मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — वैराग्यप्रकरणम् — सर्गः ९

3
योगवासिष्ठम् · वैराग्यप्रकरणम् · 9

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

वाल्मीकिरुवाच ।

तच्छ्रुत्वा वचनं तस्य स्नेहपर्याकुलेक्षणम् ।

समन्युः कौशिको वाक्यं प्रत्युवाच महीपतिम्

॥१॥

करिष्यामीति संश्रुत्य प्रतिज्ञां हातुमर्हसि ।

स भवान्केसरी भूत्वा मृगतामिव वाञ्छसि

॥२॥

राघवाणामयुक्तोऽयं कुलस्यास्य विपर्ययः ।

न कदाचन जायन्ते शीतांशोरुष्णरश्मयः

॥३॥

यदि त्वं न क्षमो राजन्गमिष्यामि यथागतम् ।

हीनप्रतिज्ञ काकुत्स्थ सुखी भव सबान्धवः

॥४॥

वाल्मीकिरुवाच ।

तस्मिन्कोपपरीतेऽथ विश्वामित्रे महात्मनि ।

चचाल वसुधा कृत्स्ना सुरांश्च भयमाविशत्

॥५॥

क्रोधाभिभूतं विज्ञाय जगन्मित्रं महामुनिम् ।

धृतिमान्सुव्रतो धीमान्वसिष्ठो वाक्यमब्रवीत्

॥६॥

वसिष्ठ उवाच ।

इक्ष्वाकूणां कुले जातः साक्षाद्धर्म इवापरः ।

भवान्दशरथः श्रीमांस्त्रैलोक्यगुणभूषितः

॥७॥

धृतिमान्सुव्रतो भूत्वा न धर्मं हातुमर्हसि ।

त्रिषु लोकेषु विख्यातो धर्मेण यशसा युतः

॥८॥

स्वधर्मं प्रतिपद्यस्व न धर्मं हातुमर्हसि ।

मुनेस्त्रिभुवनेशस्य वचनं कर्तुमर्हसि

॥९॥

करिष्यामीति संश्रुत्य तत्ते राजन्नकुर्वतः ।

इष्टापूर्तं हरेद्धर्मं तस्माद्रामं विसर्जय

॥१०॥

इक्ष्वाकुवंशजातोऽपि स्वयं दशरथोऽपि सन् ।

न पालयसि चेद्वाक्यं कोऽपरः पालयिष्यति

॥११॥

युष्मदादिप्रणीतेन व्यवहारेण जन्तवः ।

मर्यादां न विमुञ्चन्ति तां न हातुं त्वमर्हसि

॥१२॥

गुप्तं पुरुषसिंहेन ज्वलनेनामृतं यथा ।

कृतास्त्रमकृतास्त्रं वा नैनं शक्ष्यन्ति राक्षसाः

॥१३॥

एष विग्रहवान्धर्म एप वीर्यवतां वरः ।

एष बुद्ध्याऽधिको लोके तपसां च परायणम्

॥१४॥

एषोऽस्त्रं विविधं वेत्ति त्रैलोक्ये सचराचरे ।

नैतदन्यः पुमान्वेत्ति न च वेत्स्यति कश्चन

॥१५॥

न देवा नर्षयः केचिन्नासुरा न च राक्षसाः ।

न नागा यक्षगन्धर्वाः समेताः सदृशा मुनेः

॥१६॥

अस्त्रमस्मै कृशाश्वेन परैः परमदुर्जयम् ।

कौशिकाय पुरा दत्तं यदा राज्यं समन्वगात्

॥१७॥

ते हि पुत्राः कृशाश्वस्य प्रजापतिसुतोपमाः ।

एनमन्वचरन्वीरा दीप्तिमन्तो महौजसः

॥१८॥

जया च सुप्रभा चैव दाक्षायण्यौ सुमध्यमे ।

तयोस्तु यान्यपत्यानि शतं परमदुर्जयम्

॥१९॥

पञ्चाशतं सुताञ्जज्ञे जया लब्धवरा पुरा ।

वधार्थं सुरसैन्यानां ते क्षमाः कामचारिणः

॥२०॥

सुप्रभा जनयामास पुत्रान्पञ्चाशतं परान् ।

संघर्षान्नाम दुर्धर्षान्दुराकारान्वलीयसः

॥२१॥

एवंवीर्यो महातेजा विश्वामित्रो जगन्मुनिः ।

न रामगमने बुद्धिं विक्लवां कर्तुमर्हसि

॥२२॥

अस्मिन्महासत्त्वतमे मुनीन्द्रे

स्थिते समीपे पुरूषस्य साधो ।

प्राप्तेऽपि मृत्यावमरत्वमेति

मा दीनतां गच्छ यथा विमूढः

॥२३॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे वसिष्ठसमाश्वासनं नाम नवमः सर्गः ।। ९ ।।