मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — विद्येश्वरसंहिता, अध्याय १६

3
विद्येश्वरसंहिता · 16

पार्थिवप्रतिमापूजाविधानं ब्रूहि सत्तम

ऋषय ऊचुः

पार्थिवप्रतिमापूजाविधानं ब्रूहि सत्तम ।

येन पूजाविधानेन सर्वाभिष्टमवाप्यते १ ।

सूत उवाच ।

सुसाधुपृष्टं युष्माभिः सदा सर्वार्थदायकम् ।

सद्यो दुःखस्य शमनं शृणुत प्रब्रवीमि वः २ ।

अपमृत्युहरं कालमृत्योश्चापि विनाशनम् ।

सद्यः कलत्रपुत्रादिधनधान्यप्रदं द्विजाः ३ ।

अन्नादिभोज्यं वस्त्रादिसर्वमुत्पद्यते यतः ।

ततो मृदादिप्रतिमापूजाभीष्टप्रदा भुवि ४ ।

पुरुषाणां च नारीणामधिकारोत्र निश्चितम् ।

नद्यां तडागे कूपे वा जलांतर्मृदमाहरेत् ५ ।

संशोध्य गंधचूर्णेन पेषयित्वा सुमंडपे ।

हस्तेन प्रतिमां कुर्यात्क्षीरेण च सुसंस्कृताम् ६ ।

अंगप्रत्यंगकोपेतामायुधैश्च समन्विताम् ।

पद्मासनस्थितां कृत्वा पूजयेदादरेण हि ७ ।

विघ्नेशादित्यविष्णूनामंबायाश्च शिवस्य च ।

शिवस्यशिवलिंगं च सर्वदा पूजयेद्द्विज ८ ।

षोडशैरुपचारैश्च कुर्यात्तत्फलसिद्धये ।

पुष्पेण प्रोक्षणं कुर्यादभिषेकं समंत्रकम् ९ ।

शाल्यन्नेनैव नैवेद्यं सर्वं कुडवमानतः ।

गृहे तु कुडवं ज्ञेयं मानुषे प्रस्थमिष्यते 1.16.१० ।

दैवे प्रस्थत्रयं योग्यं स्वयंभोः प्रस्थपंचकम् ।

एवं पूर्णफलं विद्यादधिकं वै द्वयं त्रयम् ११ ।

सहस्रपूजया सत्यं सत्यलोकं लभेद्द्विजः ।

द्वादशांगुलमायामं द्विगुणं च ततोऽधिकम् १२ ।

प्रमाणमंगुलस्यैकं तदूर्ध्वं पंचकत्रयम् ।

अयोदारुकृतं पात्रं शिवमित्युच्यते बुधैः १३ ।

तदष्टभागः प्रस्थः स्यात्तच्चतुःकुडवं मतम् ।

दशप्रस्थं शतप्रस्थं सहस्रप्रस्थमेव च १४ ।

जलतैलादिगंधानां यथायोग्यं च मानतः ।

मानुषार्षस्वयंभूनां महापूजेति कथ्यते १५ ।

अभिषेकादात्मशुद्धिर्गंधात्पुण्यमवाप्यते ।

आयुस्तृप्तिश्च नैवेद्याद्धूपादर्थमवाप्यते १६* तु. मण्डलब्राह्मणोपनिषत् २.२.५।

दीपाज्ज्ञानमवाप्नोति तांबूलाद्भोगमाप्नुयात् ।

तस्मात्स्नानादिकं षट्कं प्रयत्नेन प्रसाधयेत् १७ ।

नमस्कारो जपश्चैव सर्वाभीष्टप्रदावुभौ ।

पूजान्ते च सदाकार्यौ भोगमोक्षार्थिभिर्नरैः १८ ।

संपूज्य मनसा पूर्वं कुर्यात्तत्तत्सदा नरः ।

देवानां पूजया चैव तत्तल्लोकमवाप्नुयात् १९ ।

तदवांतरलोके च यथेष्टं भोग्यमाप्यते ।

तद्विशेषान्प्रवक्ष्यामि शृणुत श्रद्धया द्विजाः 1.16.२० ।

विघ्नेशपूजया सम्यग्भूर्लोकेऽभीष्टमाप्नुयात् ।

शुक्रवारे चतुर्थ्यां च सिते श्रावणभाद्र के २१ ।

भिषगृक्षे धनुर्मासे विघ्नेशं विधिवद्यजेत् ।

शतं पूजासहस्रं वा तत्संख्याकदिनैर्व्रजेत् २२ ।

देवाग्निश्रद्धया नित्यं पुत्रदं चेष्टदं नृणाम् ।

सर्वपापप्रशमनं तत्तद्दुरितनाशनम् २३ ।

वारपूजांशिवादीनामात्मशुद्धिप्रदां विदुः ।

तिथिनक्षत्रयोगानामाधारं सार्वकामिकम् २४ ।

तथा बृद्धिक्षयाभावात्पूर्णब्रह्मात्मकं विदुः ।

उदयादुदयं वारो ब्रह्मप्रभृति कर्मणाम् २५ ।

तिथ्यादौ देवपूजा हि पूर्णभोगप्रदा नृणाम् ।

पूर्वभागः पितृ-णां तु निशि युक्तः प्रशस्यते २६ ।

परभागस्तु देवानां दिवा युक्तः प्रशस्यते ।

उदयव्यापिनी ग्राह्या मध्याह्ने यदि सा तिथिः २७ ।

देवकार्ये तथा ग्राह्यास्थिति ऋक्षादिकाः शुभाः ।

सम्यग्विचार्य वारादीन्कुर्यात्पूजाजपादिकम् २८ ।

पूजार्यते ह्यनेनेति वेदेष्वर्थस्य योजना ।

पूर्णभोगफलसिद्धिश्च जायते तेन कर्मणा २९ ।

मनोभावांस्तथा ज्ञानमिष्टभोगार्थयोजनात् ।

पूजाशब्दर्थ एवं हि विश्रुतो लोकवेदयोः 1.16.३० ।

नित्यनैमित्तिकं कालात्सद्यः काम्ये स्वनुष्ठिते ।

नित्यं मासं च पक्षं च वर्षं चैव यथाक्रमम् ३१ ।

तत्तत्कर्मफलप्राप्तिस्तादृक्पापक्षयः क्रमात् ।

महागणपतेः पूजा चतुर्थ्यां कृष्णपक्षके ३२ ।

पक्षपापक्षयकरी पक्षभोगफलप्रदा ।

चैत्रे चतुर्थ्यां पूजा च कृता मासफलप्रदा ३३ ।

वर्षभोगप्रदा ज्ञेया कृता वै सिंहभाद्र के ।

श्रवण्यादित्यवारे च सप्तम्यां हस्तभे दिने ३४ ।

माघशुक्ले च सप्तम्यामादित्ययजनं चरेत् ।

ज्येष्ठभाद्र कसौम्ये च द्वादश्यां श्रवर्णक्षके ३५ ।

द्वादश्यां विष्णुयजनमिष्टंसंपत्करं विदुः ।

श्रावणे विष्णुयजनमिष्टारोग्यप्रदं भवेत् ३६ ।

गवादीन्द्वादशानर्थान्सांगान्दत्वा तु यत्फलम् ।

तत्फलं समवाप्नोति द्वादश्यां विष्णुतर्पणात् ३७ ।

द्वादश्यां द्वादशान्विप्रान्विष्णोर्द्वादशनामतः ।

षोडशैरुपचारैश्च यजेत्तत्प्रीतिमाप्नुयात् ३८ ।

एवं च सर्वदेवानां तत्तद्द्वादशनामकैः ।

द्वादशब्रह्मयजनं तत्तत्प्रीतिकरं भवेत् ३९ ।

कर्कटे सोमवारे च नवम्यां मृगशीर्षके ।

अंबां यजेद्भूतिकामः सर्वभोगफलप्रदाम् 1.16.४० ।

आश्वयुक्छुक्लनवमी सर्वाभीष्टफलप्रदा ।

आदिवारे चतुर्दश्यां कृष्णपक्षे विशेषतः ४१ ।

आर्द्रायां च महार्द्रायां शिवपूजा विशिष्यते ।

माघकृष्णचतुर्दश्यां सर्वाभीष्टफलप्रदा ४२ ।

आयुष्करी मृत्युहरा सर्वसिद्धिकरी नृणाम् ।

ज्येष्ठमासे महार्द्रायां चतुर्दशीदिनेपि च ४३ ।

मार्गशीर्षार्द्रकायां वा षोडशैरुपचारकैः ।

तत्तन्मूर्तिशिवं पूज्य तस्य वै पाददर्शनम् ४४ ।

शिवस्य यजनं ज्ञेयं भोगमोक्षप्रदं नृणाम् ।

वारादिदेवयजनं कार्तिके हि विशिष्यते ४५ ।

कार्तिके मासि संप्राप्ते सर्वान्देवान्यजेद्बुधः ।

दानेन तपसा होमैर्जपेन नियमेन च ४६ ।

षोडशैरुपचारैश्च प्रतिमा विप्रमंत्रकैः ।

ब्राह्मणानां भोजनेन निष्कामार्तिकरो भवेत् ४७ ।

कार्तिके देवयजनं सर्वभोगप्रदं भवेत् ।

व्याधीनां हरणं चैव भवेद्भूतग्रहक्षयः ४८ ।

कार्तिकादित्यवारेषु नृणामादित्यपूजनात् ।

तैलकार्पासदानात्तु भवेत्कुष्ठादिसंक्षयः ४९ ।

हरीतकीमरीचीनां वस्त्रक्षीरादिदानतः ।

ब्रह्मप्रतिष्ठया चैव क्षयरोगक्षयो भवेत् 1.16.५० ।

दीपसर्षपदानाच्च अपस्मारक्षयो भवेत् ।

कृत्तिकासोमवारेषु शिवस्य यजनं नृणाम् ५१ ।

महादारिद्र्य शमनं सर्वसंपत्करं भवेत् ।

गृहक्षेत्रादिदानाच्च गृहोपकरणादिना ५२ ।

कृत्तिकाभौमवारेषु स्कंदस्य यजनान्नृणाम् ।

दीपघंटादिदानाद्वै वाक्सिद्धिरचिराद्भवेत् ५३ ।

कृत्तिकासौम्यवारेषु विष्णोर्वै यजनं नृणाम् ।

दध्योदनस्य दानं च सत्संतानकरं भवेत् ५४ ।

कृतिकागुरुवारेषु ब्रह्मणो यजनाद्धनैः ।

मधुस्वर्णाज्यदानेन भोगवृद्धिर्भवेन्नृणाम् ५५ ।

कृत्तिकाशुक्रवारेषु गजकोमेडयाजनात् १ ।

गंधपुष्पान्नदानेन भोग्यवृद्धिर्भवेन्नृणाम् ५६ ।

वंध्या सुपुत्रं लभते स्वर्णरौप्यादिदानतः ।

कृत्तिकाशनिवारेषु दिक्पालानां च वंदनम् ५७ ।

दिग्गजानां च नागानां सेतुपानां च पूजनम् ।

त्र्यंबकस्य च रुद्रस्य विष्णोः पापहरस्य च ५८ ।

ज्ञानदं ब्रह्मणश्चैव धन्वंतर्यश्विनोस्तथा ।

रोगापमृत्युहरणं तत्कालव्याधिशांतिदम् ५९ ।

लवणायसतैलानां माषादीनां च दानतः ।

त्रिकटुफलगंधानां जलादीनां च दानतः 1.16.६० ।

द्रवाणां कठिनानां च प्रस्थेन पलमानतः ।

स्वर्गप्राप्तिर्धनुर्मासे ह्युषःकाले च पूजनम् ६१ ।

शिवादीनां च सर्वेषां क्रमाद्वै सर्वसिद्धये ।

शाल्यन्नस्य हविष्यस्य नैवेद्यं शस्तमुच्यते* ६२ ।

विविधान्नस्य नैवेद्यं धनुर्मासे विशिष्यते ।

मार्गशीर्षेऽन्नदस्यैव सर्वमिष्टफलं भवेत् ६३ ।

पापक्षयं चेष्टसिद्धिं चारोग्यं धर्ममेव च ।

सम्यग्वेदपरिज्ञानं सदनुष्ठानमेव च ६४ ।

इहामुत्र महाभोगानंते योगं च शाश्वतम् ।

वेदांतज्ञानसिद्धिं च मार्गशीर्षान्नदो लभेत् ६५ ।

मार्गशीर्षे ह्युषःकाले दिनत्रयमथापि वा ।

यजेद्देवान्भोगकामो नाधनुर्मासिको भवेत् ६६ ।

यावत्संगवकालं तु धनुर्मासो विधीयते ।

धनुर्मासे निराहारो मासमात्रं जितेंद्रियः ६७ ।

आमध्याह्नजपेद्विप्रो गायत्रीं वेदमातरम् ।

पंचाक्षरादिकान्मंत्रान्पश्चादासप्तिकं जपेत् ६८ ।

ज्ञानं लब्ध्वा च देहांते विप्रो मुक्तिमवाप्नुयात् ।

अन्येषां नरनारीणां त्रिःस्नानेन जपेन च ६९ ।

सदा पंचाक्षरस्यैव विशुद्धं ज्ञानमाप्यते ।

इष्टमन्त्रान्सदा जप्त्वा महापापक्षयं लभेत् 1.16.७० ।

धनुर्मासे विशेषेण महानैवेद्यमाचरेत् ।

शालितंडुलभारेण मरीचप्रस्थकेन च ७१ ।

गणनाद्द्वादशं सर्वं मध्वाज्यकुडवेन हि ।

द्रोणयुक्तेन मुद्गेन द्वादशव्यंजनेन च ७२ ।

घृतपक्वैरपूपैश्च मोदकैः शालिकादिभिः ।

द्वादशैश्च दधिक्षीरैर्द्वादशप्रस्थकेन च ७३ ।

नारिकेलफलादीनां तथा गणनया सह ।

द्वादशक्रमुकैर्युक्तं षट्त्रिंशत्पत्रकैर्युतम् ७४ ।

कर्पूरखुरचूर्णेन पंचसौगंधिकैर्युतम् ।

तांबूलयुक्तं तु यदा महानैवेद्यलक्षणम्* ७५ ।

महानैवेद्यमेतद्वै देवतार्पणपूर्वकम् ।

वर्णानुक्रमपूर्वेण तद्भक्तेभ्यः प्रदापयेत् ७६ ।

एवं चौदननैवेद्याद्भूमौ राष्ट्रपतिर्भवेत् ।

महानैवेद्यदानेन नरः स्वर्गमवाप्नुयात् ७७ ।

महानैवेद्यदानेन सहस्रेण द्विजर्षभाः ।

सत्यलोके च तल्लोके पूर्णमायुरवाप्नुयात् ७८ ।

सहस्राणां च त्रिंशत्या महानैवेद्यदानतः ।

तदूर्ध्वलोकमाप्यैव न पुनर्जन्मभाग्भवेत् ७९ ।

सहस्राणां च षट्त्रिंशज्जन्म नैवेद्यमीरितम् ।

तावन्नैवेद्यदानं तु महापूर्णं तदुच्यते 1.16.८० ।

महापूर्णस्य नैवेद्यं जन्मनैवेद्यमिष्यते ।

जन्मनैवेद्यदानेन पुनर्जन्म न विद्यते ८१ ।

ऊर्जे मासि दिने पुण्ये जन्म नैवेद्यमाचरेत् ।

संक्रांतिपातजन्मर्क्षपौर्णमास्यादिसंयुते ८२ ।

अब्दजन्मदिने कुर्याज्जन्मनैवेद्यमुत्तमम् ।

मासांतरेषु जन्मर्क्षपूर्णयोगदिनेपि च ८३ ।

मेलने च शनैर्वापि तावत्साहस्रमाचरेत् ।

जन्मनैवेद्यदानेन जन्मार्पणफलं लभेत् ८४ ।

जन्मार्पणाच्छिवः प्रीतिः स्वसायुज्यं ददाति हि ।

इदं तज्जन्मनैवेद्यं शिवस्यैव प्रदापयेत् ८५ ।

योनिलिंगस्वरूपेण शिवो जन्मनिरूपकः ।

तस्माज्जन्मनिवृत्त्यर्थं जन्म पूजा शिवस्य हि ८६ ।

बिंदुनादात्मकं सर्वं जगत्स्थावरजंगमम् ।

बिंदुः शक्तिः शिवो नादः शिवशक्त्यात्मकं जगत् ८७ ।

नादाधारमिदं बिंदुर्बिंद्वाधारमिदं जगत् ।

जगदाधारभूतौ हि बिंदुनादौ व्यवस्थितौ ८८ ।

बिन्दुनादयुतं सर्वं सकलीकरणं भवेत् ।

सकलीकरणाज्जन्मजगत्प्राप्नोत्यसंशयः ८९ ।

बिंदुनादात्मकं लिंगं जगत्कारणमुच्यते ।

बिंदुर्देवीशिवो नादः शिवलिंगं तु कथ्यते 1.16.९० ।

तस्माज्जन्मनिवृत्त्यर्थं शिवलिंगं प्रपूजयेत् ।

माता देवी बिंदुरूपा नादरूपः शिवः पिता ९१ ।

पूजिताभ्यां पितृभ्यां तु परमानंद एव हि ।

परमानंदलाभार्थं शिवलिंगं प्रपूजयेत् ९२ ।

सा देवी जगतां माता स शिवो जगतः पिता ।

पित्रोः शुश्रूषके नित्यं कृपाधिक्यं हि वर्धते ९३ ।

कृपयांतर्गतैश्वर्यं पूजकस्य ददाति हि ।

तस्मादंतर्गतानंदलाभार्थं मुनिपुंगवाः ९४ ।

पितृमातृस्वरूपेण शिवलिंगं प्रपूजयेत् ।

भर्गः पुरुषरूपो हि भर्गा प्रकृतिरुच्यते ९५ ।

अव्यक्तांतरधिष्ठानं गर्भः पुरुष उच्यते ।

सुव्यक्तांतरधिष्ठानं गर्भः प्रकृतिरुच्यते ९६ ।

पुरुषत्वादिगर्भो हि गर्भवाञ्जनको यतः ।

पुरुषात्प्रकृतो युक्तं प्रथमं जन्म कथ्यते ९७ ।

प्रकृतेर्व्यक्ततां यातं द्वितीयं जन्म कथ्यते ।

जन्म जंतुर्मृत्युजन्म पुरुषात्प्रतिपद्यते ९८ ।

अन्यतो भाव्यतेऽवश्यं मायया जन्म कथ्यते ।

जीर्यते जन्मकालाद्यत्तस्माज्जीव इति स्मृतः ९९ ।

जन्यते तन्यते पाशैर्जीवशब्दार्थ एव हि ।

जन्मपाशनिवृत्त्यर्थं जन्मलिंगं प्रपूजयेत् 1.16.१०० ।

भं वृद्धिं गच्छतीत्यर्थाद्भगः प्रकृतिरुच्यते ।

प्राकृतैः शब्दमात्राद्यैः प्राकृतेंद्रियभोजनात् १०१ ।

भगस्येदं भोगमिति शब्दार्थो मुख्यतः श्रुतः ।

मुख्यो भगस्तु प्रकृतिर्भगवाञ्छिव उच्यते १०२ ।

भगवान्भोगदाता हि नाऽन्यो भोगप्रदायकः ।

भगस्वामी च भगवान्भर्ग इत्युच्यते बुधैः १०३ ।

भगेन सहितं लिंगं भगंलिंगेन संयुतम् ।

इहामुत्र च भोगार्थं नित्यभोगार्थमेव च १०४ ।

भगवंतं महादेवं शिवलिंगं प्रपूजयेत् ।

लोकप्रसविता सूर्यस्तच्चिह्नं प्रसवाद्भवेत् १०५ ।

लिंगेप्रसूतिकर्तारं लिंगिनं पुरुषो यजेत् ।

लिंगार्थगमकं चिह्नं लिंगमित्यभिधीयते १०६ ।

लिंगमर्थं हि पुरुषं शिवं गमयतीत्यदः ।

शिवशक्त्योश्च चिह्नस्य मेलनं लिंगमुच्यते १०७ ।

स्वचिह्नपूजनात्प्रीतश्चिह्नकार्यं न वीयते ।

चिह्नकार्यं तु जन्मादिजन्माद्यं विनिवर्तते १०८ ।

प्राकृतैः पुरुषैश्चापि बाह्याभ्यंतरसंभवैः ।

षोडशैरुपचारैश्च शिवलिंगं प्रपूजयेत् १०९ ।

एवमादित्यवारे हि पूजा जन्मनिवर्तिका ।

आदिवारे महालिंगं प्रणवेनैव पूजयेत् 1.16.११० ।

आदिवारे पंचगव्यैरभिषेको विशिष्यते ।

गोमयं गोजलं क्षीरं दध्याज्यं पंचगव्यकम् १११ ।

क्षीराद्यं च पृथक्च्चैव मधुना चेक्षुसारकैः ।

गव्यक्षीरान्ननैवेद्यं प्रणवेनैव कारयेत् ११२ ।

प्रणवं ध्वनिलिंगं तु नादलिंगं स्वयंभुवः ।

बिंदुलिंगं तु यंत्रं स्यान्मकारं तु प्रतिष्ठितम् ११३ ।

उकारं चरलिंगं स्यादकारं गुरुविग्रहम् ।

षड्लिंगं पूजया नित्यं जीवन्मुक्तो न संशयः ११४ ।

शिवस्य भक्त्या पूजा हि जन्ममुक्तिकरी नृणाम् ।

रुद्रा क्षधारणात्पादमर्धं वैभूतिधारणात् ११५ ।

त्रिपादं मंत्रजाप्याच्च पूजया पूर्णभक्तिमान् ।

शिवलिंगं च भक्तं च पूज्य मोक्षं लभेन्नरः ११६ ।

य इमं पठतेऽध्यायं शृणुयाद्वा समाहितः ।

तस्यैव शिवभक्तिश्च वर्धते सुदृढा द्विजाः ११७

॥१॥

इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां षोडशोऽध्यायः १६ । १.१६.१६ नैवेद्य उपरि पौराणिकसंदर्भाः