मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — उत्पत्तिप्रकरणम् — सर्गः ११०

3
योगवासिष्ठम् · उत्पत्तिप्रकरणम् · 110

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

परमात्कारणादादौ चिच्चेत्यपदपातिनी ।

कलनापदमासाद्य कला कलिलतां गता

॥१॥

असत्स्वेव विमोहेषु रामैवंप्रायवृत्तिषु ।

घनेषु तुच्छतामेत्य चिराय परिमूर्च्छति

॥२॥

असदेव मनोवृत्तिर्म्लाना विस्तारयत्यलम्।

दुःखं दोषसहस्रेण वेतालानिव बालिका

॥३॥

सदेव हि महादुःखमसत्तां नयति क्षणात् ।

निष्कलङ्का मनोवृत्तिरन्धकारमिवार्करुक्

॥४॥

नयत्यभ्याशतां दूरं दूरमभ्याशतां नयेत् ।

मनो वल्गति भूतेषु बालो बालखगेष्विव

॥५॥

अभयं भयमज्ञस्य चेतसो वासनावतः ।

दूरतो मुग्धपान्थस्य स्थाणुर्याति पिशाचताम्

॥६॥

शत्रुत्वं शङ्कते मित्रे कलङ्कमलिनं मनः ।

मदाविष्टमतिर्जन्तुर्भ्रमत्पश्यति भूतलम्

॥७॥

पर्याकुले हि मनसि शशिनो जायतेऽशनिः ।

अमृतं विषभावेन भुक्तं याति विषक्रियाम्

॥८॥

सुरपत्तननिर्माणमसत्सदिव पश्यति ।

वासनावलितं चेतः स्वप्नवज्जाग्रदेव हि

॥९॥

मोहैककारणं जन्तोर्मनसो वासनोल्वणा ।

उत्खातव्या प्रयत्नेन मूलोच्छेदेन सैव च

॥१०॥

वासनावागुराकृष्टो मनोहरिणको नृणाम् ।

परां विवशतामेति संसारवनगुल्मके

॥११॥

येन च्छिन्ना विचारेण जीवस्य ज्ञेयवासना ।

निरभ्रस्येव सूर्यस्य तस्यालोको विराजते

॥१२॥

अतस्त्वं मन एवेदं नरं विद्धि न देहकम् ।

जडो देहो मनश्चात्र न जडं नाजडं विदुः

॥१३॥

यत्कृतं मनसा तात तत्कृतं विद्धि राघव ।

यत्त्यक्तं मनसा तावत्तत्त्यक्तं विद्धि चानघ

॥१४॥

मनोमात्रं जगत्कृत्स्नं मनः पर्यन्तमण्डलम् ।

मनो व्योम मनो भूमिर्मनो वायुर्मनो महान्

॥१५॥

मनो यदि पदार्थे तु तद्भावेन न योजयेत् ।

ततः सूर्योदयेऽप्येते न प्रकाशाः कदाचन

॥१६॥

मनो मोहमुपादत्ते यस्यासौ मूढ उच्यते ।

शरीरे मोहमापन्ने न शवो मूढ उच्यते

॥१७॥

मनः पश्य भवत्यक्षि श्रृण्वच्छ्रवणतां गतम् ।

त्वग्भावं स्पर्शनादेति घ्राणतामेति जिघ्रणात्

॥१८॥

रसनाद्रसतामेति विचित्रास्तत्र वृत्तिषु ।

नाटके नूटवद्देहे मन एवानुवर्तते

॥१९॥

लघु दीर्घं करोत्येव सत्येऽसत्तां प्रयच्छति ।

कटुतां नयति स्वादु रिपुं नयति मित्रताम्

॥२०॥

य एव प्रतिभासोऽस्य चेतसो वृत्तिवर्तिनः ।

ततस्तदेव प्रत्यक्षं तथात्रानुभवादिह

॥२१॥

प्रतिभासवशादेव स्वप्नाकुलितचेतसः ।

हरिश्चन्द्रस्य संपन्ना रात्रिर्द्वादशवार्षिकी

॥२२॥

चित्तानुभाववशतो मुहूर्तत्वे गतं युगम् ।

इन्द्रद्युम्नस्य वैरिञ्च्यपुराभ्यन्तरवर्तिनः

॥२३॥

मनोज्ञया मनोवृत्त्या सुखतां याति रौरवम् ।

प्रातःप्राप्तव्यराज्यस्य सुबद्धस्येव बन्धनम्

॥२४॥

जिते मनसि सर्वैव विजिता चेन्द्रियावलिः ।

शीर्यते च यथा तन्तौ दग्धे मौक्तिकमालिका

॥२५॥

सर्वत्र स्थितया स्वच्छरूपया निर्विकारया ।

समया सूक्ष्मया नित्यं चिच्छक्त्या साक्षिभूतया

॥२६॥

सर्वभावानुगतया न चेत्यार्थविभिन्नया ।

रामात्मसत्तया मूकमपि देहसमं जडम्

॥२७॥

मनोऽन्तश्चलति व्यर्थं मननैषणमुह्यया ।

बहिर्गिरिसरिद्व्योमसमुद्रपुरलीलया

॥२८॥

जाग्रच्चाभिमतं वस्तु नयत्यमृतमृष्टताम् ।

अनीहितं च विषतां नयत्यमृतमप्यलम्

॥२९॥

अमृष्टसर्वभावानामलमात्मचमत्कृतिम् ।

मनः स्वाभिमताकारं रूपं सृजति वस्तुषु

॥३०॥

स्पन्देषु वायुतामेति प्रकाशेषु प्रकाशताम् ।

द्रवेषु द्रवतामेति चिच्छक्तिस्फुरितं मनः

॥३१॥

पृथ्व्यां कठिनतामेति शून्यतां शून्यदृष्टिषु ।

सर्वत्रेच्छास्थितिं याति चिच्छक्तिस्फुरितं मनः

॥३२॥

शुक्लं कृष्णीकरोत्येव कृष्णं नयति शुक्लताम् ।

विनैव देशकालाभ्यां शक्तिं पश्यास्य चेतसः

॥३३॥

मनस्यन्यत्र संसक्ते चर्वितस्यापि जिह्वया ।

भोजनस्यापि मृष्टस्य न स्वादोऽस्यानुभूयते

॥३४॥

यच्चित्तदृष्टं तद्दृष्टं न दृष्टं तदलोकितम् ।

अन्धकारे यथा रूपमिन्द्रियं निर्मितं तथा

॥३५॥

इन्द्रियेण मनो देहि मनसेन्द्रियमुन्मनः ।

इन्द्रियाणि प्रसूतानि मनसो नेन्द्रियान्मनः

॥३६॥

अत्यन्तभिन्नयोरैक्यं येषां चित्तशरीरयोः ।

ज्ञातज्ञेया महात्मानो मनस्यास्ते सुपण्डिताः

॥३७॥

कुसुमोल्लासिधम्मिल्ला हेलाचलितलोचना ।

काष्ठकुड्योपमाङ्गेषु लग्नाप्यमनसोऽङ्गना

॥३८॥

मनस्यन्यत्र संसक्ते वीतरागेण कानने ।

क्रव्यादचर्वितोऽङ्कस्थः स्वकरोऽपि न लक्षितः

॥३९॥

सुखीकर्तुं सुदुःखानि दुःखीकर्तुं सुखानि च ।

सुखेनैवाशु युज्यन्ते मनसोऽतिशया मुनेः

॥४०॥

मनस्यन्यत्र संसक्ते कथ्यमानापि यत्नतः ।

लता परशुकृत्तेव कथा विच्छिद्यते बत

॥४१॥

मनस्यद्रितटारूढे गृहस्थेनापि जन्तुना ।

शुभ्राभ्रकन्दरभ्रान्तिदुःखं समनुभूयते

॥४२॥

मनस्युल्लसिते स्वप्ने हृद्येव पुरपर्वताः ।

आकाश इव विस्तीर्णे दृश्यन्ते निर्मिताः क्षमाः

॥४३॥

मनो विलुलिते स्वप्ने हृद्येवाद्रिपुरावलिम् ।

तनोति चलिताम्भोधिर्वीचीचयमिवात्मनि

॥४४॥

अन्तरब्धिजलाद्यद्वत्तरङ्गापीडवीचयः ।

देहान्तर्मनसस्तद्वत्स्वप्नाद्रिपुरराजयः

॥४५॥

अङ्कुरस्य यथा पत्रलतापुष्पफलश्रियः ।

मनसोऽस्य तथा जाग्रत्स्वप्नविभ्रमभूमयः

॥४६॥

व्यतिरिक्ता यथा हेम्नो न हेमवनिता तथा ।

जाग्रत्स्वप्नक्रियालक्ष्मीर्व्यतिरिक्ता न चेतसः

॥४७॥

धाराकणोर्मिफेनश्रीर्यथा संलक्ष्यतेऽम्भसः ।

तथा विचित्रविभवा नानातेयं हि चेतसः

॥४८॥

स्वचित्तवृत्तिरेवेह जाग्रत्स्वप्नदृशोदितम् ।

रसावेशादुपादत्ते शैलूष इव भूमिकाम्

॥४९॥

चण्डालत्वं हि लवणे प्रतिभासवशाद्यथा ।

तथेदं जगदाभोगि मनो मननमात्रकम्

॥५०॥

यद्यत्संवेद्यते किंचित्तेन तेनाशु भूयते ।

मनो मनननिर्माणं यथेच्छसि तथा कुरु

॥५१॥

नानापुरसरिच्छैलरूपतामेत्य देहिनाम् ।

तनोत्यन्तःस्थमेवेदं जाग्रत्स्वप्नमयं मनः

॥५२॥

सुरत्वाद्दैत्यतामेत्य नागत्वान्नगतामपि ।

प्रतिभासवशाच्चित्तमापन्नं लवणो यथा

॥५३॥

नरत्वादेति नारीत्वं पितृत्वात्पुत्रतां गतः ।

यथा क्षिप्रं प्रति नरः स्वसंकल्पात्तथा मनः

॥५४॥

संकल्पतः प्रम्रियते संकल्पाज्जायते पुनः ।

मनश्चिरन्तनाभ्यस्ताज्जीवतामेत्यनाकृति

॥५५॥

मनो मननसंमूढमूढवासनमाततम् ।

संकल्पाद्योनिमायाति सुखदुःखे भयाभये

॥५६॥

सुखं दुःखं च मनसि तिले तैलमिव स्थितम् ।

तद्देशकालवशतो घनं वा तनु वा भवेत्

॥५७॥

तैलं तिलस्य चाक्रान्त्या स्फुटतामेति शाश्वतीम् ।

चेतसो मननासंगाद्घनीभूते सुखासुखे

॥५८॥

देशकालाभिधानेन राम संकल्प एव हि ।

कथ्यते तद्वशाद्यस्माद्देशकालौ स्थितिं गतौ

॥५९॥

प्रशाम्यत्युल्लसत्येति याति नन्दति वल्गति ।

मनःशरीरसंकल्पे फलिते न शरीरकम्

॥६०॥

नानास्फारसमुल्लासैः स्वसंकल्पोपकल्पितैः ।

मनो वल्गति देहेऽस्मिन्साध्वीवान्तःपुराजिरे

॥६१॥

चापले प्रसरस्तस्मादन्तर्येन नदीयते ।

मनोविलयमादत्ते तस्यालान इव द्विपः

॥६२॥

न स्पन्दते मनो यस्य शस्त्रस्तम्भ इवोत्तमः ।

सद्वस्तुतोऽसौ पुरुषः शिष्टाः कर्दमकीटकाः

॥६३॥

यस्याचपलतां यातं मन एकत्र संस्थितम् ।

अनुत्तमपदेनासौ ध्यानेनानुगतोऽनघ

॥६४॥

संयमान्मनसः शान्तिमेति संसारविभ्रमः ।

मन्दरेऽस्पन्दतां याते यथा क्षीरमहार्णवः

॥६५॥

मानस्यो वृत्तयो या या भोगसंकल्पविभ्रभैः ।

संसारविषवृक्षस्य ता एवाङ्कुरयोनयः

॥६६॥

चित्तं चलत्कुवलयं वलयन्त एते

मूढा महाजडजवे मदमोहमन्दाः ।

आवर्तवर्तिनि विलूनविशीर्णचिन्ता-

चक्रभ्रमे पुरुषदुर्भ्रमराः पतन्ति

॥६७॥

इत्यार्षे श्रीवासिष्ठमहारामायणे मोक्षोपायेषूत्पत्तिप्रकरणे चित्तचिकित्सापूर्वकं चित्तवर्णनं नाम दशोत्तरशततमः सर्गः ।। ११० ।।