मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — उत्पत्तिप्रकरणम् — सर्गः ८१

3
योगवासिष्ठम् · उत्पत्तिप्रकरणम् · 81

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

राक्षस्युवाच ।

अहो नु परमार्थोक्तिः पावनी तव मन्त्रिणः ।

राजा राजीवपत्राक्ष इदानीमेव भाषताम्

॥१॥

राजोवाच ।

जागतप्रत्ययाभावो यस्याहुः प्रत्ययं परम् ।

सर्वसंकल्पसंन्यासश्चेतसा यत्परिग्रहः

॥२॥

यत्संकोचविकासाभ्यां जगत्प्रलयसृष्टयः ।

निष्ठा वेदान्तवाक्यानामथ वाचामगोचरः

॥३॥

कोटिद्वयान्तरालस्थं मध्ये कोटिद्वयीमयम् ।

यस्य चित्तमयी लीला जगदेतच्चराचरम्

॥४॥

यस्य विश्वात्मकत्वेऽपि खण्ड्यते नैकपिण्डता ।

सन्मात्रं तत्त्वया भद्रे कथ्यते ब्रह्म शाश्वतम्

॥५॥

एषोऽणुर्वेदनाद्वायुः स्वभ्रान्तिर्दृगदृश्यत ।

अतो न किंचिद्वाय्वादि केवलं शुद्धचेतनम्

॥६॥

शब्दसंवेदनाच्छब्दः शब्दस्य भ्रान्तिदर्शनम् ।

ततोऽत्र शब्दशब्दार्थदृष्टेर्दूरतरं गतः

॥७॥

सोऽणुः सर्वं न किंचिच्च सोऽहं नाहं स एव च ।

सर्वशक्यात्मनोऽस्यैव प्रतिभैकात्र कारणम्

॥८॥

आत्मा यत्नशतप्राप्यो लब्धेऽस्मिन्न च किंचन ।

लब्धं भवति तच्चैतत्परमं वा न किंचन

॥९॥

तावज्जन्म वसन्तेषु संसृतिव्रततिश्चिरम् ।

विकसत्युदितो यावन्न बोधो मूलकाषकृत्

॥१०॥

अणुनानेन रूपत्वं दृश्यतामिव गच्छता ।

तापेनाम्बुधियेवेदं स्वस्थेनैवापहारितम्

॥११॥

अनेन संविदणुना मेरुस्त्रिभुवनं तृणम् ।

वमित्वा बहिरन्तस्थं मायात्मकमवेक्ष्यते

॥१२॥

चिदणोरन्तरे यद्यदस्ति तद्दृश्यते बहिः ।

संकल्पेष्टालिङ्गनादिदृष्टान्तोऽत्र हि रागिणः

॥१३॥

आदिसर्गे सर्वशक्तिश्चिद्यथैवोदितात्मना ।

तथाशु पश्यत्यखिलं संकल्पे पर्वतः स्वतः

॥१४॥

अभिजातस्य यस्यान्तर्यद्यथा प्रतिभासते ।

तत्तथा पश्यतीवासौ दृष्टान्तोऽत्र शिशोर्मनः

॥१५॥

परमाणुतयैवापि चिन्मात्रेणाणुनामुना ।

परिसूक्ष्मतमेनैव विष्वग्विश्वं प्रपूरितम्

॥१६॥

अणुरेव न मात्येष योजनानां शतेष्वपि ।

सर्वगत्वादनादित्वादरूपत्वादनाकृतिः

॥१७॥

यथा धूर्तेन खिङ्गेन पुंसा बालः प्रतार्यते ।

सुभ्रूविकारनयननिरीक्षणविचेष्टितैः

॥१८॥

चिदालोकेन शुद्धेन सपर्वततृणं जगत् ।

नाट्यतेऽविरतं तद्वद्विवृत्त्याभिनयं सदा

॥१९॥

तेनैवानन्तरूपत्वादणुना वाससा यथा ।

संविदा तद्भवद्बाह्ये कृत्वा मेर्वादिवेष्टितम्

॥२०॥

दिक्कालाद्यनवच्छिन्नरूपत्वान्मेरुतो बृहत् ।

वालाग्रशतभागात्माप्येष सूक्ष्मः परोऽणुकः

॥२१॥

शुद्धसंवेदनाकाशरूपस्य परमाणुना ।

शोभते नहि साम्योक्तिर्मेरुसर्षपयोरिव

॥२२॥

मायाकलापिनाणुत्वं निर्माय परमात्मनि ।

हेम्नीव कटकत्वेन नानात्र समता भवेत्

॥२३॥

प्रकटोऽनेन दीपेन प्रकाशोऽनुभवात्मना ।

स्वसत्तानाशपूर्वो हि विनानेन भवेत्ततः

॥२४॥

यदि सूर्यादिकं सर्वं जगदेकं जडं भवेत् ।

ततः किमात्मकं रूपं प्रकाशः स्यात्क्व वाथ किम्

॥२५॥

शुद्धसन्मात्रचित्त्वं यत्स्वतः स्वात्मनि संस्थितम् ।

तदेतदणुना तेजो दृष्टं बहिरवस्थितम्

॥२६॥

तेजांस्यर्केन्दुवह्नीनां न भिन्नानि तमोघनात् ।

एतावानेव भेदोऽस्ति यद्वर्णे शौक्ल्यकृष्णते

॥२७॥

यादृक्कज्जलनीहारे मेघनीहारयोर्भवेत् ।

तादृक्प्रकाशतमसोर्भेदो नेति तयोः स्थितिः

॥२८॥

जडयोरुपलम्भाय चिदादित्यः किलैतयोः ।

यदा तपति तेनैते लब्धसत्तैकतां गते

॥२९॥

तपत्येकश्चिदादित्यो रात्रिंदिवमतन्द्रितः ।

अन्तर्बहिः शिलाद्यन्तरप्यनस्तमयोदयः

॥३०॥

त्रिलोकी भाति तेनेयं जीवस्य प्रथितात्मनः ।

नानोपलम्भभाण्डाढ्या कुटी कठिनकोटरा

॥३१॥

तमस्त्वं तमसो देहमविनाशयतामुना ।

तप्यतेऽभासया भासा सर्वमाभास्यते तमः

॥३२॥

पद्मोत्पले यथार्केण तपता प्रकटीकृते ।

प्रकाशतमसोः सत्ते चितैवं प्रकटीकृते

॥३३॥

अर्कः कुर्वन्नहोरात्रे दर्शयत्याकृतिं यथा ।

चितिः सदसती कृत्वा दर्शयत्याकृतिं तथा

॥३४॥

चिदणोरन्तरे सन्ति समग्रानुभवाणवः ।

यथा मधुरसस्यान्तः पुष्पपत्रफलश्रियः

॥३५॥

उद्यन्ति चिदणोरेते समग्रानुभवाणवः ।

मधुमासरसाच्चित्रा इव खण्डपरम्पराः

॥३६॥

परमात्माणुरत्यन्तनिःस्वादुः सूक्ष्मतावशात् ।

समग्रस्वादुसत्तैकजनकः स्वदते स्वयम्

॥३७॥

यो यो नाम रसः कश्चित्समस्तोऽप्यप्स्यवस्थितः ।

प्रतिबिम्बमिवादर्शे तं विना नास्त्यसौ स्वतः

॥३८॥

त्यजता संस्थितं सर्वं चिन्मात्रपरमाणुना ।

त्यक्तं जगदसंवित्त्या संवित्त्या सर्वमाश्रितम्

॥३९॥

अशक्तया स्वात्मगुप्तौ सर्वमाच्छादितं जगत् ।

चित्ताणुतामेव परां संप्रसार्य वितानवत्

॥४०॥

आत्मगुप्तौ न शक्नोति परमात्माम्बराकृतिः ।

मनागपि क्षणमपि गजो दूर्वावने यथा

॥४१॥

तथाप्याक्रान्तवान्विश्व ज्ञातो गोपायति क्षणात् ।

जगद्धानाकणं बाल इवाहो घनमायिता

॥४२॥

चिन्मात्रानुनयेनेदं जगत्सन्नपि जीवति ।

वसन्तरसबोधेन विचित्रेव वनावली

॥४३॥

चित्तसत्तैवमखिलं स्वतो जगदिवोदितम् ।

मधुमासरसोल्लासाच्चित्रो हि वनखण्डकः

॥४४॥

सत्यं चिन्मयमेवेदं जगदित्येव विद्ध्यलम् ।

वसन्तरसमेव त्वं विद्धि पल्लवगुल्मकम्

॥४५॥

सर्वावयविसारत्वात्सहस्रकरलोचनः ।

परमाणुरसावेव नित्यानवयवोदयः

॥४६॥

निमेषांशावबोधो हि चिदणोः प्रतिभासते ।

यतः कल्पसहस्रौघः स्वप्ने वार्धकबाल्यवत्

॥४७॥

ततः सोऽपि निमेषोणुः कल्पकोटिशतान्यलम् ।

सर्वसत्ताविलासेन प्रतिभैका विजृम्भते

॥४८॥

अभुक्तवत्येव यथा भुक्तवानहमित्यलम्।

जायते प्रत्ययस्तद्वन्निमेषे कल्पनिश्चयः

॥४९॥

अभुक्त्वा भुक्तवानस्मीत्येवं प्रत्ययशालिनः ।

दृश्यन्ते वासनाविष्टाः स्वप्ने स्वमरणं यथा

॥५०॥

जगन्ति परितिष्ठन्ति परमाणौ चिदात्मनि ।

प्रतिभासाः प्रवर्तन्ते तत एव हि जागताः

॥५१॥

यदस्ति यत्र तत्तस्मात्समुदेति तदेव तत् ।

आकारिणि विकारादि दृष्टं न गगनेऽमले

॥५२॥

चिति भूतानि भूतानि वर्तमानानि संप्रति ।

भविष्यन्ति च भूतानि सन्ति बीजे द्रुमा इव

॥५३॥

निमेषकल्पावेतेन तुषेणान्नकणाविव ।

वलिता वेषचेत्याभ्यामणुः स्वात्माङ्गकं श्रितः

॥५४॥

उदासीनवदासीनो न संस्पृष्टो मनागपि ।

एष भोक्तृत्वकर्तृत्वैः स्वात्मा सर्वजगत्यपि

॥५५॥

जगत्सत्तोदिते यं हि शुद्धचित्परमाणुतः ।

परमाणोश्च भोक्तृत्वकर्तृत्वे केवलं स्थिते

॥५६॥

जगन्न किंचित्क्रियते सर्वदैव न केनचित् ।

विलीयते च नो किंचिन्मानुष्याद्दृश्यखण्डनम्

॥५७॥

सर्वं समसमाभासमिदमाकाशकोशकम् ।

जगत्तयोपशब्दं च विद्ध्यनाद्यं निशाचरि

॥५८॥

चिदणुर्दृश्यसिद्ध्यर्थमान्तरीं चिच्चमत्कृतिम् ।

बहीरूपतया धत्ते स्वात्मनि परिसंस्थिताम्

॥५९॥

एतद्बहिष्ठमन्तस्थमस्ति शब्दे न वस्तुनि ।

उपदेशाय सत्त्वानां चिद्रूपत्वाज्जगत्त्रये

॥६०॥

द्रष्टाऽदृष्टपदं गच्छन्नात्मानं संप्रपश्यति ।

नेत्रदृश्याभिपातीव सदेवासदिव स्थितम्

॥६१॥

न च गच्छति दृश्यत्वं द्रष्टा?ह्यसदवास्तवम् ।

आत्मन्येव न यत्किंचित्तत्तामेति कथं परः

॥६२॥

दृगेव लोचने सा च वासनान्तं निजं वपुः ।

बहीरूपतया दृश्यं कृत्वा द्रष्टृतयोदिता

॥६३॥

न विना द्रष्टतामस्ति दृश्यसत्ता कथंचन ।

पितृतेव विना पुत्रं द्वितेवैक्यपदं विना

॥६४॥

द्रष्टैव दृश्यतामेति न द्रष्टृत्वं विनास्ति तत् ।

विना पित्रेव तनयो विना भोक्त्रेव भोग्यता

॥६५॥

द्रष्टुर्दृश्यविनिर्माणे चित्त्वादस्त्वेव शक्तता ।

कनकस्यावदातस्य कटकादिकृताविव

॥६६॥

दृश्यस्य द्रष्ट्टृनिर्माणे जडत्वान्नास्ति शक्तता ।

कटकस्य तु हैमस्य यथा कनकनिर्मितौ

॥६७॥

चेतनादृश्यनिर्माणं चित्करोत्यसदेव सत् ।

अकारणं मोहहेतुं हेमेव कटकभ्रमम्

॥६८॥

कटकत्वावभासे हि यथा हेम्नो न हेमता ।

सत्येव प्रकचत्येवं द्रष्ट्टदृश्यस्थितौ वपुः

॥६९॥

द्रष्टा दृश्यतया तिष्ठन्द्रष्ट्टतामुपजीवति ।

सत्यां कटकसंवित्तौ हेम काञ्चनतामिव

॥७०॥

एकस्मिन्प्रतिभासे हि न स? द्रष्टृदृश्ययोः ।

पुंप्रत्ययप्रकचने क्व पशुप्रत्ययोदयः

॥७१॥

दृश्यं पश्यन्त्यमात्मानं न द्रष्टा संप्रपश्यति । ।

द्रष्टुर्हि दृश्यतापत्तौ सत्ताऽसत्तेव तिष्ठति

॥७२॥

बोधाद्गलितदृश्यस्य द्रष्टुः सत्तेव भासते । !।

अबुद्धे कटके स्वस्य हेम्नोऽकटकता यथा

॥७३॥

दृश्ये सत्यस्ति वै द्रष्टा दृश्यं द्रष्टरि भासते ।

द्वयेन च विना नैकं नैकमप्यस्ति चानयोः

॥७४॥

सर्वं यथावद्विज्ञाय शुद्धसंविन्मयात्मना ।

वाचामविषयं स्वच्छं किंचिदेवावशिष्यते

॥७५॥

आत्मानं दर्शनं दृश्यं दीपेनेवावभासितम् ।

कृतं च सर्वमेतेन चिन्मात्रपरमाणुना

॥७६॥

मातृमानप्रमेयाख्यं बुधो निगिरति त्रयम् ।

हेमेव कटकादित्वमसन्मयमुपस्थितम्

॥७७॥

यथा न जलभूम्यादेः पृथक्किंचिन्मनागपि ।

तथैतस्मात्स्वभावाणोर्न किंचित्पृथगस्ति हि

॥७८॥

सर्वगानुभवात्मत्वात्सर्वानुभवरूपतः ।

एकत्वानुभवन्याये रूढे सर्वैकतास्य हि

॥७९॥

अस्येच्छया पृथङ्नास्ति वीचितेव महाम्भसः ।

इच्छानुरूपसंपत्तेर्भावितार्थैकता किल

॥८०॥

दिक्कालाद्यनवच्छिन्नः परमात्मास्ति केवलः ।

सर्वात्मत्वात्स सर्वात्मा सर्वानुभवत. स्वतः

॥८१॥

सन्नेष चेतनात्मत्वाद्दर्शनानवबोधतः ।

द्वैतैक्ये नात्र विद्येते सर्वरूपे महात्मनि

॥८२॥

यदि कश्चिद्द्वितीयः स्यात्तदैकस्यैकता भवेत् ।

द्वैतैक्ययोर्मिथः सिद्धिरातपच्छाययोरिव

॥८३॥

यत्र नास्ति द्वितीयो हि तत्रैकस्यैकता कथम् ।

एकतायामसिद्धायां द्वयमेव न विद्यते

॥८४॥

एवं स्थिते तु यस्तिष्ठंस्तत्तादृक्तदिवास्ति हि ।

तस्मान्न व्यतिरिक्तं तद्रूपं द्रव इवाम्भसः

॥८॥

नानारम्भविभासं च साम्येनाक्षुब्धरूपिणः ।

बीजस्यान्तस्तरुरिव ब्रह्मणोऽन्तः स्थितं जगत्

॥८६॥

द्वैतमप्यपृथक्तस्माद्धेम्नः कटकता यथा ।

सम्यग्बुद्धावबोधो हि द्वैतं तच्च न सन्मयम्

॥८७॥

यथा द्रवत्वं पयसः स्पन्दनं मातरिश्वनः ।

व्योम्नः शून्यत्वमेवं हि न पृथग्द्वैतमीश्वरात्

॥८८॥

द्वैताद्वैतोपलम्भो हि दुःखायैव क्रियात्मने ।

निपुणोऽनुपलम्भो यस्त्वेतयोस्तत्परं विदुः

॥८९॥

मातृमानप्रमेयादिद्रष्टृदर्शनदृश्यता ।

एतावज्जगदेतच्च परमाणौ चिति स्थितम्

॥९०॥

अयं जगदणुर्नित्यमेतेनाणुसुमेरुणा ।

स्पन्दनं पवनेनेव स्वाङ्ग एव कृताकृतः

॥९१॥

अहो नु भीमा मायेयमथवा मायिनां परा ।

परमाण्वन्तरेवास्ति यत्त्रैलोक्यपरम्परा

॥९२॥

अथासंभवमायित्वमेवैतत्सर्वदा स्थितम् ।

चिन्मात्रपरमाणुत्वमात्रमेव जगत्स्थितिः

॥९३॥

अन्तर्गतजगज्जालोऽप्येषोऽणुः साम्यमत्यजन् ।

स्थितोऽन्तस्थबृहद्वृक्षं बीजं भाण्डोदरे यथा

॥९४॥

बीजेऽन्तर्वृक्षविस्तारः स्थितः सफलपल्लवः ।

परया दृश्यते दृष्ट्या जगच्च चिदणूदरे

॥९५॥

स शाखाफलपुष्पं स्वमजहद्बीजकोटरे ।

यथा तरुः स्थितस्तद्वद्विकासि चिदणोर्जगत्

॥९६॥

संस्थितं द्वैतमद्वैतं बीजकोश इव द्रुमः ।

जगच्चित्परमाण्वन्तर्यः पश्यति स पश्यति

॥९७॥

न द्वैतं नैव चाद्वैतं न च बीजं न चाङ्कुरः ।

न स्थूलं न च वा सूक्ष्मं नाजातं जातमेव च

॥९८॥

न चास्ति न च नास्तीदं न सौम्यं क्षुभितं न च ।

त्रिजगच्चिदणोरन्तः खवाय्वपि न किंचन

॥९९॥

न जगन्नाजगच्चास्ति विद्यते चित्परा शुभा ।

सर्वात्मिका यदा यत्र सा यथोदेति तत्तथा

॥१००॥

उदेत्यनुदितोऽप्येष स्वयंवेदनजृम्भितः ।

परमात्माणुरेकात्मा समग्रात्मतयैव खे

॥१०१॥

द्रुमो भूमौ स्वबीजत्वमिवोदेत्यनुदेत्यपि ।

परं तत्त्वं जगद्भक्त्या जगत्तां स्वोदयेन च

॥१०२॥

द्रुमो बीजतयैवाशु न संत्यक्तसमस्थितिः ।

तिष्ठत्यपगतस्पन्दस्त्यागात्यागपरोऽणुकः

॥१०३॥

बिसतन्तुर्महामेरुः परमाणोरपेक्षया ।

दृश्यं किल विशेत्तन्तुरदृश्याक्ष्णा पराणुता

॥१०४॥

बिसतन्तुर्महामेरुः परमाणोः किलात्मनः ।

तस्यैव तद्घनाः स्वान्तः स्थिता मेर्वादिकोटयः

॥१०५॥

एकेन तेन महता परमाणुना च व्याप्तं ततं विरचितं जनितं कृतं च ।

दृश्यं प्रपञ्चरचितं नभसेव विश्वं शून्यत्वमच्छमभितः परिलब्धमेव

॥१०६॥

द्वैतेन सुन्दरतरं स्वमनुज्झितेन रूपं सुषुप्तसदृशेन यथावबोधात् ।

ऐक्यं गतं स्थितिगमागममुक्तमेवमित्थं स्थितं तनु जगत्परमार्थपिण्डः

॥१०७॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे कर्क० परमार्थापिण्डीकरणं नामैकाशीतितमः सर्गः ।। ८१ ।।