस्तीर्णा पावन्यपि हि यौवने ।

मतिः कलुषतामेति प्रावृषीव तरङ्गिणी

॥१८॥

शक्यते घनकल्लोला भीमा लङ्घयितुं नदी ।

न तु तारुण्यतरला तृष्णातरलितान्तरा

॥१९॥

सा कान्ता तौ स्तनौ पीनौ ते विलासास्तदाननम् ।

तारुण्य इति चिन्ताभिर्याति जर्जरतां जनः

॥२०॥

नरं तरलतृष्णार्ति युवानमिह साधवः ।

पूजयन्ति न तु च्छिन्नं जरत्तृणलवं यथा

॥२१॥

नाशायैव मदार्तस्य दोषमौक्तिकधारिणः ।

अभिमानमहेभस्य नित्यालानं हि यौवनम्

॥२२॥

मनोविपुलमूलानां दोषाशीविषधारिणाम् ।

शोषरोदनवृक्षाणां यौवनं बत काननम्

॥२३॥

रसकेसरसंबाधं कुविकल्पदलाकुलम् ।

दुश्चिन्ताचञ्चरीकाणां पुष्करं विद्धि यौवनम्

॥२४॥

कृताकृतकुपक्षाणां हृत्सरस्तीरचारिणाम् ।

आधिव्याधिविहंगानामालयो नवयौवनम्

॥२५॥

जडानां गतसंख्यानां कल्लोलानां विलासिनाम् ।

अनपेक्षितमर्यादो वारिधिर्नवयौवनम्

॥२६॥

सर्वेषां गुणसर्गाणां परिरूढरजस्तमाः ।

अपनेतुं स्थितिं दक्षो विषमो यौवनानिलः

॥२७॥

नयन्ति पाण्डुतां वक्रमाकुलावकरोत्कटाः ।

आरोहन्ति परां कोटिं रूक्षा यौवनपांसवः

॥२८॥

उद्वोधयति दोषालिं निकृन्तति गुणावलिम् ।

नराणां यौवनोल्लासो विलासो दुष्कृतश्रियाम्

॥२९॥

शरीरपङ्कजरजश्चञ्चलां मतिषट्पदीम् ।

निबध्नन्मोहयत्येष नवयौवनचन्द्रमाः

॥३०॥

शरीरखण्डकोद्भूता रम्या यौवनवल्लरी ।

लग्नमेव मनोभृङ्गं मदयत्युन्नतिं गता

॥३१॥

शरीरमरुतापोत्थां युवतामृगतृष्णिकाम् ।

मनोमृगाः प्रधावन्तः पतन्ति विषयावटे

॥३२॥

शरीरशर्वरीज्योत्स्ना चित्तकेसरिणः सटा ।

लहरी जीविताम्भोधेर्युवता मे न तुष्टये

॥३३॥

दिनानि कतिचिद्येयं फलिता देहजङ्गले ।

युवता शरदस्यां हि न समाश्वासमर्हथ

॥३४॥

झटित्येव प्रयात्येव शरीराद्युवताखगः ।

क्षणेनैवाल्पभाग्यस्य हस्ताच्चिन्तामणिर्यथा

॥३५॥

यदा यदा परां कोटिमध्यारोहति यौवनम् ।

वल्गन्ति सज्वराः कामास्तदा नाशाय केवलम्

॥३६॥

तावदेव विवल्गन्ति रागद्वेषपिशाचकाः ।

नास्तमेति समस्तैषा यावद्यौवनयामिनी

॥३७॥

नानाविकारबहुले वराके क्षणनाशिनि ।

कारुण्यं कुरु तारुण्ये म्रियमाणे सुतै यथा

॥३८॥

हर्षमायाति यो मोहात्पुरुषः क्षणभङ्गिना ।

यौवनेन महामुग्धः स वै नरमृगः स्मृतः

॥३९॥

मानमोहान्मदोन्मत्तं यौवनं योऽभिलष्यति ।

अचिरेण स दुर्बुद्धिः पश्चात्तापेन युज्यते

॥४०॥

ते पूज्यास्ते महात्मानस्त एव पुरुषा भुवि ।

ये सुखेन समुत्तीर्णाः साधो यौवनसंकटात्

॥४१॥

सुखेन तीर्यतेऽम्भोधिरुत्कृष्टमकराकरः ।

न कल्लोलबलोल्लासि सदोषं हतयौवनम्

॥४२॥

विनयभूषितमार्यजनास्पदं

करुणयोज्ज्वलमावलितं गुणैः ।

इह हि दुर्लभमङ्ग सुयौवनं

जगति काननमम्बरगं यथा

॥४३॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे यौवनगर्हा नाम विंशतितमः सर्गः ।। २० ।।