मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — विद्येश्वरसंहिता, अध्याय १

3
विद्येश्वरसंहिता · 1

मुनिप्रश्नवर्णनः

श्रीशिवमहापुराणम् अथ श्रीशिवमहापुराणं विद्येश्वरसंहिता प्रारभ्यते श्रीगणेशाय नमः श्रीगुरुभ्यो नमः श्रिसरस्वत्यै नमः अथ शिवपुराणे प्रथमा विद्येश्वरसंहिता प्रारभ्यते आद्यन्तमंगलमजातसमानभावमार्यं तमीशमजरामरमात्मदेवम्।

पंचाननं प्रबलपंचविनोदशीलं संभावये मनसिशंकरमम्बिकेशम् १।

व्यास उवाच ।

धर्मक्षेत्रे महाक्षेत्रे गंगाकालिन्दिसंगमे ।

प्रयागे परमे पुण्ये ब्रह्मलोकस्य वर्त्मनि १ ।

मुनयः शंसितात्मानस्सत्यव्रतपरायणाः ।

महौजसो महाभागा महासत्रं वितेनिरे २ ।

तत्र सत्रं समाकर्ण्य व्यासशिष्यो महामुनिः ।

आजगाम मुनीन्द्र ष्टुं सूतः पौराणिकोत्तमः ३ ।

तं दृष्ट्वा सूतमायांतं हर्षिता मुनयस्तदा ।

चेतसा सुप्रसन्नेन पूजां चक्रुर्यथाविधि ४ ।

ततो विनयसंयुक्ता प्रोचुः सांजलयश्च ते ।

सुप्रसन्ना महात्मानः स्तुतिं कृत्वायथाविधि ५ ।

रोमहर्षण सर्वज्ञ भवान्वै भाग्यगौरवात् ।

पुराणविद्यामखिलां व्यासात्प्रत्यर्थमीयिवान् ६ ।

तस्मादाश्चर्य्यभूतानां कथानां त्वं हि भाजनम् ।

रत्नानामुरुसाराणां रत्नाकर इवार्णवः ७ ।

यच्च भूतं च भव्यं च यच्चान्यद्वस्तु वर्तते ।

न त्वयाऽविदितं किंचित्त्रिषु लोकेषु विद्यते ८ ।

त्वं मद्दिष्टवशादस्य दर्शनार्थमिहागतः ।

कुर्वन्किमपि नः श्रेयो न वृथा गंतुमर्हसि ९ ।

तत्त्वं श्रुतं स्म नः सर्वं पूर्वमेव शुभाशुभम् ।

न तृप्तिमधिगच्छामः श्रवणेच्छा मुहुर्मुहुः 1.1.१० ।

इदानीमेकमेवास्ति श्रोतव्यं सूत सन्मते ।

तद्र हस्यमपि ब्रूहि यदि तेऽनुग्रहो भवेत् ११ ।

प्राप्ते कलियुगे घोरे नराः पुण्यविवर्जिताः ।

दुराचाररताः सर्वे सत्यवार्तापराङ्मुखाः १२ ।

परापवादनिरताः परद्र व्याभिलाषिणः ।

परस्त्रीसक्तमनसः परहिंसापरायणाः १३ ।

देहात्मदृष्टया मूढा नास्तिकाः पशुबुद्धयः ।

मातृपितृकृतद्वेषाः स्त्रीदेवाः कामकिंकराः १४ ।

विप्रा लोभग्रहग्रस्ता वेदविक्रयजीविनः ।

धनार्जनार्थमभ्यस्तविद्या मदविमोहिताः १५ ।

त्यक्तस्वजातिकर्माणः प्रायशःपरवंचकाः ।

त्रिकालसंध्यया हीना ब्रह्मबोधविवर्जिताः १६ ।

अदयाः पंडितं मन्यास्स्वाचारव्रतलोपकाः ।

कृष्युद्यमरताः क्रूरस्वभावा मलिनाशयाः १७ ।

क्षत्रियाश्च तथा सर्वे स्वधर्मत्यागशीलिनः ।

असत्संगाः पापरता व्यभिचारपरायणाः १८ ।

अशूरा अरणप्रीताः पलायनपरायणाः ।

कुचौरवृत्तयः शूद्रा ः! कामकिंकरचेतसः १९ ।

शस्त्रास्त्रविद्यया हीना धेनुविप्रावनोज्झिताः ।

शरण्यावनहीनाश्च कामिन्यूतिमृगास्सदा 1.1.२०।

प्रजापालनसद्धर्मविहीना भोगतत्पराः ।

प्रजासंहारका दुष्टा जीवहिंसाकरा मुदा २१ ।

वैश्याः संस्कारहीनास्ते स्वधर्मत्यागशीलिनः ।

कुपथाः स्वार्जनरतास्तुलाकर्मकुवृत्तयः २२ ।

गुरुदेवद्विजातीनां भक्तिहीनाः कुबुद्धयः ।

अभोजितद्विजाः प्रायः कृपणा बद्धमुष्टयः २३ ।

कामिनीजारभावेषु सुरता मलिनाशयाः ।

लोभमोहविचेतस्काः पूर्तादिसुवृषोज्झिताः २४ ।

तद्वच्छूद्रा श्च ये केचिद्ब्राह्मणाचारतत्पराः ।

उज्ज्वलाकृतयो मूढाः स्वधर्मत्यागशीलिनः २५ ।

कर्तारस्तपसां भूयो द्विजतेजोपहारकाः ।

शिश्वल्पमृत्युकाराश्च मंत्रोच्चारपरायणाः २६ ।

शालिग्रामशिलादीनां पूजकाहोमतत्पराः ।

प्रतिकूलविचाराश्च कुटिला द्विजदूषकाः २७ ।

धनवंतः कुकर्म्माणो विद्यावन्तो विवादिनः ।

आख्यायोपासना धर्मवक्तारो धर्मलोपकाः २८ ।

सुभूपाकृतयो दंभाः सुदातारो महामदाः ।

विप्रादीन्सेवकान्मत्वा मन्यमाना निजं प्रभुम् २९ ।

स्वधर्मरहिता मूढाः संकराः क्रूरबुद्धयः ।

महाभिमानिनो नित्यं चतुर्वर्णविलोपकाः 1.1.३० ।

सुकुलीनान्निजान्मत्वा चतुर्वर्णैर्विवर्तनाः ।

सर्ववर्णभ्रष्टकरा मूढास्सत्कर्मकारिणः ३१ ।

स्त्रियश्च प्रायशो भ्रष्टा भर्त्रवज्ञानकारिकाः ।

श्वशुरद्रो हकारिण्यो निर्भया मलिनाशनाः ३२ ।

कुहावभावनिरताः कुशीलास्स्मरविह्वलाः ।

जारसंगरता नित्यं स्वस्वामिविमुखास्तथा ३३ ।

तनया मातृपित्रोश्च भक्तिहीना दुराशयाः ।

अविद्यापाठका नित्यं रोगग्रसितदेहकाः ३४ ।

एतेषां नष्टबुद्धीनां स्वधर्मत्यागशीलिनाम् ।

परलोकेपीह लोके कथं सूत गतिर्भवेत् ३५ ।

इति चिंताकुलं चित्तं जायते सततं हि नः ।

परोपकारसदृशो नास्ति धर्मो परः खलु ३६ ।

लघूपायेन येनैषां भवेत्सद्योघनाशनम् ।

सर्व्वसिद्धान्तवित्त्वं हि कृपया तद्वदाधुना ३७ ।

व्यास उवाच ।

इत्याकर्ण्य वचस्तेषां मुनीनां भावितात्मनाम् ।

मनसा शंकरं स्मृत्वा सूतः प्रोवाच तान्मुनीन् ३८

॥१॥

इति श्रीशैवेमहापुराणे विद्येश्वरसंहितायां मुनिप्रश्नवर्णनो नाम प्रथमोऽध्यायः १ ॥ ।