मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — विद्येश्वरसंहिता, अध्याय ११

3
विद्येश्वरसंहिता · 11

कथं लिंगं प्रतिष्ठाप्यं कथं वातस्य लक्षणम्

ऋषय ऊचुः

कथं लिंगं प्रतिष्ठाप्यं कथं वातस्य लक्षणम् ।

कथं वा तत्समभ्यर्च्यं देशे काले च केन हि १ ।

सूत उवाच ।

युष्मदर्थं प्रवक्ष्यामि बुद्ध्यतामवधानतः ।

अनुकूले शुभे काले पुण्ये तीर्थे तटे तथा २।

यथेष्टं लिंगमारोप्यं यत्र स्यान्नित्यमर्चनम् ।

पार्थिवेन तथाप्येनं तैजसेन यथारुचि ३ ।

कल्पलक्षणसंयुक्तं लिंगं पूजाफलं लभेत् ।

सर्वलक्षणसंयुक्तं सद्यः पूजाफलप्रदम् ४ ।

चरे विशिष्यते सूक्ष्मं स्थावरे स्थूलमेव हि ।

सलक्षणं सपीठं च स्थापयेच्छिवनिर्मितम् ५ ।

मंडलं चतुरस्रं वा त्रिकोणमथवा तथा ।

खट्वांगवन्मध्यसूक्ष्मं लिंगपीठं महाफलं ६ ।

प्रथमं मृच्छिलादिभ्यो लिगं लोहादिभिः कृतम् ।

येन लिंगं तेन पीठं स्थावरे हि विशिष्यते ७ ।

लिंगं पीठं चरे त्वेकं लिंगं बाणकृतं विना ।

लिंगप्रमाणं कर्तृ-णां द्वादशांगुलमुत्तमम् ८ ।

न्यूनं चेत्फलमल्पं स्यादधिकं नैव दूष्यते ।

कर्तुरेकांगुलन्यूनं चरेपि च तथैव हि ९ ।

आदौ विमानं शिल्पेन कार्यं देवगणैर्युतम् ।

तत्र गर्भगृहे रम्ये दृढे दर्पणसंनिभे 1.11.१० ।

भूषिते नवरत्नैश्च दिग्द्वारे च प्रधानकैः ।

नीलं रक्तं च वै दूर्यं श्यामं मारकतं तथा ११ ।

मुक्ताप्रवालगोमेदवज्राणि नवरत्नकम् १२ब्।

मध्ये लिंगं महद्द्रव्यं निक्षिपेत्सहवैदिके १२ ।

संपूज्य लिंगं सद्याद्यैः पंचस्थाने यथाक्रमम् ।

अग्नौ च हुत्वा बहुधा हविषास कलं च माम् १३ ।

अभ्यर्च्य गुरुमाचार्यमर्थैः कामैश्च बांधवम् ।

दद्यादैश्वर्यमर्थिभ्यो जडमप्यजडं तथा १४ ।

स्थावरं जंगमं जीवं सर्वं संतोष्य यत्नतः ।

सुवर्णपूरिते श्वभ्रे नवरत्नैश्च पूरिते १५ ।

सद्यादि ब्रह्म चोच्चार्य ध्यात्वा देवं परं शुभम् ।

उदीर्य च महामंत्रमॐकारं नादघोषितम् १६ ।

लिंगं तत्र प्रतिष्ठाप्य लिगं पीठेन योजयेत् ।

लिंगं सपीठं निक्षिप्य नित्यलेपेन बंधयेत् १७ ।

एवं बेरं च संस्थाप्यं तत्रैव परमं शुभम् ।

पंचाक्षरेण बेरं तु उत्सवार्थं वहिस्तथा १८ ।

बेरं गुरुभ्यो गृह्णीयात्साधुभिः पूजितं तु वा ।

एवं लिंगे च बेरे च पूजा शिवपदप्रदा १९ ।

पुनश्च द्विविधं प्रोक्तं स्थावरं जंगमं तथा ।

स्थावरं लिंगमित्याहुस्तरुगुल्मादिकं तथा 1.11.२० ।

जंगमं लिंगमित्याहुः कृमिकीटादिकं तथा ।

स्थावरस्य च शुश्रूषा जंगमस्य च तर्पणम् २१ ।

तत्तत्सुखानुरागेण शिवपूजां विदुर्बुधाः ।

पीठमंबामयं सर्वं शिवलिंगं च चिन्मयम् २२ ।

यथा देवीमुमामंके धृत्वा तिष्ठति शंकरः ।

तथा लिंगमिदं पीठं धृत्वा तिष्ठति संततम् २३ ।

एवं स्थाप्य महालिंगं पूजयेदुपचारकैः ।

नित्यपूजा यथा शक्तिध्वजादिकरणं तथा २४ ।

इति संस्थापयेल्लिंगं साक्षाच्छिवपदप्रदम् ।

अथवा चरलिंगं तु षोडशैरुपचारकैः २५ ।

पूजयेच्च यथान्यायं क्रमाच्छिवपदप्रदम् ।

आवाहनं चासनं च अर्घ्यं पाद्यं तथैव च २६ ।

तदंगाचमनं चैव स्नानमभ्यंगपूर्वकम् ।

वस्त्रं गंधं तथा पुष्पं धूपं दीपं निवेदनम् २७ ।

नीराजनं च तांबूलं नमस्कारो विसर्जनम् ।

अथवाऽर्घ्यादिकं कृत्वा नैवेद्यां तं यथाविधि २८ ।

अथाभिषेकं नैवेद्यं नमस्कारं च तर्पणम् ।

यथाशक्ति सदाकुर्यात्क्रमाच्छिवपदप्रदम् २९ ।

अथवा मानुषे लिंगेप्यार्षे दैवे स्वयंभुवि ।

स्थापितेऽपूर्वके लिंगे सोपचारं यथा तथा 1.11.३० ।

पूजोपकरणे दत्ते यत्किंचित्फलमश्नुते ।

प्रदक्षिणानमस्कारैः क्रमाच्छिवपदप्रदम् ३१ ।

लिंगं दर्शनमात्रं वा नियमेन शिवप्रदम् ।

मृत्पिष्टगोशकृत्पुष्पैः करवीरेण वा फलैः ३२ ।

गुडेन नवनीतेन भस्मनान्नैर्यथारुचि ।

लिंगं यत्नेन कृत्वांते यजेत्तदनुसारतः ३३ ।

अंगुष्ठादावपि तथा पूजामिच्छंति केचन ।

लिंगकर्मणि सर्वत्र निषेधोस्ति न कर्हिचित् ३४ ।

सर्वत्र फलदाता हि प्रयासानुगुणं शिवः ।

अथवा लिंगदानं वा लिंगमौल्यमथापि वा ३५ ।

श्रद्धया शिवभक्ताय दत्तं शिवपदप्रदम् ।

अथवा प्रणवं नित्यं जपेद्दशसहस्रकम् ३६ ।

संध्ययोश्च सहस्रं वा ज्ञेयं शिवपदप्रदम् ।

जपकाले मकारांतं मनःशुद्धिकरं भजेत् ३७ ।

समाधौ मानसं प्रोक्तमुपांशु सार्वकालिकम् ।

समानप्रणवं चेमं बिंदुनादयुतं विदुः ३८ ।

अथ पंचाक्षरं नित्यं जपेदयुतमादरात् ।

संध्ययोश्च सहस्रं वा ज्ञेयं शिवपदप्रदम् ३९ ।

प्रणवेनादिसंयुक्तं ब्राह्मणानां विशिष्यते ।

दीक्षायुक्तं गुरोर्ग्राह्यं मंत्रं ह्यथ फलाप्तये 1.11.४० ।

कुंभस्नानं मंत्रदीक्षां मातृकान्यासमेव च ।

ब्राह्मणः सत्यपूतात्मा गुरुर्ज्ञानी विशिष्यते ४१ ।

द्विजानां च नमःपूर्वमन्येषां च नमोन्तकम् ४२ब्।

स्त्रीणां च क्वचिदिच्छंति नमो तं च यथाविधि ४२ ।

विप्रस्त्रीणां नमः पूर्वमिदमिच्छंति केचन ।

पंचकोटिजपं कृत्वा सदा शिवसमो भवेत् ४३ ।

एकद्वित्रिचतुःकोट्याब्रह्मादीनां पदं व्रजेत् ।

जपेदक्षरलक्षंवा अक्षराणां पृथक्पृथक् ४४ ।

अथवाक्षरलक्षं वा ज्ञेयं शिवपदप्रदम् ।

सहस्रं तु सहस्राणां सहस्रेण दिनेन हि ४५ ।

जपेन्मंत्रादिष्टसिद्धिर्नित्यं ब्राह्मणभोजनात् ।

अष्टोत्तरसहस्रं वै गायत्रीं प्रातरेव हि ४६ ।

ब्राह्मणस्तु जपेन्नित्यं क्रमाच्छिवपदप्रदान् ।

वेदमंत्रांस्तु सूक्तानि जपेन्नियममास्थितः ४७ ।

एकं दशार्णं मंत्रं च शतोनं च तदूर्ध्वकम् ।

अयुतं च सहस्रं च शतमेकं विना भवेत् ४८ ।

वेदपारायणं चैव ज्ञेयं शिवपदप्रदम् ।

अन्यान्बहुतरान्मंत्राञ्जपेदक्षरलक्षतः ४९ ।

एकाक्षरांस्तथा मंत्राञ्जपेदक्षरकोटितः ।

ततः परं जपेच्चैव सहस्रं भक्तिपूर्वकम् 1.11.५० ।

एवं कुर्याद्यथाशक्ति क्रमाच्छिव पदं लभेत् ।

नित्यं रुचिकरं त्वेकं मंत्रमामरणांतिकम् ५१ ।

जपेत्सहस्रमोमिति सर्वाभीष्टं शिवाज्ञया ।

पुष्पारामादिकं वापि तथा संमार्जनादिकम् ५२ ।

शिवाय शिवकार्याथे कृत्वा शिवपदं लभेत् ।

शिवक्षेत्रे तथा वासं नित्यं कुर्याच्च भक्तितः ५३ ।

जडानामजडानां च सर्वेषां भुक्तिमुक्तिदम् ।

तस्माद्वासं शिवक्षेत्रे कुर्यदामरणं बुधः ५४ ।

लिंगाद्धस्तशतं पुण्यं क्षेत्रे मानुषके विदुः ।

सहस्रारत्निमात्रं तु पुण्यक्षेत्रे तथार्षके ५५ ।

दैवलिंगे तथा ज्ञेयं सहस्रारत्निमानतः ।

धनुष्प्रमाणसाहस्रं पुण्यं क्षेत्रे स्वयं भुवि ५६ ।

पुण्यक्षेत्रे स्थिता वापी कूपाद्यं पुष्कराणि च ।

शिवगंगेति विज्ञेयं शिवस्य वचनं यथा ५७ ।

तत्र स्नात्वा तथा दत्त्वा जपित्वा हि शिवं व्रजेत् ।

शिवक्षेत्रं समाश्रित्य वसेदामरणं तथा ५८ ।

दाहं दशाहं मास्यं वा सपिंडीकरणं तु वा ।

आब्दिकं वा शिवक्षेत्रे क्षेत्रे पिंडमथापि वा ५९ ।

सर्वपाप विनिर्मुक्तः सद्यः शिवपदं लभेत् ।

अथवा सप्तरात्रं वा वसेद्वा पंचरात्रकम् 1.11.६० ।

त्रिरात्रमेकरात्रं वा क्रमाच्छिवपदं लभेत् ।

स्ववर्णानुगुणं लोके स्वाचारात्प्राप्नुते नरः ६१ ।

वर्णोद्धारेण भक्त्या च तत्फलातिशयं नरः ।

सर्वं कृतं कामनया सद्यः फलमवाप्नुयात् ६२ ।

सर्वं कृतमकामेन साक्षाच्छिवपदप्रदम् ।

प्रातर्मध्याह्नसायाह्नमहस्त्रिष्वेकतः क्रमात् ६३ ।

प्रातर्विधिकरं ज्ञेयं मध्याह्नं कामिकं तथा ।

सायाह्नं शांतिकं ज्ञेयं रात्रावपि तथैव हि ६४ ।

कालो निशीथो वै प्रोक्तोमध्ययामद्वयं निशि ।

शिवपूजा विशेषेण तत्कालेऽभीष्टसिद्धिदा ६५ ।

एवं ज्ञात्वा नरः कुर्वन्यथोक्तफलभाग्भवेत् ।

कलौ युगे विशेषेण फलसिद्धिस्तु कर्मणा ६६ ।

उक्तेन केनचिद्वापि अधिकारविभेदतः ।

सद्वृत्तिः पापभीरुश्चेत्ततत्फलमवाप्नुयात् ६७ ।

ऋषय ऊचुः ।

अथ क्षेत्राणि पुण्यानि समासात्कथयस्व नः ।

सर्वाः स्त्रियश्च पुरुषा यान्याश्रित्य पदं लभेत् ६८ ।

सूत योगिवरश्रेष्ठ शिवक्षेत्रागमांस्तथा ।

सूत उवाच ।

शृणुत श्रद्धया सर्वक्षेत्राणि च तदागमान् ६९

॥१॥

इति श्रीशिवमहापुराणे विद्येश्वरसंहितायांएकदशोऽध्यायः ११ ॥ ।